चम्पूरामायणे सुन्दरकाण्डम्

चम्पूरामायणे सुन्दरकाण्डम्

अथ भोजचम्पूरामायणे सुन्दरकाण्डम् । ततो हनूमान्दशकण्ठनीतां सीतां विचेतुं पथि चारणानाम् । महेन्द्रशैलस्य खगेन्द्रवेगः प्रस्थादुदस्थात्प्रथमानवेगः ॥ १॥ तदानीमुदन्वदुल्लङ्घन दृढतर निहितचरण निष्पीडनं सोढुमक्षमः क्ष्माभृदेष निःशेषनिःसरन्निर्झरौघतया निरन्तर निष्पतद् बाष्पवर्ष इव, इतस्ततो वितत जीमूतवृन्दतया पारिप्लव शिथिल धम्मिल्ल इव, सन्त्रस्यमानकुञ्जरयूथतया सञ्जातश्वयथुरिव, साध्वसधावमान हरिणगण चरणखरतर खुरकोटि पाटनोद्धूत धातुधूलीपालि पाटलित विकट कटकतया क्षरितशोणित इव, तत्क्षणप्रबुद्ध कण्ठीरव मुखरित कन्दरतया कृताक्रन्द इव, परिसर गह्वर निबिरीस निःसृतसरीसृपतया निर्गलितान्त्रमाल इव, घूर्णमान तरुविटपकोटि ताडित जलदवृन्द स्यन्दित सीकरनिकर कोरकिताकारतया समुपजात स्वेद इव, स्फटिततटोपलपतन दलित कीचक सुषिर संमूर्छत् पवन फूत्कार परिपूरित गगनतया प्रवर्धमानोर्ध्वश्वास इव वचसामविषयं दौस्थ्यमभजत ॥ कृत्वा मारुतिलङ्घनोत्थितरयात्तत्रानुयात्रां ततः पर्यायात्पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः । मध्येवारिनिधि प्रकाशितशिखा सेतोः कृते भाविनः सूत्रन्यासनिखातशङ्कुनिवहभ्रान्तिं पयोधौ दधौ ॥ २॥ पक्षाभिघातरय रेचित वीचिमाला- त्पाथोनिधेः पवननन्दन विश्रमाय । उत्तुङ्गश‍ृङ्गकुलकीलितनाकलोको मैनाकभूभृदुदजृम्भत सम्भ्रमेण ॥ ३॥ तत्र यात्राप्रत्यूहः प्रत्युद्भूत इति वक्षसा तमधः पातयित्वा प्रयान्तमेनं सान्त्वयन्हिरण्यनाभो बभाषे ॥ सागरेण कृतज्ञेन तवाध्वश्रान्तिशान्तये । मारुते प्रेरितोऽस्म्यद्य सौम्य विश्रम्य गम्यताम् ॥ ४॥ त्वत्पित्राहं परित्रातः पूर्वं पर्वतभेदिनः । तस्मान्नास्मि विपक्षोऽद्य सपक्ष इति मां भज ॥ ५॥ एवं प्रार्थयमानमेनं सम्मान्य कार्यगत्या गते सति हनूमति ॥ अवलोक्य हिरण्यनाभमब्धौ वलमानं बलमानमाथिवज्रः । शतमन्युरपेतमन्युरासी- त्पवमानात्मजसेवनादमुष्मिन् ॥ ६॥ तदनु यथापुरं लङ्कापुरं प्रति प्रधावतो हनूमतः सरणिमरुणदरुणसारथेः पदवीं विन्ध्य इव वदनं व्यादाय द्विरसनजननी रंहसा सुरसा ॥ उज्जृम्भितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः । तस्योत्तमाङ्गमभवद्गगनस्रवन्ती- वीचीचयस्खलितसीकरमालभारि ॥ ७॥ तनुं तनूकृत्य तदा हनूमा- न्कृत्वा प्रवेशं जठरे तदीये । ततो विनिष्क्रम्य स चक्रपाणे- स्‍त्रिविक्रमस्य क्रममेव चक्रे ॥ ८॥ भूयोऽपि सोऽयं रघुनाथदूत- श्चिच्छेद गच्छन् नखरैः खराग्रैः । नृसिंहरंहाः पथि सिंहिकाङ्गं छायानिरोधादुपपन्नमन्युः ॥ ९॥ तदनु पारावारस्य पारे लम्बशिखरिणि लम्बमानः प्रतनुतरवपुर्लङ्कापुरोत्तरगोपुरद्वारमासाद्य नितान्तचिन्तातन्तुसन्दानितान्तःकरणोऽभूत् ॥ वानरसेना कथं तरेदिममन्तरायं वितन्वन्तमुदन्वन्तं तरतु नाम कथमुपयातु यातुधानराजधानीमिमाम्, सर्वथा वितथमनोरथो दाशरथिः, मोघीकृतार्णवलङ्घनः केवलमहमभवम्, जीविता वा न वेति न जानामि जानकीति तत्र भगवतीं सीतामवजिगमिषुराञ्जनेयः प्रच्छन्नसञ्चारहेतोरस्तमयं गभस्तिमालिनः केवलमभिललाष ॥ तदनु शातमखस्यागस्त्यसंनिधौ निक्षिप्तचापस्य प्रत्यासीदति प्रयोजनवेलेति प्रचेतसे कथयितुमिव प्रतीचीं दिशं प्रविशति भगवति भास्वति ॥ गगनतलमिदमपर महीधर कटककान्तार समुद्भव दावपावक शिखाश्रेणिभिः किं शोणितम्, अथवा समीप समापतत् पतङ्गरश्मि दृढतरवेष्टन निष्ठ्यूतानल तटतपनोपल जाल समुल्लसज्ज्वालापटलैः किमापाटलितम्? आहोस्विदागताय मित्राय महार्घमर्घ्यं प्रदातुं प्रमुदितचेतसा प्रचेतसा तूर्णमर्णवोदरोद्गीर्यमाण माणिक्यकिरणैः किमरुणितम्? आहोस्वित्तारापथ तरङ्गिणी सलिलमपि रसयितुमुज्जृम्भितस्य चरम सागरौर्वाग्नेरर्चिःपुञ्जेन किमिह रञ्जितमिति सकलजनस्य सन्देहसन्दोहं सन्दधाने सन्ध्यारागे समुदञ्चिते, सरसीरुहश्रेणिषु पत्रपुट कपाट पिधानासु प्रतिकुमुद भवनं मकरन्द भिक्षामटत्सु मधुव्रत द्विजेषु, विकच कुवलय कलिकाकर्षण कषायेषु सायन्तन वायुषु, तत इतः सञ्चरत्सु तिमिरेषु, कालागरु धूमस्तोम श्यामलितेषु दिक्पाल पुरगोपुरव्यूहेषु, प्रतिकमलाकरं प्रेङ्खिते विश्लेष वेदनापूर्वरङ्गे रथाङ्ग विहङ्ग दीन क्रेङ्कारे, नक्षत्र मालालङ्कृते गगन मतङ्गजे ॥ आविर्बभूव पूर्वाद्रेः श‍ृङ्गे श‍ृङ्गारजीवितम् । तमस्तमालकान्तारकुठारः शशलाञ्छनः ॥ १०॥ तत्करास्तमसा रुद्धा रेजिरे गगनाजिरे । शैवालचयसञ्च्छन्नाः सरसीव बिसाङ्कुराः ॥ ११॥ तस्मिन् प्रदोषसमये सहसा हनूमा न्कीर्तिच्छटायवनिकामपनीय शत्रोः । आविर्बभूव सुमनःपरितोषणाय लङ्का प्रवेश नवनाटक सूत्रधारः ॥ १२॥ तत्काले लङ्काधिदेवतामात्मना सह विग्रहं विधातुं गृहीत युवति विग्रहां मार्गप्रसारस्यार्गलीभूय भूयसा तर्जयन्तीं निर्जित्य तया वानर रचितावज्ञोपज्ञं निजनिलयविलयं सरसिजासन शासनादावेदयन्त्या विहितानुमतिर्मारुतिर्लङ्कायामविकलमेव मैथिलीं विचिन्वन् नैरृतचक्रवर्तिनः प्रासादमाससाद ॥ तत्र ॥ एषा राक्षससार्वभौमनगरी रक्षश्चमूरक्षिता तस्येदं सदनं सुवर्णशिखरं बिभ्राणमभ्रावलिम् । एतत्पुष्पकमाहृतं धनपतेरित्यादरान्मारुते- स्तत्रादर्शयदिन्दु दीप किरण प्रद्योतिताशा निशा ॥ १३॥ अपि च ॥ आदित्यः कृतकृत्य एष भविता सीतापतेरीदृशं साहाय्यं विरचय्य कीर्तिमतुलामादित्सुना सूनुना । इत्यालोच्य तदा किल स्वयमपि ख्यातिं ग्रहीतुं परां लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम् ॥ १४॥ एवमेव पर्यटन्नस्वप्नसुन्दरी सौन्दर्यमुद्रां निद्रयाप्यतिशय्य शय्यागृहे कृतसंवेशं वेशयुवति परिवृतमवरोधवधूजनमप्यनिरोधेन निरीक्ष्य तत्र वितथमनोरथो मारुतिर्विरचित बहु विध चिन्ताप्रकारः प्राकारादवप्लुतः सन्नशोकवनिकायामपि मैथिलीमन्वेष्टुमिष्टदेवताप्रणतिमतनुत ॥ असौ जनकनन्दिनीं तत इतो विचिन्वन्क्षणा- दशोकवनिकामगादपगतान्यमार्गभ्रमः । परामभिलषन् गतिं शमधनो यथा निर्मम- स्त्रयीमखिल किल्बिष प्रशमनैकदिव्यौषधिम् ॥ १५॥ ततस्तस्यां नाग पुन्नाग ताल हिन्ताल तमाल कृतमाल सरल बकुल वञ्जुल तिलकामलक कुटज लिकुच कतक कक्कोलाङ्कोल लवङ्ग विकङ्कत केतकी कदम्बोदुम्बर कपित्थाश्वत्थ कुरवक मरुवक माकन्द कुन्द तिन्दुक चन्दन स्यन्दन चम्पक चाम्पेय पनस वेतस पलाश पाटलारसाल प्रियालु प्रायैरनेकैरनोकहनिवहैः परिवृतायां परिभ्रमन्नभ्रङ्कष विकटविटप निबिडित गगन प्रपञ्चां काञ्चन काञ्चनमयीं शिंशपामारुरोह ॥ तत्र तत्पत्रसञ्छन्नगात्रः पुत्रो नभस्वतः । न्यग्रोधदलसंलीनजनार्दनदशां दधौ ॥ १६॥ मल्लीं चूतवनादिव स्नुहिवने म्लेच्छेन संस्थपितां मालां देवकुलादिवामिषधिया क्षिप्तां श्मशाने शुना । देवीमाश्रमतस्तथा स्वभवनं नक्तञ्चरेण च्छला- दानीतामपनीतवेषरचनामालोकयन्मारुतिः ॥ १७॥ पुनरयमेनामालोक्यैवं चिन्तां ततान ॥ ज्योत्स्नां विनापि निवसेन्निशि शीतभानु- श्छायां विनापि विलसेद्दिवसेश्वरोऽपि । एनां विना रघुपतिः परिगृह्य धैर्यं सप्राण एव वसतीति विचित्रमेतत् ॥ १८॥ एवं चिन्तयता हनूमता कथमपि निशीथसमये गते निशीथिनीनाथेऽपि चरमगिरि शिखरोपकण्ठ सेवामुत्कण्ठमाने दशकण्ठस्तु निद्राशेषेण स्मर शर प्रहारेण च कलुषीकृताक्षः सरस हरिचन्दन चर्चया जानकी दर्शनेच्छया च प्रकटित रागः परिवर्तित वैकक्षकमालया मकुटरत्नप्रभया च तिरस्कृतनक्षत्रमालः शनैः शनैरविशदशोकवनिकाम् ॥ रजनिचरमभागे वारसीमन्तिनीनां करतलकलिताभिर्दीपिकामार्जनीभिः । दिशि दिशि परिमृष्टं यत्तमस्तत्समस्तं हृदयमवजगाहे केवलं रावणस्य ॥ १९॥ सोऽयं मदान्धहृदयो रघुवीरपत्नीं सीमन्तिनीति हतनीतिरवाप पापः । आमूलपल्लवितकोमलसल्लकीति वैतानपावकशिखामिव वारणेन्द्रः ॥ २०॥ एतद्दर्शनेन वेपमानतनुलता मैथिली कापुरुषविषय परुषवचन पारम्पर्येण विदीर्यमाण हृदया हृदयदयिताशय प्रत्ययादमुमेव तृणमन्तरतः कृत्वा स्थिता पर्यभाषत ॥ अयि, सकल समाचार प्रतिष्ठा निष्ठः परमेष्ठी ननु कुलगुरुर्भवतः परकलत्ररतिरपत्रपां जनयति हि गोत्रजातानाम् ॥ भूयोऽपि पञ्चवटीपरिसरममुं जनमनुकूलप्रभञ्जन इवानुकूलः कूलोपकण्ठं परिभ्रष्टां नावमिव यदि नयेथाः, तर्हि तवापिदयते नियतं मदीयो जीवितेशः साक्षाज्जीवितेशोऽपि त्वयि दयालुर्भवेत् ॥ दाशरथेरजर्य्याया मैत्र्याः पात्रमपि भवितासि ॥ किन्तु खरप्रमुख निशाचर बल मथनसमय रुचिर लग्न सान्द्रवसा पङ्किल मुखमार्यपुत्रस्य शिलीमुखं भवन्तमन्तरेण कः श्रद्दधीत निजहृदय गलित रुधिर धारया प्रक्षालयितुम् ॥ अथवा जनस्थानसमरादारभ्य समराभावावग्रह तृषितानां, सौमित्रि पत्त्रि चातकानां शोणिताम्बुपारणां तवापनयश्चेत्कः समर्थो निवारयितुम् ॥ अथ निशिचरनाथं पञ्चबाणीविभिन्नं न हि जनकसुतायाः प्रापदेकापि वाणी । जनमुपनतमृत्युं पञ्चवक्त्राहिदष्टं विशति हृतविषाधेरोषधेः किं नु शक्तिः ॥ २१॥ एवं जनकदुहितुरवधीरणाफणितिमाकर्ण्य कोपपराङ्ग्मुखो दशमुखस्तामभितो निवसन्तीरारक्षिक राक्षसीरुद्दिश्य ``भवत्यः चतुर्भिरप्युपायैरेनामवश्यं वश्यां कुरुध्वम् । इयमननुकूला चेदिमां हताशां प्रातरशनाय महानसं नयत'' इत्यादिश्य निशान्ते प्रत्यासन्ने निशान्तमेव प्रविवेश ॥ तदनु क्षणदाचरीणां भीषण वीक्षण वाग्दोषोन्मेषेण मुकुलित हृदय पुण्डरीका पुण्डरीक यूथपरिवृत सारङ्गाङ्गना भङ्गीमङ्गीकुर्वाणा गीर्वाण तरुणीव शापबलाद्वसुधां प्रपन्ना जनकनन्दिनी चिन्तामेवमकरोत् ॥ नूनं विदितवृत्तान्ते जटायुषि गतायुषि । मामिहस्थामार्यपुत्रः किं नाधिगतवान् प्रभुः ॥ २२॥ आहोस्वित्क्रव्यादमायया विपर्यस्त प्रकृतेः काकुत्स्थस्य किम्वनास्था सञ्जायते ॥ न केवलं मामहरद्दुरात्मा कृपां च रामस्य निसर्गसिद्धाम् । इदं न चेत्संश्रितवत्सलः किं भवेत्स तूष्णीं जगदेकवीरः ॥ २३॥ इत्थं विलप्य रघुपुङ्गवमेव सन्ततं चिन्तयन्ती कृच्छ्रान्मूर्च्छामगमत् ॥ निशाचरीस्तां निरवद्यशीलां निर्भर्त्सयन्तीर्निभृतं निवार्य । अस्वप्नलोकोत्सवमात्मदृष्टं दुःस्वप्नमेकं त्रिजटा जगाद ॥ २४॥ किं च ॥ उपघ्‍नवृक्षस्य परोक्षभावा- दुपेत्य पृथ्वीं सुचिरं लुठन्त्याः । नक्तञ्चरस्‍त्रीमुखकर्शितायाः सीतालतायास्‍त्रिजटा जटाभूत् ॥ २५॥ तदनन्तरमात्मत्यागाय स्पृहयन्त्यां मैथिल्यां मारुतिरियमनुपेक्षणीया तपस्विनी नीतिममुञ्चतीति चिन्तां परिगृह्य नेदीयानस्या बभूव ॥ ततः ॥ देव्या दशाननवचोमयवज्रदीर्ण- कर्णान्तरव्रणविरोपणभेषजानि । विस्रम्भणार्थमयमन्वयसङ्गतानि रामाभिकीर्तनमधूनि शनैर्न्यषिञ्चत् ॥ २६॥ तदनन्तरं समन्तात्प्रसारित नयना जनक तनया तस्यां शाखायां शाखामृगमुद्वीक्ष्य दुःस्वप्न बुद्ध्या चकित हृदया सलक्ष्मणाय रामाय भर्त्रे भद्रमाशंसमाना जनमिमं दुरापस्वापं स्वप्नः कथमाप्नुयादिति विचिन्त्य मायया समायात नैरृत पति बुद्ध्या तस्मान्मारुत पुत्रात् तत्रास ॥ सोऽपि समवतीर्य वचन वैचित्र्याज्जनकपुत्रीं प्रत्याययितुमाञ्जनेयः कृताञ्जलिर्व्यजिज्ञपत् ॥ कल्याणि त्वद्वियोगेन तीव्रवेगेन ताम्यतः । राघवेन्द्रस्य दूतं मामन्यथा मा स्म मन्यथाः ॥ २७॥ त्वया सह प्रस्थितचित्तवृत्ति- र्विभावरीकोकसमानधर्मा । वचोऽब्रवीन्मैथिलि मन्मुखेन त्वां कौशलं कोसलराजपुत्रः ॥ २८॥ अपि च ॥ शिरसा तव सौमित्रिरकरोदभिवादनम् । अपृच्छत्सोऽपि भद्रं त्वामधिपश्च वनौकसाम् ॥ २९॥ एवमभिहितया तया सम्भूत विस्रम्भतया भयादपेतया तावदनुयुक्तः पवनतनयो वालि मरण कारणं सुग्रीवस्य सख्यमाख्याय प्राचेतस चेत इव सन्तत सन्निहित रामनाम मङ्गलमङ्गुलीयकमस्यै प्रायच्छत् ॥ सौख्यावहस्य पवनात्मजनीयमान- रामाङ्गुलीयकविलोकनवासरस्य । सत्यं कलां शततमीं भुवि नैव भेजे पाणिग्रहोत्सवदिनं जनकात्मजायाः ॥ ३०॥ ततस्तं जानकी निःसीमहर्षा बभाषे ॥ महाभाग ! सर्वथास्य दुरात्मनः प्रत्यासीदति मृत्युरेवमनलाभिधानया विभीषणदुहित्रा स्वमात्रा प्रेषितया भाषितम् । अयमप्यनार्यशीलस्तुरीयमुपायमन्तरेण न मामार्यपुत्रस्य समर्पयिष्यति । नियतमहमपि मासादूर्ध्वं न शक्नुयां प्राणान् कृपणान् धारयितुमिति ॥ एतदाकर्ण्य मारुतिर्महानुभावे ! मा भैषीः । भवतीं वहन्नेव तूर्णमुल्लङ्घित सागरो रघुवर चरण सरसिजसमीपमुपयास्यामि । मामसमर्थं न समर्थयेथा इत्यभिहितवान् ॥ किं च ॥ महामहीध्रसध्रीचीं सोऽयं वृद्धिमुपेयिवान् । यया नूनमपाराशिः कुल्यातुल्यां दशां दधौ ॥ ३१॥ अथ तमुवाच सा जनकराजसुता मुदिता किमु तव दुष्करं चरणलङ्घितवारिनिधेः । अपि तु मया सह प्लवगपुङ्गव यास्यसि चे- न्नियतमपायिनी परिणमेद्भवतः पदवी ॥ ३२॥ अन्यच्च ॥ पातिव्रत्यहुताशनेन यदि तं कुर्यामहं भस्मसा- त्सत्यं दाशरथेः शरस्य न भवेदात्मोचिता पारणा । किं चैतस्य यशोनिशापतिरपि प्रम्लानकान्तिर्भवे- त्तस्माच्छासितरावणे रघुपतौ यात्रा मम श्रेयसी ॥ ३३॥ एवं व्याहृतः पवनसुतो विनीतां सीतां पुनराबभाषे ॥ मायामृगेण तव मैथिलि वञ्चितायाः शाखामृगेण पुनरागतिरित्ययुक्तम् । एषा कथापि भुवने वितता यदि स्या त्का नाम रामधनुषः प्रथिता प्रशस्तिः ॥ ३४॥ किं बहुना । इत्येतदेव चिन्तितम् । यदर्हं राघव गृहिण्यास्तदेव निश्चितम् । यत्सदृशमीदृशस्य समाचारस्य तदेव प्रकाशितम् । यदनुगुणं रावणापराध प्रतिक्रियायास्तदेवानुमोदितम् । यदनुकूलं कुलवधूशीलस्य तदेव कथितम् । यदुचितं क्षत्रियाणी वाणी प्रक्रमस्य तदेवोपक्रान्तमिति बहुशः प्रशस्य सर्वथा रामलक्ष्मणौ लङ्कामिमां प्राप्ताविति जानकि, जानीहि । अनुजानीहीमं जनं प्रस्थातुम् ॥ काकुत्स्थेन विदितपूर्वमभिज्ञानं किमपि दीयतामिति ॥ सा तु दीर्घं निश्वस्य निश्चित्य पुरा खलु चित्रकूट तटवने तरुणतर तरु रमणीयतया मन्दीभवन्नन्दनवैभवे रघुनन्दनेनोपधानीकृताङ्काया मम पयोधरपरिसरे खरतर नखराग्र विरचित विदारणं धाराधर नामानं काकं रघुपतिर्व्यलोकयत् ॥ कुशरूपकुशेशयासनास्‍त्रं विजहौ वासविवायसे स वीरः । अथ तत्कृपयाहृताक्षिमात्र- श्चिरजीवी स दधौ यथार्थसञ्ज्ञाम् ॥ ३५॥ सैषा परिचितकथास्मरणाद्विगुणितदुर्दशा केशपिनद्धमपरमिदमभिज्ञानमुन्मुच्य ॥ चूडामणिं कपिवरस्य ददौ दशास्य- सन्त्रासपुञ्जितरुपाग्निदशं कृशाङ्गी । आदाय तम्प्रणतिपूर्वमसौ प्रतस्थे माणिक्यगर्भवदनोरगतुल्यबाहुः ॥ ३६॥ ततः कृतकृत्य एव निर्गत्य निजागमनं निशाचरपतेः प्रकाशयितुं निजागमनमशोकवनिकां बभञ्ज प्रभञ्जनात्मजः ॥ स्वकृत्यैः शाखानामवनतिमतीव प्रकटय न्नमार्गेण भ्राम्यन्परिकलितभङ्गः सुमनसाम् । द्विजानां सन्त्रासं श्रुतिमधुरवाचां विरचय- न्नयं लङकोद्याने दशवदनलीलामतनुत ॥ ३७॥ तदनु सरभसमारक्षिक रक्षोगण निवेदित प्रमदावन कदन कुपित दशवदन प्रेषितान् पितृपति किङ्कर भयङ्करान् किङ्करान् प्रहस्तपुत्रेण जम्बुमालिना सह निहत्य चैत्यतोरणमुपगतवति हनूमति ॥ पुनरपि निशमितामित निशिचर गणमारणो रावणः सचिवान् पञ्च पञ्चानन पराक्रमान् प्रहसन प्रमुखान् वलीमुखं जीवग्राहं गृह्णीध्वमिति प्राहिणोत् ॥ तत्र तानपि तोरण परिघेण पञ्च पञ्चतां नीत्वा मुहुर्मुहुर्दाशरथिदूतोऽहमित्यात्मानमुद्घोषयन्तं हनूमन्तं नियन्तुं नियन्ता निखिल रक्षसामध्यक्षमक्षकुमारमध्यक्षिपत् ॥ वक्षःसङ्घट्टचूर्णीकृतकनकमहाभित्तिचैत्योत्थधूल्या नक्षत्राणामकाले सरणिमरुणयन्विरलक्ष्म्या समेतः । रक्षःशूराख्यशारा न्क्षितितलफलके क्षेपणीयां हनूमा नक्षक्रीडां विधातुं दशमुखनगरीचत्वरे तत्वरेऽसौ ॥ ३८॥ तत्क्षणं क्षणदाचराणां मिषतामेव निष्पादित रङ्ग निष्पेष कृत्यश्चैत्यप्रासादमुत्पाटित स्तम्भ जात जातवेदसा दग्ध्वा भूयोऽप्युपाश्रित तोरणः समीरणसुतो बभूव । एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेर्युगपदेव निपेतुः पुत्रे सुत्रामजिति समितिहेतोर्विंशतिदृष्टयः ॥ अनिमिषभुवने वा व्योम्नि वा भूतले वा समरमुपगतं त्वां वीक्षितुं कः समर्थः । इति नुतिवचनेन श्लाघयन्मेघनादं प्लवगमिह नयेति प्राहिणोद्राक्षसेन्द्रः ॥ ३९॥ नेतुं शोकरसं निशाचरपतेर्हन्तुं चमूं रक्षसां तस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनम् । सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीमग्निना शुद्धां कर्तुममुष्य वासवजिता जातो रणस्तोरणे ॥ ४०॥ सङ्ग्रामदुर्दिने तस्मिञ्जहर्ष शरवर्षिणि । बर्हीव मेघनादेन मेघनादेन मारुतिः ॥ ४१ ॥ तदनु यातुधान बल प्रधान निधनक्रुद्धो विविधायुध वैतथ्यं विमृश्य विजयश्रीसङ्गत गन्धं गन्धवह नन्दनं सतानन्दास्त्रेण बबन्ध दशकन्धरात्मजः ॥ तेन दिव्यास्‍त्रेण विवशशरीरमेनं पिशिताशनाः शण वल्कलैर्बबन्धुः ॥ स मारुतेर्नैऋतपाशजन्मा बन्धोऽभवद्बन्धविमोक्षहेतुः । पुरा पुलस्त्यान्वयपांसनेन बन्दीकृतानां सुरसुन्दरीणाम् ॥ ४२॥ तदनन्तरमितर हननासहतया निह्रुतस्य दिव्यास्त्रस्य प्रभावं विभावयन् विभावरी चरपति तनूजः पवन तनयं निज पितृ समीपमुपनिनाय ॥ सोऽयं ददर्श दशकन्धरमन्धकारि- लीलाद्रितोलनपरीक्षितबाहुवीर्यम् । बन्दीकृतेन्द्रपुरवारवधूकराग्र- व्याधूतचामरमरुच्चलितोत्तरीयम् ॥ ४३॥ आपाटलाधरपुटान्तविराजमान- दंष्ट्रामहःप्रसरशारशारीरकान्तिम् । सन्ध्याम्बुदान्तरितमध्यसुधामयूख- रेखाभिराममिव वासवनीलशैलम् ॥ ४४॥ सङ्ग्रामकेलिपरिघट्टनभग्‍नमग्‍न दिग्दन्तिदन्तकृतमुद्रभुजान्तरालम् । छायात्मना प्रतितरङ्गविराजमान- शीतांशुमण्डलसनाथमिवाम्बुराशिम् ॥ ४५॥ निश्रेयसप्रणयिनीं पदवीं निरोद्धुं त्रैलोक्यपापपरिपाकमिवात्तरूपम् । सूर्येन्दुपावकमहांसि तपोबलेन जित्वा यथेच्छमभिषिक्तमिवान्धकारम् ॥ ४६॥ सोऽपि प्लवङ्गमभिवीक्ष्य समीरपुत्रं चित्रीयमाणहृदयः पिशिताशनेन्द्रः । कैलासशैलचलनागसि शापदायी नन्दीश्वरः स्वयमुपागत इत्यमंस्त ॥ ४७॥ ततः प्रहस्तेन विहित विविधानुयोगः प्रत्यभाषत रावणं मारुतिः ॥ अयमहमर्हपतिकुलतिलकस्य सत्यसन्धस्य पितृनियोग समुपगत वनवासनिरतस्य शूर्पकाराति बाधित शूर्पणखा प्राप्तवैरूप्य कुप्यत् खरप्रमुख निशिचरबल पलाल जाल कल्पान्तानलकल्प शिलीमुखस्य कपटहरिणहननसमय परिमुषित दारान्वेषण सञ्जातसुग्रीवसख्यस्य समुत्खात वालिकण्टकस्य दुर्वृत्त क्षत्रवंशवन पवनसारथेस्तपोनिधेर्जामदग्न्यस्य भुजबलावलेप लोपहेतोः श्रीमतो दाशरथेर्दूतोऽहं । सीतामार्ग मार्गणाय दिशि दिशि तपनतनय प्रेषितानां वानराणामेकतमः समुद्रलङ्घन जङ्घालस्तव नगर प्रमदवन सीमनि रघुवरधर्मदारान् प्रणम्य प्रतिष्ठासुर्मदीयमागमनं प्रकाशयितुं प्रमथिताशोकवनिकानोकहनिवहस्त्वद्दर्शन कुतूहलेन केवलमनुभूत नैरृतलूता तन्तुसन्नहनस्तव परिसरमुपासरम् ॥ आनाकलोकपरिकीर्तितसच्चरित्र मत्रोपरुद्ध्य रघुवंशपतेः कलत्रम् । वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बन्द्धुमविनीत कथं यतेथाः ॥ ४८॥ किं च ॥ प्रेङ्खन्ती पिशिताशया रणमुखे सौमित्रिपत्रिक्षतं त्वद्गात्रं परितः पतत्रिपरिषच्छत्रच्छविं मा गमत् । द्राक्पौलस्त्य पुलस्त्यवंशविलये सम्भाविते त्वत्कृते कान्तानां नयनान्तवान्तसलिलं मा भून्निवापोदकम् ॥ ४९॥ बद्धादरोऽपि परदारपरिग्रहे त्व- मिक्ष्वाकुनायककलत्रमनार्य मा गाः । वाताशनोऽहमिति किं विनतासुतस्य श्वासानिलाय भुजगः स्पृहयालुतालुः ॥ ५०॥ बाहुचन्दननिषङ्गकोटरा- दुद्धृतो रघुपतेः शरोरगः । प्राणवायुमविनीत तावकं कालयापनमपास्य पास्यति ॥ ५१॥ किं बहुना ॥ मायामृगे समरनाटकसूत्रधारे शाखामृगे च भवतः प्रतिकूलवाले । दृष्टोद्यमस्य रघुनायकसायकस्य मुक्त्वा प्रणामकवचं कवचं किमन्यत् ॥ ५२॥ एवं निशम्य कुपितः पिशिताशनेन्द्रः प्राणानमुष्य हरतेति भटानवादीत् । आजन्मशुद्धमतिरत्र विभीषणस्तं दूतो न वध्य इति शास्त्रगिरा रुरोध ॥ ५३॥ रावणोऽपि विभीषण भाषणमङ्गीकृत्य ``प्लवङ्गानामङ्गेषु लाङ्गूलमेव वरम् । तदेव कार्पास वाससा संवीतं वह्नि सात्कृत्य चत्वरे चत्वरे दोषानुद्घोष्य सप्रहारं नगरं परितः सञ्चारयत'' इति राक्षसानादिदेश ॥ तेषु तथा कुर्वाणेषु ॥ निर्णयाविषयमस्य वालतः कर्णिकारनिकुरुम्बकर्बुरः । निर्निमेषगणभाग्यसञ्चया- दुन्मिमेष भगवानुषर्बुधः ॥ ५४॥ एतद्वृत्तान्तमारक्षिक राक्षसीगण गर्वोदीर्ण वर्णितमाकर्ण्य दूयमान मानसा जानकी हुताशनमुपस्थाय ``शीतो भव हनूमतः'' इति प्राञ्जलिः प्रार्थयत ॥ घोरस्य राघवकलत्रतपोमयाग्ने- र्मा भूवमिन्धनमहं क्षणमित्यवेत्य । शैत्यं वितत्य दहनः पवमानसूनो- र्वालाग्रसीम्नि मणिदीप इवावतस्थे ॥ ५५॥ तदनु पवनतनयोऽपि ``पुरमिदं न खलु सुव्यक्तं नक्तमालोकयम् । तस्मादनलसाक्षिकमेव पुरमखिलमालोकयामि'' इति यामिनीचर गणं परिचित तोरणपरिघेण जघान ॥ सीताभिधानकमलां प्रभवे प्रदातुं लङ्कार्णवं क्षुभित सैन्य तरङ्ग भीमम् । वेधा ममन्थ किल रज्जुभुजङ्गराज- भोगावृतेन पवनात्मजमन्दरेण ॥ ५६॥ अथ दह्यमानायां लङ्कायाम् ॥ रक्षःस्त्रीवदनारविन्दरजनीं विश्वम्भराबर्हिणी- वर्षारम्भदशां दशाननयशः कादम्बकादम्बिनीम् । वैधव्योचित वेषनिश्चितमनो लङ्कावधूटीजटां वैदेह्यास्त्रिजटासमां समकिरद्धूम्यां हनूमान्दिवि ॥ ५७॥ अपि च ॥ एतद्विक्रमवीक्षणेन जनितामानन्दबाष्पोद्गतिं रक्षोनाथभयात्पिधातुमनसां विद्याधराणां मुदा* । व्याजव्याहृतये यथा परिणमेद्धूम्या तथोज्जृम्भते स्वर्लोकेऽपि कलिन्दशैलतनयाकल्लोलशङ्कावहा ॥ ५८॥ *तदा इति पाठभेदः ॥ आदौ नीलांशुकश्रीस्तदनु मरकताबद्धनीवीविभूतिः कस्तूरीपङ्कभङ्गी क्षणमपि विकचेन्दीवरस्रक्सपत्नी । पश्चात्स्निग्धाञ्जनाभा जघनकुचकटीकण्ठनेत्रेषु जाता दिक्कान्तानां तदानीं दशमुखनगरीदाहसम्भूतधूम्या ॥ ५९॥ हा तात हा जननि हा सुत हा सहाय हा पौत्र हा प्रियसखि क्व नु हा हतोऽस्मि । इत्यादि पौरपरिदेवनभारवाग्भि- रापूरि रावणपुरी शिखिना परीता ॥ ६०॥ यैर्वृन्दारकसुन्दरीजनमुखे नीराजनं निर्मितं निर्मेघे गगनेऽपि यैर्विरचिता सौदामिनीसंहतिः । ते द्वित्राण्यपि वासराणि न गता निर्वाणमौर्वानल- ज्वालाडम्बरमम्बुधौ विदधिरे वालानलोद्यत्कणाः ॥ ६१॥ आदीप्यमानपवनात्मज वालसङ्गा- दङ्गारशेषविभवामवलोक्य लङ्काम् । व्योम्नि स्थिता निशिचराः स्वगृहाणि नूनं निर्वापयन्त इव नेत्रभवैः पयोभिः ॥ ६२ ॥ चक्रे शक्रजिदाज्ञया रणमुखे यत्कर्म रक्षोगण- स्तत्कर्तुं क्षणदाचरक्षितिभुजा युक्तोऽप्यशक्तो भवेत् । सप्तार्चिश्च हनूमता परिचितो लङ्कामधाक्षीद्यथा तत्पित्रा मरुता युतोऽपि न तथा दाहक्रियायां पटुः ॥ ६३॥ तस्मिन्हनूमदरणिप्रभवे हुताशे शुद्धिं विधाय पतिमेव समेतुमैच्छत् । लङ्केश्वरेण रणकेलिकुतूहलेन बाहोर्बलादपहृता सुरराजलक्ष्मीः ॥ ६४॥ वाचामिदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्ताम् । काकुत्स्थदूतोऽयमुपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशाम् ॥ ६५॥ पौलस्त्यपातकिसमागमजायमान- मेनः पुनान इव वानरयायजूकः । निर्वर्तिताक्षविजयो निजवालवह्नौ हुत्वा पलाशसमिधः सुगतिर्बभूव ॥ ६६ ॥ लङ्कादाहेऽप्यनार्तां रघुपतिदयितां चारणोक्त्या विदित्वा सानन्दस्तां प्रणम्य प्रतिगमनविधौ प्राप्य तस्या नियोगम् । आरुह्यारिष्टशैलं निधिमपि पयसां स्वैरमुत्तीर्य वेगा- च्चक्रे गत्वा महेन्द्रं प्लवगकुलपतीन्पूर्णकामान्हनूमान् ॥ ६७॥ अथ यथार्हं सैन्याधिपान् संमान्य मारुतिस्तैरनुयुक्तः स्व वृत्तान्तमखिलमाख्यातवान् ॥ तदनु पवनतनय वचनमुदिता वानर वरूथिनी यूथनाथानुयाता तद्दर्शन जनितमानन्दं दाशरथौ सुग्रीवे च संविभज्येव विवक्षितुमहमहमिकया धावन्ती मध्येसरणि दधिमुखकृतावनं मधुवनं हनूमदनुमत्याभिभूय मधुपान सुखमनुबभूव ॥ अथाब्रवीद्गिरिवरतुङ्गमङ्गदं कृताञ्जलिर्दधिमुख एष रोषवान् । वलीमुखान्मधुभजने शिलीमुखा- न्भवानिमान्झटिति निवारयेदिति ॥ ६८॥ अयमप्येनमवोचत् ॥ दशमुखपुरमध्ये वीक्षिता मैथिलीति श्रवणमधु वितीर्णं येन वीरेण मह्यम् । दधिमुख यदि सोऽयं भाषते को निरुन्ध्या- न्मधु पिबतु यथेच्छं वाहिनी वानराणाम् ॥ ६९॥ तदनु भयवश समुपगत दधिमुख वचन विदित मधुवन कदन परिगणित जनक दुहितृ दर्शन जनित प्रमदभर भरितस्तपनतनयस्तत्र तनुविकृतिमतनुत दधिमुखागमन निमित्त सम्पत्तिम् ॥ आरुह्याद्रिमथावरुह्य विपिनान्यासाद्य नानाफला- न्यास्वाद्य प्लुतमारचय्य वदनैरापाद्य वाद्यक्रमान् । आलिङ्ग्य द्रुममक्रमं मदवशादाधूय पुच्छच्छटा मारादाविरभूदहम्प्रथमिकापीना कपीनां चमूः ॥ ७०॥ निद्राक्षयादरुणितेन समीरपुत्रः सौमित्रिनेत्रयुगलेन निपीयमानः । चूडामणिं करतले कलयन्ववन्दे पादारविन्दयुगलं भरताग्रजस्य ॥ ७१॥ अक्लेशसम्भूतगतागताभ्यां वितीर्णविस्तीर्णमहार्णवोऽपि । आनन्दसिन्धौ पृतनासमक्ष- मक्षस्य हन्ता नितरां ममज्ज ॥ ७२॥ आनीतचूडामणिसंनिधाना- दाविःप्रमोदेन रघूद्वहेन । तत्रानुयुक्तः पवनात्मजन्मा विज्ञापयामास कृतप्रणामः ॥ ७३॥ लङ्कापुरोपवनसीम्न्यथ राजपुत्री- मालोकयं निशिचरीगणबाध्यमानाम् । केनापि पातकवशेन सुपर्णलोके बन्दीकृतामिव भुजङ्गमराजकन्याम् ॥ ७४॥ देव्यास्त्वदीयान्वयकीर्तनेन त्वन्मुद्रया च व्यपनीय शोकम् । वार्तामभिज्ञानमयीमयाचं प्रस्थातुकामः परिपूर्णकामः ॥ ७५॥ ब्रह्मास्त्रवित्रस्तजयन्तकृत्यां कथामभिज्ञाप्य वने प्रवृत्ताम् । चिरं रुदन्त्या जनकेन्द्रपुत्र्या चूडामणिः प्रेषित एष तुभ्यम् ॥ ७६॥ किं बहुना ॥ देव तस्याः प्रतिष्ठासूनसूनाशैकपालितान् । मुद्रयित्वा प्रपन्नोऽहं तवाभिज्ञानमुद्रया ॥ ७७॥ ॥ इति श्रीविदर्भराजविरचिते चम्पूरामायणे सुन्दरकाण्डः समाप्तः ॥ Encoded and proofread by Seshadri nsesha92 at yahoo.in
% Text title            : SundarakAndam from Champuramayana
% File name             : sundarakANDamchampUrAmAyaNa.itx
% itxtitle              : sundarakANDaM champUrAmAyaNe (vidarbharAjarachite)
% engtitle              : sundarakANDam champUrAmAyaNe
% Category              : raama, hanumaana
% Location              : doc_raama
% Sublocation           : raama
% Author                : Raja Bhoja or vidarbharAja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Seshadri nsesha92 at yahoo.in
% Indexextra            : (Scanned 1, 2, 3, Hindi, Study details, Video, English, Valmiki Ramayana)
% Latest update         : February 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org