श्रीसाकेतनिवासाचार्यप्रणीतं तत्त्वत्रयम्
(टीलाचार्य)
मुक्तामुक्तविभेदतो द्विविधतां याता विभिन्नाः मिथो
बोद्धारः सुखबुद्धिरूपकृतभुङ्नित्या अचिन्त्याणवकः ।
दासकाङ्क्षितवस्तुदक्षितिसुतानाथस्य दासास्तथा
प्रज्ञाप्राणशरीरतः करणतो भिन्नाः समे प्राणिनः ॥ १॥
सत्वाद्यायतनं विकारकरणी नित्या तथाऽचेतना
बद्धानां सुखबुद्धिहृद् रघुवराधीना जगत्सर्जने ।
मायाख्या प्रकृतिः सती विकतिभृद् यस्याः परेशेच्छया
मूलाद्या निगमान्तविन्निगदिता भेदाश्चतुर्विशतिः ॥ २॥
ध्येयो दिव्यतनुस्तथा शुभगुणाम्भोधिर्जगत्कारणं
चिद् रव्यादिविभासकः श्रुतिमतो भक्त्यैव मुक्तिप्रदः ।
नित्यो ब्रह्मशिवार्चितश्च चिदचिच्छेषी परेशो विभुः
सर्वज्ञः प्रणतार्तिहृद् रघुवरः श्रीशोऽवतारी स्वराट् ॥ ३॥
ईशित्री जगतोऽस्य विश्वजननी लावण्यवारान्निधि-
र्वात्सल्यादिगुणाविधिः श्रितजनाभीष्टार्थदा सर्ववित् ।
ध्येया सज्जगदीशितू रघुपतेर्विम्वी प्रिया जानकी
यत्कारुण्यदिदृक्षुणा भगवता सर्वं जगत् सृज्यते ॥ ४॥
इति श्रीसाकेतनिवासाचार्यप्रणीतं तत्त्वत्रयं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey