त्रैलोक्यमोहन श्रीरामकवचं

त्रैलोक्यमोहन श्रीरामकवचं

विनियोगः - ॐ अस्य त्रैलोक्यमोहनश्रीरामकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः । श्रीरामचन्द्रो देवता । अनन्तोऽग्न्यासनः । सेन्दुरितिबीजम् । ॐ श्रीराम एव परं ब्रह्म इति शक्तिः । ॐ मधुरप्रसन्नवदनायेति हृदयम् । ॐ क्लीं रामभद्रायेति कीलकम् । ॐ हूँ जानकीवल्लभायेत्यस्रम् । ॐ अमिततेजसे बलायेति कवचम् । ॐ श्रीं रां रामायेति परमो मन्त्रः । मम सकलविधिश्रीसीतारामपदारविन्दानुरागार्थे (जपे) पाठे विनियोगः ॥ ऋष्यादिन्यासः - ॐ ब्रह्मा ऋषये नमः शिरसि । ॐ अनुष्टुप् छन्दसे नमो मुखे । ॐ श्रीरामचन्द्रो देवतायै नमो हृदये । ॐ अनन्तोऽग्न्यासनः सेन्दुरिति बीजाय नमो नाभ्याम् । ॐ मधुरप्रसन्नवदनायेति हृदयाय नम उदरे । ॐ क्लीं रामभद्रायेति कीलकाय नमः कट्याम् । ॐ हूँ जानकीवल्लभायेत्यस्राय नमो गुहये । ॐ अमिततेजसे बलायेति कवचाय नमो जङ्घयोः । ॐ श्रीं रां रामायेति परममन्त्राय नमः पुनः शिरसि । श्रीसीतारामपदारविन्दानुरागार्थे पाठे विनियोगाय (जपे) सर्वाङ्गे ॥ करन्यासः - ॐ रां अङ्गुष्ठाभ्यां नमः । ॐ रां तर्जनीभ्यां नमः । ॐ मां मध्यामाम्यां नमः । ॐ यं यमनामिकाभ्यां नमः । ॐ नं कनिष्ठिकाभ्यां नमः । ॐ मः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ रां हृदयाय नमः । ॐ रां शिरसे स्वाहा । ॐ मां शिखायै वषट् । ॐ यं कवचाय हूं। ॐ नं नेत्राभ्यां वौषट् । ॐ मः अस्त्राय फट् । ॐ हीं क्लीं श्रीं रां क्षौं क्रौं एँ हुँ फट् स्वाहा इति दिग्बन्धनं कुर्यात् ॥ ध्यानम् - वैदेही सहितं सुरदुमतले है मे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ पार्वत्युवाच । भगवन् सर्वदेवेश सर्व देवनमस्कृत । सर्वं मे कथितं देव राममन्त्रो विशेषतः ॥ १॥ त्रैलोक्यमोहनं नाम कवचं पूर्वसूचितम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥ २॥ ईश्वर उवाच । श्रृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् । अत्यन्तं गोपनं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ ३॥ ॐ प्रणवो मे शिरः पातु तारको ब्रह्मरूपकः । अनन्तोऽग्न्यासनः सेन्दुर्नासामेकाक्षरोऽवतु ॥ १॥ ॐ रां रामाय नमः पातु भाड्वर्णो भुक्तिमुक्तिदः । भालं पायान्नेत्रयुग्मं रामो द्वयक्षरसंज्ञकः ॥ २॥ ॐ क्लीं पायाच्छ्रोत्रयुग्मं ह्यकाक्षरविमोहनः । ॐ ह्रीं श्रीं क्लीं नमो रामाय मुखं मे परिरक्षतु ॥ ३॥ ॐ नमः श्री राघवेन्द्राय कण्ठं पातु मनुस्त्वयम् । ॐ क्लीं श्रीं रां रामाय नमः स्कन्धौ पातु खरान्तकः ॥ ४॥ ॐ नमो रां रामचन्द्राय मन्त्रः पातु भुजद्वयम् । ॐ श्रीमद्रामभद्राय करौ पातु मनुस्वराट् ॥ ५॥ ॐ श्रीरामचन्द्राय रक्षोघ्नाय नमो मन्त्रोऽयं द्वादशाक्षरः । हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ ६॥ ॐ क्लीं रामभद्राय नमः पातु नाभिं दुष्टान्तकः प्रभुः । ॐ नमः श्रीरामचन्द्राय कटिमष्टाक्षरोऽवतु ॥ ७॥ सक्थिनी सततं पातु राक्षसेन्द्र विमर्द कः । ॐ ह्रीं रामचन्द्राय नमः पातु मे ऊरूयुग्मकम् ॥ ८॥ ॐ प्रणवो रामचन्द्राय नमो वस्वक्षरः स्वराट् । जानुनी मे सदा पातु रक्षःकुलविनाशकः ॥ ९॥ ॐ प्रणवो रामभद्राय नमोऽष्टाक्षरस्वयम् । पादयुग्मं सदा पातु वानरेन्द्रश्रियः प्रदः ॥ १०॥ ॐ नमो रामभद्राय सर्वाङ्ग पातु सर्वतः । ॐ ह्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥ ११॥ ॐ हीं जानकीवल्लभाय दक्षिणे पातु सर्वदा । ॐ क्लीं जानकीशाय नमो वारुण्यां मां सदावतु ॥ १२॥ ॐ श्रीं रघुनाथाय नमः कौबेर्या दिशि रक्षतु । ॐ ह्रीं जानकीवल्लभाय आग्नेयां मां सदावतु ॥ १३॥ ॐ ह्रीं क्लीं भरताग्रजाय पातु मां नैऋत्यां दिशि । ॐ श्रीं जानकीवल्लभाय वायव्यां मां सदावतु ॥ १४॥ ॐ श्रीं ह्रीं क्लीं दाशरथाय चेशान्यां रक्ष मां सदा । ॐ नमो भगवते रघुनन्दनाय रक्षोघ्नविषदाय मधुरप्रसन्नवदनाय अमिततेजसे बलाय रामाय विष्णवे नमः ॥ १५॥ प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः । राज्यस्थाने सदा पातु रघुवंशसमुद्भवः ॥ १६॥ ॐ नमो भगवते श्रीरामाय महापुरुषाय नमः । अष्टादशाक्षरो मन्त्रो मामेव सर्वदावतु ॥ १७॥ ध्यायेद्धृत्पुण्डरीकाक्षं परञ्ज्योतिः परात्परम् । राममेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ १८॥ इति ध्यात्वा जपेन्मन्त्रं भुक्तिमुक्तिप्रदायकम् । ॐ दाशरथाय विद्महे सीताप्रियाय धीमहि । तन्नो रामः प्रचोदयात् ॥ १९॥ इत्येवं रामगायत्री भक्तिवीर्यप्रवर्धिनी । गायत्री जपमात्रेण भुक्तिमुक्तिप्रदायनी ॥ २०॥ इति ते कथितं देवि ! सर्वमन्त्रौघविग्रहम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ २१॥ प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् । सायम्मध्याह्नकालेऽपि जपात्सिद्धिमनूत्तमाम् ॥ २२॥ पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिः श्रीः कान्तिमेधायुर्जपतो भवति ध्रुवम् ॥ २३॥ राममन्त्रमयं ब्रह्मकवचं मन्मुखोदितम् । गुरुमभ्यर्च्य विधिवत्कवचं यः पठेत्ततः ॥ २४॥ द्विः सकृद्वा जपेद्यस्तु सोपि पुण्यवतां वरः । देवमभ्यर्च्य विधिवत्पुरश्चर्या समारभेत् ॥ २५॥ अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् । ततस्तु सिद्धकवचं सर्वकार्याणि साधयेत् ॥ २६॥ मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । गद्यपद्यमयी वाणीं तस्य वक्त्रात्प्रवर्तते ॥ २७॥ वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे । पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ॥ २८॥ अपि वर्षसहस्राणां पूजाफलमवाप्नुयात् । विलिख्य भूर्जपत्रे च स्वर्णस्थं धारयेद्यदि ॥ २९॥ कण्ठे वा दक्षिणे वाहौ स कुर्याद्दासवज्जगत् । त्रैलोक्यं क्षोभयेद्दवि त्रैलोक्यविजयी भवेत् ॥ ३०॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ ३१॥ स्पर्धामुधूय भवने लक्ष्मी वाणी मुखे वसेत् । इदं कवचमज्ञात्वा यो जपेद्राममन्त्रकम् ॥ ३२॥ शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ३३॥ सम्यग् ज्ञात्वा तु कवचं मन्त्रः स्याच्छीघ्रसिद्धिदः । एकावृत्त्या लभेल्लक्ष्मीं द्विरावृत्त्या जगद्वशी ॥ ३४॥ त्रिरावृत्त्या पठेन्नित्यं सर्वार्थसिद्धिदं भवेत् । चतुर्वारं पठेन्नित्यं पुत्रपौत्रादिकं भवेत् ॥ ३५॥ पञ्चवारं पठेन्नित्यं दिव्यकायो भवेन्नरः । षड्वारं तु पठेन्नित्यं सर्वसिद्धीश्वरो भवेत् ॥ ३६॥ सप्तावृत्त्या सहोमेन वाचासिद्धिः प्रजायते । इति श्रीरुद्रयामलतन्त्रे ईश्वरपार्वतीसंवादे त्रैलोक्यमोहनं नाम श्रीरामकवचं सम्पूर्णम् ॥ Encoded and proofread by Mrityunjay Pandey
% Text title            : Trailokyamohana Shrirama kavacham
% File name             : trailokyamohanashrIrAmakavacham.itx
% itxtitle              : trailokyamohanashrIrAmakavacham (rudrayAmalatantrAntargatam)
% engtitle              : trailokyamohanashrIrAmakavacham
% Category              : raama, kavacha
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : The main text is similar to trailokyamohanavajrapanjararAmakavacham
% Indexextra            : (Scan)
% Latest update         : December 30, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org