श्रीवीरराघवप्रपत्तिः
श्रीधर्मसेननृपरम्यसुतासमेतं
श्रीभूसहायममलं श्रितपारिजातम् ।
श्रीशेषभोगशयनेऽतिसुखं शयानं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ १॥
हृत्तापनाशनसरोत्तरतीरवासं
हृत्पुण्डरीककुहरे समसन्निविष्टम् ।
श्रीशालिहोत्रमुनिपुङ्गवसेव्यमानं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ २॥
वीक्षाटवीविहरणक्षमपादपद्मं
वेद्यं सदा विजयकोटिविमानसेव्यम् ।
विश्वम्भरं विधिशिवेन्द्रनिषेव्यमाणं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ३॥
सस्नेहभक्तिभयभूकमलाकराब्ज
संवाह्यमानचरणं सरसीरुहाक्षम् ।
सौम्यं समस्तजगदेकनिवासभूतं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ४॥
पद्मोपमानपदपाणिविलोचनाढ्यं
पद्मानिवासगृहबाहुयुगान्तरालम् ।
पद्मासनायुतनिकेतनपद्मनाभं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ५॥
आरोग्यपुत्रविलसत्कविनाञ्जनैक
राज्याधिपत्यवरदाननिवाददीक्षम् ।
मोक्षप्रदं स्वपदवन्दकवैष्णवानां
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ६॥
मध्येशिखं सुरवरैः परमैरशेषै-
रार्योपचित्तविभवैरतिशुद्धसत्त्वैः ।
अप्राकृतैरतिसमश्रितपादपद्मं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ७॥
रामानुजार्यमुखपद्मसहस्रभानुं
पूर्णार्यवर्यनयनोत्पलपूर्णचन्द्रम् ।
श्रीयामुनार्यहृदयाम्बुजचञ्चरीकं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ८॥
श्रीराममिश्रकमलाक्षवरार्थनाथ-
योगीन्द्रतीर्थविभवं शठकोपवन्द्यम् ।
शय्यासु सागरसुतापरिचर्यमाणं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ९॥
श्रीमच्छठारिपरकालयतीन्द्रमुख्यै-
र्दिव्यप्रबन्धनिवहैरनुबध्यमानम् ।
पूर्वैः सदा गुरुवरैः प्रथितानुभावैः
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ १०॥
हृत्तः सदानु परमं परिशुद्धदिव्यं
दुग्धाम्बुधिं सकलसंश्रितरक्षणाढ्यम् ।
हृत्तापनाशनतटीरतयावसानं
श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ११॥
सौम्योपयन्तृमुनिना करुणाविरक्ति
धीभक्तिशान्तिमुखसद्गुणसागरेण ।
संसेव्यमानचरणं जगतां शरण्यं
श्रीवीरराघवमहं शरणम्प्रपद्ये ॥ १२॥
इति श्रीवीरराघवप्रपत्तिः सम्पूर्णा ।
Proofread by Aruna Narayanan