वेदान्तपररामायणम्
दशेन्द्रियरथो देही राजा दशरथः स्मृतः ।
कौसल्या तत्प्रिया बुद्धी रामस्तत्रोद्गतः परः ॥ १॥
वृत्वा सीतां स्वानुभूतिं सुखमास्तेऽथ दैवतः ।
संसारविपिनं प्रापाहङ्कारो रावणाभिधः ॥ २॥
राजसः स्वानुभूतिं तां सीतां यत्नाज्जहार ह ।
रामः परात्मापि ततः स्वानुभूतिवियोगतः ॥ ३॥
प्राप्तो दीनदशां दुःखी शुशोच विरहातुरः ।
परिभ्रमन्हनुमता विवेकेन च सङ्गतः ॥ ४॥
तेन सीतास्वानुभूतिस्थितिवार्ता प्रदर्शिता ।
ततो वानरसद्वृत्तिसैन्येन च हनूमता ॥ ५॥
सेतुं बध्वा स जलधौ साधनाश्मभिरुत्कटैः ।
ततो भवाब्धिमुल्लङ्घ्य दीप्तज्ञानाग्निना भृशम् ॥ ६॥
सूक्ष्मदेहाख्यलङ्कां च दग्ध्वौपनिषदस्त्रतः ।
कामक्रोधादि रक्षांसि हत्वा युद्धे सहस्रशः ॥ ७॥
सात्त्विकाहङ्कारबिभीषणसाहाय्यतस्ततः ।
कुम्भकर्णं तामसाहङ्कारं राजसमप्यथ ॥ ८॥
निहत्य रावणं स्वानुभूतिं सीतां प्रगृह्य च ।
रामः स्वरूपसाम्राज्येऽभिषिक्तोऽरीरमत्तया ॥ ९॥
इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं
वेदान्तपररामायणं सम्पूर्णम् ॥
Proofread by Sunder Hattangadi