आख्याषष्टिः

आख्याषष्टिः

शिवं परमकल्याणं अव्याजकरुणानिधिम् । तदाख्यां सौख्यजननीं वन्दे वक्त्रार्तिहारिणीम् ॥ १॥ शिवाख्ये नो जाने शिवमितरदेवानपि जन- न्यये क्वामी क्वासावहमहह दिष्ट्या तु भवतीम् । समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां स्वलब्धृस्वाधीनाखिलभुवनसाम्राज्यविभवाम् ॥ २॥ स्वकीयैः स्रोतोभिर्जगदखिलमाक्रामति कलौ निमग्नास्ते वर्णाश्रमनियमधर्माः स्फुटमिदम् । प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥ ३॥ शिवाख्ये वाच्योऽर्थस्तव हि पुरभिद्वाऽस्तु मुरभित् स लोकानामीष्टां-अवतु च सुखेन श्रितजनम् । अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे श्रितोऽहं त्वां यत्त्वद्भवति मम कल्याणि तदलम् ॥ ४॥ स्वयम्भूदैत्यारित्रिपुरमथनानीरितकृतः त्रिलोकीसाम्राज्यं तदपि नयनादेशवशगम् । विधातुं त्वद्भाजस्त्वमलमलघुस्ते हि महिमा महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥ ५॥ कराळाद्यत् क्ष्वेळाज्जगदवितवानिन्दुमकुटः कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूडामणिसुतम् । अनल्पैः किं जल्पैः तदिदमिदमवनीयस्य रसना- कृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपोः ॥ ६॥ शतं सन्त्वाम्नायाश्शतमपि पुराणागमगणाः विहाय त्वामेते वितरितुमलं किं शिवधियम् । अशेषग्लानिं या हरति भवती तु श्रममृते शिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥ ७॥ त्रिनेत्रस्य ग्लानिस्त्रिपुरदनुजादीन् मुररिपोः दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती । नियन्त्री या तेषां निखिलजगतोऽप्याशु दळय- स्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥ ८॥ भवत्याः पन्थानश्शतमखमुखश्रीभिरभितः सुधासारैस्सिक्ताः कुसुमसमवायैश्च निचिताः । क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इतः करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥ ९॥ शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिनयनम् । विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥ १०॥ समाचक्षाणस्य स्मरभिदभिधे देवि भवतीं अहो यस्यां यस्यां हरिति नयनान्तोऽवतरति । हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटाः शरज्योत्स्नागौरास्सह गिरिजयोद्यन्ति शतशः ॥ ११॥ शिवः कामं क्रोधाकुलमतिरजैषीत् त्वदनुगैः जितः कामः क्रोधोऽप्यथ मुनिकुमारं यमभयात् । शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतो- ऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगैः ॥ २॥ चरन्तीं त्वच्छायां शशिवदुपवाराशि वसती- त्यदोमुख्यासूक्तिष्वपि रसनया सङ्कलयतः । परागं ब्रह्माद्याः पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वन्निष्ठैर्जितमिति किमम्बाद्भुतमिदम् ॥ १३॥ भवत्यां स्पृष्टायां बत पुरहराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता । हुताशेनाश्लिष्टो भवति च करोऽङ्गानि भुजगैः भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥ १४॥ दशायामन्त्यायां दळितबलदीनेन्द्रियततौ महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती । भवत्येकैवास्य प्रतिभवति भद्राय महते तदा केनान्येनोन्मिषतु कणिका वाप्युपकृतेः ॥ १५॥ मनागप्यस्पृष्टा गहनदहनेनेह विषया- भिधानेनानेन क्षितिधरसुतानेतुरभिधे । रमन्ते कामं ते कतिचिदधिकल्लोलितसुधा- झरायां धारायां शिशिरशिशिरायां सुकृतिनः ॥ १६॥ वधूटीपुत्रादीन् वसुविसरमानम्रनृपति- च्छटाचूडारत्नच्छविकवचिताशां श्रियमपि । जहत्येके धन्या जगति मदनद्रोग्धुरभिधे विहारे सोत्कण्ठा विहतिरहिते त्वल्लहरिषु ॥ १७॥ अजस्रं तन्वानाः श्वसितुमपि मामक्षममिमं कदा वा क्रामन्तु प्रतिहतकराळोपहतयः । पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुख- प्रतीपेभध्वंसप्रबलहरयस्त्वल्लहरयः ॥ १८॥ शिवाख्ये त्वत्स्रोतस्ततिषु विहृतिं बाधिषत मा ममाशक्त्यालस्यारतिगदनिहत्त्याद्यभिभवाः । प्रकामं बाधन्तामितरमखिलं तेऽभित इमे प्रणामास्ते सन्तु प्रविरचय मत्काङ्क्षितमिदम् ॥ १९॥ किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित् पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा । प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत मनो- भवारातेराख्ये त्वदमृतरसास्वादरसिकाः ॥ २०॥ दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं तथाऽन्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् । प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे प्रपन्नास्त्वां शान्त्याऽपि तु सहजयोदासत इमे ॥ २१॥ घनाः केऽपीशाख्ये त्वदमृतरसासारविसरैः जगत्कल्युद्दामज्वलदनलशान्त्या शिशिरताम् । नयन्तस्तन्वन्तस्समुचितफलस्याप्युपचितिं क्षमाभूषा भान्ति क्षपितहरिदुद्वेलतिमिराः ॥ २२॥ शिवाख्ये त्वद्वर्णद्वितयपरमाद्वैतरसिकाः प्रियप्राप्तौ शर्माप्रियसमुपलम्भे शुचमपि । भयं वा कस्माच्चित् भयजनकतां कस्य च तथा न विन्दन्ते ब्रह्माद्यसुलभपरानन्दभरिताः ॥ २३॥ जनो धत्ते यो मां जगति रसनायां श्रवसि वा दिगीशा धाता वा दिशमपि तदीयां परुषया । दृशा जातु द्रष्टुं किमलमिति कामध्रुगभिधे त्वदीयप्रस्थानध्वनिभरमिषाद् गर्जसि मुहुः ॥ २४॥ निबन्धारस्तेऽमी मम नियतमात्मीयरसना- भुवीति त्वं त्रासादिव कुसुमचापध्रुगभिधे । तृणं मेरुं मेरुं तृणमिति विलासव्यवहृती- रपि द्रागेतेषामयि सफलयन्ती विहरसे ॥ २५॥ परित्यज्याशेषं जननि भवतीमेव भजतां त्वमेवेशानाख्ये यदभिलषितं दैवतवरम् । दृशं तत्तन्मूर्त्या श्रुतिमपि तदुक्त्या सफलतां नयन्ती धत्से नन्ववधिविधुरां निर्वृतिधुराम् ॥ २६॥ श्रुता ये स्वर्धेनुत्रिदशतरुमुख्यास्त्वदनुगा- नुगानां भ्रूवल्लीवलनवशगास्ते जगति तान् । तवौदार्ये मातर्धरणिधरजानेतुरभिधे कथङ्कारं तुल्यान् कथयतु सलज्जो यदि जनः ॥ २७॥ विधातुं सन्त्रातुं विलयमपि नेतुं जगदलं- भवन्तोऽपीशाख्ये प्रशमसमुपेतास्त्वदनुगाः । उपेक्ष्या लोकस्यावमतसकलास्सन्ति जगति त्वयैवैके तुष्टास्तव खलु त एते रसविदः ॥ २८॥ शिवाख्ये त्वद्वर्णद्वितयमयि धत्ते श्रितवतां मुखे धर्मब्रह्मप्रमितिकरसर्वाक्षरगणम् । पदे धत्ते वेधःप्रभृतिविभवान्नात्र तु रतिः विनैषां त्वद्वर्णद्वितयमिह कोऽयं मधुरिमा ॥ २९॥ महेशाख्ये जिह्वाञ्चलकलनमात्रात्तनुभृतां समस्ताघच्छेत्रीं सकलसुखदात्रीं च भवतीम् । अवष्टभ्यैवाहुर्भगवति महाकारुणिकतां शिवस्य त्वां हित्वा कथय कतमो निर्वहतु ताम् ॥ ३०॥ शिवाख्ये स्वाख्यासु त्रिपुरमथनः कैटभरिपुः तदीयान्या मूर्ती रघुपतिरपि त्वां समदधुः । अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृतिः तदीयस्तादृक्षस्सुकृतपरिपाको विजयते ॥ ३१॥ अशेषब्रह्माण्डाविरतचरिताशेषदुरिता- न्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् । मदीयैरेनोभिर्मदनमथनाख्ये बत यते ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥ ३२॥ अये जिह्वापीठे जननि समवस्थाप्य भवतीं ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते । तव स्मृत्यैवासौ बत कबळितः किन्नु करवै क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥ ३३॥ निवेशो जिह्वायां निरवधिकपुण्योच्चयजुषां निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् । निवेशं जिह्वायां मम यदि न धत्से जननि ते नितान्तं पापिष्ठोऽवित इति न सिद्ध्येन्ननु यशः ॥ ३४॥ शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणिति- च्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् । हरस्येवं कर्तुं हरिरथ हरो वा स किमलं तदीयं माहात्म्यान्तरमपलपामस्तु न वयम् ॥ ३५॥ पितृभ्यां त्यक्तोऽसावहमतिदुरात्मेति गिरिजा- गिरीशाभ्यां त्यक्तो ननु जननि लोकेन च तथा । ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं शिवाख्ये त्वामेकामयि जहिहि वा मां बिभृहि वा ॥ ३६॥ परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते शिवाख्ये सङ्ग्राह्यस्स जयति तवैतत् समुचितम् । प्रपन्ना त्वं किन्नोदयिनि गरले चामृतरसे पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥ ३७॥ ममाजस्रं दोषान् समुपघटयन्तोऽन्तररयो जयन्तीशः पश्यन् हृदि वसति मद्दौस्थ्यमखिलम् । अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे कथं मामीशाख्ये कथय तव कः स्तौतु विभवम् ॥ ३८॥ स्फुटायां द्वारीशेतरमितरया साधु नयते यथा प्राप्य स्थानं सुहृदिह मनोजध्रुगभिधे । स्वकर्मादावीशेतरमिममखेदं शिवपदं तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥ ३९॥ स्वकर्मादावीशं जनमपि भवत्येव बिभृते विना त्वां तस्यापि स्वविरचितसाद्गुण्यविरहात् । बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं त्वयाऽऽस्ते लब्धात्मा भगवति शिवाख्ये स च शिवः ॥ ४०॥ न कर्माध्वन्योऽहं भगवति न वा भक्तिपथिको- ऽस्म्युपादेयः कोऽपि स्फुरति गुणलेशोऽपि न मयि । असङ्ख्याता दोषाः किमत इह दौरात्म्यमितरत् तदम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गतिः ॥ ४१॥ सुतस्याख्यां नारायणगिरमुपादत्त यदजा- मिळस्तं तद्भीतास्तपनसुतदूताः प्रविजहुः । त्वमीशाख्ये भीतिं नयसि विमतांस्ते मुदमथा- नुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगाः ॥ ४२॥ सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन् निरुपहति विहर्तुं नित्यमुद्ग्रीविताशम् । अपनयसि किमेवं हन्त मामन्तरायैः मनसि न कुरु मातर्मामकान् देवि मन्तून् ॥ ४३॥ किमकुरुत मुदे मे कर्म वर्णाश्रमार्हं किमभजत मदङ्घ्री किं व्यधादेष को वा । इति निजसमितौ मामीक्षमाणे गिरीशे मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥ ४४॥ जगति वशिगिरा त्वद्व्यत्ययेनोल्लसन्त्या जननि परिगृहीतांस्त्वं स्वकर्मादिनिष्ठान् । न किमवसि शिवाख्ये हा तयाऽनादृतं मां अवितुमिह विळम्बः कस्त्वदेकावलम्बम् ॥ ४५॥ अम्ब त्वदीयमहिमाम्बुधिशीकराणु- वेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे । ईशाभिधे भुवि समेतु न किं पिपासोः अभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥ ४६॥ इतो रोगाः कामादय इत इतः स्त्रीसुतमुखाः कृतान्तास्सर्वत्रेत्ययमनवधिः क्लेशजलधिः । तमेतं चाह्नाय त्वदनुगदयोल्लासघटभूः निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥ ४७॥ अम्ब प्रसीद कुरु मामनघं बलात्त्वं अङ्के च ते कुरु निषण्णममुं शिवाख्ये । जम्बालसक्तममलं कुरुते न माता किं बालकं न कुरुतेऽङ्कजुषञ्च हृष्टा ॥ ४८॥ आविर्भवस्ययि नृणां त्वमयत्नतोऽग्रे ग्लानिं धुनोषि घटयस्यपि मङ्गलानि । ईशाभिधे तव यशो न किमुज्जिहीतां ईर्ष्याकुलत्वममरा न किमश्नुवीरन् ॥ ४९॥ मदनहन्त्रभिधे तव निर्झराः मधुसुधालहरीरतिशेरते । कृतधियो विहरन्ति च तेष्वमी- ष्वरसिकोऽत्र हतोऽस्म्यहमेककः ॥ ५०॥ शिवाख्ये मा भैषीः पदममरनेतुर्ननु भवेत् अमुष्मै दातव्यं सरसिजभुवो वा पदमिति । समीहे नाहं तत् किमपि सहसाऽभ्येहि रसनां ममेमां मा हासीस्समभिलषितं मे पुनरिदम् ॥ ५१॥ प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि त्वमन्तर्लज्जार्ता भवसि किममुष्मै कृतमिति । व्यथैषा दिष्ट्या त्वद्रसिकतिलकैस्ते परिहृता विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥ ५२॥ जन्मास्य वार्यमिति ते जननि प्रसादो जायेत चेन्मयि तदस्तु शिवाभिधे नः । त्वन्निष्ठताभरनिरन्तरतातिरम्यं यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥ ५३॥ विश्वाधिनेतुरखिलार्थविदः स्मरारेः अज्ञाततां मदघराशिममुं नयन्ती । मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते चातुर्यसाहसभरौ चतुरोऽभिधातुम् ॥ ५४॥ प्रसीद गिरिशाभिधे प्रदिश मन्मतावम्बया सह स्फुरणमूर्जितं सततमिन्दुमौळेर्विभोः । तथाऽनिशमिहासिकां तव मदीयजिह्वाञ्चले ददस्व मम काङ्क्षितं द्वयमिदं त्वदेकास्पदम् ॥ ५५॥ न संस्फुरतु काङ्क्षतः स्फुरणमीश्वराख्ये कथं हृदि त्वदनुगस्य तद्भृकुटिकिङ्करश्शङ्करः । चरन्तु विषया हरस्फुरणरोधिनो हृद्यमी कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥ ५६॥ ममायमवबुद्ध्यतां मधुरिमाणमूर्जस्वलं कदापि विजहातु मां न रसनैतदीयेति मे । दयस्व गिरिशाभिधे ननु ददीत सा मेऽथवा तदेतदभिकाङ्क्षितं त्वदनुगेषु जात्वानतिः ॥ ५७॥ मनागपि मनः स्पृशेन्मम यदेदमर्थान्तरं तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम । तथाम्ब गिरिशाभिधे तव न विप्रलम्भः क्षमो भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥ ५८॥ यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं तदा नियतमाहरोपहरमुख्यसञ्जल्पनैः । यथा कलितवञ्चनः पुरहराभिधे त्वामहं नयानि रसनां तथाऽञ्चतु विधेः प्रसादो मयि ॥ ५९॥ शरणितवन्तः खलु ये शशिकन्दळशेखराभिधे भवतीम् । तच्चरणाम्बुजविहरणसंस्मरणं सुरघटाकिरीटतटे ॥ ६०॥ शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् । अभिलषितं यदमीषामसुलभमिति तन्न किं वियन्नळिनम् ॥ ६१॥ महेशे तत्सङ्गिष्वपि कृतिषु पाषाणहृदये वराके मय्यस्मिन् प्रविदधति सन्तः प्रणयिताम् । कथङ्कारं मातर्दळय तदिहेमां मम हृदो दृषत्तामत्राम्ब स्मरभिदभिधे त्वं खलु गतिः ॥ ६२॥ इति श्रीश्रीधरवेङ्कटशार्यविरचिता आख्याषष्टिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Akhyashashtih
% File name             : AkhyAShaShTiH.itx
% itxtitle              : AkhyAShaShTiH
% engtitle              : AkhyAShaShTiH
% Category              : shiva, shrIdhara-venkaTesha, ShaShTi
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sri Sridhara Venkatesa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : shrIdharastutimaNimAlA dvitIyo bhAgaH stutimaNimAlA
% Indexextra            : (Scans 1, 2, Info)
% Latest update         : November 20, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org