॥ आर्याशतकम् श्रीअप्पय्यादीक्षितविरचितम् ॥

दयया यदीयया वाङ्नवरसरुचिरा सुधाधिकोदेति । शरणागतचिन्तितदं तं शिवचिन्तामणिं वन्दे ॥ १॥ शिरसि सितांशुकलाढ्यं करुणापीयूषपूरितं नयने । स्मितदुग्धमुग्धवदनं ललनाकलितं महः कलये ॥ २॥ अन्ते चिन्तयते यत्तत्तामेतीति च त्वया गदितम् । शिव तव चरणद्वन्द्वध्यानान्निर्द्वन्द्वता चित्रम् ॥ ३॥ द्रुतमुद्धर हर संहर संहर भववैरिणं त्वतित्वरया। भव भवतोऽपि भवोऽयं रिपुरेतन्निन्दितं जगति ॥ ४॥ चेतसि चिन्तय वामां वा मां वा न द्विधा स्थितस्याहम् । इति यदि वदसि दयाब्धे वामार्धे सा तवाप्यस्ति ॥ ५॥ मित्रकलत्रसुतादीन् ध्यायस्यनिशं न मां क्षणं जातु। यदि कुप्यसि मयि दीने तुलयामि त्वां कथं सह तैः ॥ ६॥ मत्कृतदुष्कृतशान्तिर्विषवह्निजलादियातनया । यदि निश्चयस्तवायं प्रेषय गरलाग्निगङ्गौघान् ॥ ७॥ भोगं विहाय योगं साधय दास्ये तवापि परभागम् । मम किं न वावकाशस्त्वद्भूषाभोगिनां मध्ये ॥ ८॥ ललनालोलविलोकनजितमित्यवमन्यसे कथं मां त्वम्। त्वयि जायार्धशरीरे शिव शिव नाऽऽलोकनानुभवः ॥ ९॥ स्मरणादनुपदमीदृग्विस्मृतिशीलो न वल्लभोऽसि मम। उत्पाद्याशां भङ्क्तुर्लग्ना वृत्तिस्तवैवेयम् ॥ १०॥ पुत्रः पितृवत्पुत्री मातृवदित्थं ममात्र को दोषः । अहमपि भोगासक्तः प्रकृतिर्जाता विषादवती ॥ ११॥ वपुरर्धं वामार्धं शिरसि शशी सोऽपि भूषणं तेऽर्धम् । मामपि तवार्धभक्तं शिव शिव देहे न धारयसि ॥ १२॥ स्तनपं शिशुं त्वदीयं पालय साम्ब द्रुतं न पासि यदि । जगतः पितेति गीतं यातं नामेति जानीहि ॥ १३॥ मातरि हित्वा बालं कार्याकुलधीः पिता बहिर्याति । शिव बत शक्नोषि कथं स्वाङ्गान्मन्मातरं मोक्तुम् ॥ १४॥ गुणहीनतां तनूजे मयि दृष्ट्वा किं परित्यजस्येवम् । उचितं गुणिनस्त्वेतन्निर्गुणरूपस्य तेऽनुचितम् ॥ १५॥ कामक्रोधकटाभ्यां मदजलधारां निरङ्कुशे स्रवति । मत्कृतदुष्कृतकरिणि प्रकटा पञ्चास्यता तेऽस्तु ॥ १६॥ त्वद्धीनं मां दीनं दृष्ट्वा विषयातिरागसम्बद्धम् । धावत्यकीर्तिरेषा नाथः शक्तोऽप्युदासीनः ॥ १७॥ अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोर्नीतिः । विषयैर्जितोऽस्मि शम्भो तव यच्छ्लाघ्यं तदारचय ॥ १८॥ संरक्ष्यते स्वदासैर्यद्यद्वस्तु प्रभोरभीष्टतरम् । दासस्तवेष्टकामः कान्तां कनकं कथं त्यजेयमहम् ॥ १९॥ पापी पापं सुकृती सुकृतं भुङ्क्ते ममात्र किं नु गतम्। इत्यौदास्यमयुक्तं भृत्याकीर्तिः प्रभोरेव ॥ २०॥ विकलेऽतिदीनचित्ते विषयाशामात्रधारिणि नितान्तम् । मयि रोषतः कियत् ते वद वद शम्भो यशो भावि ॥ २१॥ स्वगृहे भुवनत्रितये योगक्षेमे मुखानि चत्वारि । मत्प्रतिवचनं हि विना पञ्चमवदनस्य कुत्र गतिः ॥ २२॥ तव कोऽहं त्वं मम कः पञ्चस्वेवं विचारयस्वेति । ब्रूषे दीनदयाब्धे पञ्चमुखत्वं त्वयि व्यक्तम्॥ २३॥ याचस्वान्यं धनिनं भविता तव को दिगम्बराल्लाभः । मां मा प्रतारयैवं ख्यातः श्रीकण्ठनामासि॥ २४॥ वसनाशनप्रदातरि मयि जीवति किं समाकुलस्त्वमिति । दोहाय मोच्यमानो वत्सः किं न त्वरामयते ॥ २५॥ पातकराशिरितीदं त्वयाभिधानं श्रुतं न तद् दृष्टम्। तद्दर्शनकुतुकं यदि मां द्रष्टुं किं विलम्बसे देव ॥ २६॥ पातकराशिरसि त्वं पश्याम्यत एव नाहमिति वदसि । पातकरूपाज्ञाने शिव तव सर्वज्ञताभङ्गः ॥ २७॥ पापं पापमितीदं करोषि शिव किं मुधा बुधान् भ्रान्तान् । तत्सत्यं चेन्न कथं त्वयानुभूतं न दृष्टं वा ॥ २८॥ पापे लोकानुभवः स एव मानं ममाप्यननुभूते । न हि परकीयानुभवः ज्ञातुं शक्यः परेणापि ॥ २९॥ लोकाभिन्नः सोऽहं वक्तुं वाक्यं ह्युपक्रमस्तव चेत्। सिद्धा मनोरथा मे त्वत्तः कस्यापि लोकस्य ॥ ३०॥ अतिवल्गनं ममैतन्मूढत्वं यद्यपि प्रभोः पुरतः । दीनः करोमि किं वा मद्विषये को निवेदयति ॥ ३१॥ लघुरसि किं त्वयि दयया मा मा मंस्थाः शिवेति सहसा त्वम्। भारो भुवोऽस्मि धृत्वा स्वकरे तुलयाशु मां शम्भो॥ ३२॥ सस्ये तृणे च वृष्टिं तुल्यां देवः सदैव विदधाति । देवो महान् बत त्वं गुरुलघुवार्तां कथं कुरुषे ॥ ३३॥ दिष्टोद्दिष्टं दास्याम्यन्यन्नेष्टं यदि स्फुटं वाक्यम् । दत्ता कथं त्वयासावजरामरता मृकण्डुजनेः ॥ ३४॥ नादत्तं प्राप्नोतीत्येतद्वाक्यं प्रतारणामात्रम् । उपमन्युना कदा वा कस्मै दुग्धोदधिर्दत्तः ॥ ३५॥ प्रबलतरोन्मादाढ्यं त्वामप्यगणय्य धावमानं च । मच्चेतोऽपस्मारं नियमय शम्भो पदाभ्यां ते ॥ ३६॥ आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु । स्वीये पिशाचवर्गे सेवायै किं न योजयसि ॥ ३७॥ यक्षाधीनां रक्षां त्र्यक्ष निधीनां कुतो नु वा कुरुषे। साक्षान्मनुष्यधर्माऽप्यहह कथं नु विस्मृतिर्मम ते ॥ ३८॥ धनदे सखित्वमेतत् तव यत् तत्रास्ति विस्मयः क इव । मयि निर्धने तदास्तां त्रिजगति चित्रं कियद्भावि ॥ ३९॥ सखितारूपनिधानं वित्तनिधानं द्विधा धनं तव यत् । नैककरे नृपनीतिस्तत्रान्यतरन्निधेहि मयि ॥ ४०॥ पालय वा मां मा वा मत्तनुभूता तु पञ्चभूतततिः । पोष्यावश्यं भवता भविता नो चेन्न भूतपतिः ॥ ४१॥ अतिकोमलं मनस्ते मुनिभिर्गीतं कुतोऽधुना कठिनम् । मन्ये विषाशनार्थं कठिनं चेतस्त्वया विहितम् ॥ ४२॥ मां द्रष्टुमष्टमूर्ते करुणा तेऽद्यापि किं न वोल्लसति । भिक्षाप्रसङ्गतो वा कियतां नो यासि सदनानि ॥ ४३॥ वित्ताधिपः सखा ते भार्या देहे तवान्नपूर्णाख्या । ऊरीकृतं न दूरीकुरुषे भिक्षाटनमपीश ॥ ४४॥ नाङ्गीकृतो मया त्वं तत एव न दर्शनं मम तवास्ति । इति नोत्तरं प्रदेयं शिव शिव विश्वेशनामासि ॥ ४५॥ यदि देहगेहरूपं ददासि देशाधिकारकार्यं मम । रसनाख्यलेखपत्रे सुदृढां कुरु नाममुद्रां ते ॥ ४६॥ रसनोक्तं कुरु सर्वं शिव तव नामाधिमुद्रितास्तीयम् । गणयसि मुद्रां न हि चेत् प्रभुतोच्छिन्ना तवैव स्यात् ॥ ४७॥ अत्याटिनं करालं भिक्षायुक्तं कपालशूलकरम् । मद्दारिद्र्यं भैरवरूपं कुरु चार्धचन्द्रयुतम् ॥ ४८॥ दारिद्र्यचण्डरश्मौ प्रतपति केदारवच्च मयि शुष्के । जलधरतायां सत्यां त्वयि शिव नाद्यापि समुपैषि ॥ ४९॥ दारिद्र्याख्यमनोभूः क्लीबं चेतोऽपि मोहयत्यनिशम् । एनं लीनं कर्तुं धन्यः कोऽन्यस्त्वदन्योऽस्ति ॥ ५०॥ भालानलाक्षियुक्तस्त्रिजगति नान्यो मदन्य इति। गर्वं मा वह यावद्दारिद्र्याग्निः कपाले मे॥ ५१॥ चेतः कुरु मा कलहं तव वैक्लव्येऽपि शम्भुना प्रभुणा। न वदति यद्यपि भर्ता तवोपकर्ता स एवास्ति ॥ ५२॥ अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि । न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥ ५३॥ चेतः कीर विहारं परिहर परितः स्वयं प्रयत्नेन। अत्तुं कालबिडालो धावति शिवपञ्जरं प्रविश ॥ ५४॥ चेतः सदागते त्वं प्रत्याशावात्ययानुगतमूर्तिः। मा वह विषयारण्ये लीनो भव सच्चिदाकाशे ॥ ५५॥ चेतः शृणु मद्वचनं मा कुरु रचनं मनोरथानां त्वम् । शरणं प्रयाहि शर्वं सर्वं सकृदेव सोऽर्पयिता ॥ ५६॥ भ्रातः शृणु मच्चेतो मा नय कालं त्वितस्ततो भ्रमणात् । कालक्षेपेच्छा चेदवलम्बय कालकालं त्वम् ॥ ५७॥ अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः । विश्रामकामना चेच्छिवकल्परुहे चिरं तिष्ठ ॥ ५८॥ चेतोमधुकर दूरं दूरं कमलाशया कुतो यासि । ध्यानादनुपदमेतच्छिवपदकमलं तवायाति ॥ ५९॥ चेतश्चकोर तापं भूपं संसेव्य किं वृथा यासि । यदि चन्द्रिकाभिलाषो निकषा भव चन्द्रचूडस्य ॥ ६०॥ चेतःकुरङ्ग गीते रक्तं चेतस्तवास्त्वनवगीते । भगवद्गीतागीते नगजाकलिते तदारचय ॥ ६१॥ रसने निन्दाव्यसने पैशुन्ये वा न वाग्मितां याहि । त्रिपुरारिनाममालां जितकालां शीलयाशु त्वम् ॥ ६२॥ रसने रसान् समस्तान् रसयित्वा तद्विवेचने कुशला । असि तद्वदाशु पश्येः शिवनाम्नः को रसोऽयमिति ॥ ६३॥ शिवनामसल्लतां त्वं रसनापल्लव कदापि न विहातुम् । यदि वाञ्छसे तदा मा कोमलतां सर्वथा जहिहि ॥ ६४॥ हालाहलस्य तापः शशिना गङ्गाम्बुना न यदि याति । शिव मा गृहाण भुजगान् मद्रसनापल्लवे स्वपिहि ॥ ६५॥ लोचन कोऽभूल्लाभः सर्वानेव द्विलोचनान् वीक्ष्य । दृष्टस्त्रिलोचनश्चेत् सफलं जन्मैव ते भावि ॥ ६६॥ नालोकते यदि त्वां मन्नेत्रं कृष्णमस्तु मुखमस्य । स्वां त्र्यक्ष दक्षतां मे दर्शय नयनावलोकस्य ॥ ६७॥ त्वं लोचनान्धकारे द्रष्टुं वस्त्वन्धकारभिन्नं किम् । वाच्छस्यनेन सङ्गेऽद्दृश्यमपीदं त्वया दृश्यम् ॥ ६८॥ श्रवण सखे श्रृणु मे त्वं यद्यपि जातो बहुश्रुतोऽस्ति भवान् । शब्दातीतं श्रोतुं शिवमन्त्रात् कोऽपरो मन्त्रः ॥ ६९॥ घ्राण प्राणसखो मे भवसि भवान् पार्थिवोऽस्ति किमु वान्यत् । शिवपदकमलामोदे मोदं गन्तासि यदि शीघ्रम् ॥ ७०॥ रामास्पर्शसुखे ते नितरां भो विग्रहाग्रहोऽस्ति यदि । आलिङ्गयार्धरामं रामाऽभिन्नः स्वयं भवसि ॥ ७१॥ विग्रह विग्रहमेव त्वं कुरु देवेन नाऽमुना सख्यम् । रुचिरप्यस्मिन् शम्भौ जनयत्यरुचिं स्वदेहेऽपि ॥ ७२॥ सम्मीलयाशु रामां त्वद्वामाङ्गान्मया समं शम्भो । जातं ममापि यस्माद् दुःखेनार्धं शरीरमिदम् ॥ ७३॥ अपराधकारिणं मां मत्वा शम्भो यदि त्यजस्येवम् । व्याधः शिरसि पदं ते दत्वा न जगाम किं मुक्तिम् ॥ ७४॥ पार्थः कलहं धनुषा ताडनमपि मूर्ध्नि ते न किं कृतवान् । तत्रापि ते प्रसन्नं चेतः सन्ने मयि कुतो न ॥ ७५॥ त्वयि तुष्टे रुष्टे वा शिव का चिन्ता स्वदुःखभङ्गे मे । उष्णं वानुष्णं वा शमयति सलिलं सदैवाग्निम् ॥ ७६॥ दोषाकरे द्विजिह्वे रतिमतिशयितां करोषि यदि शम्भो। अहमस्मि तथा वितथा कुरुषे मां दृक्पथातीतम् ॥ ७७॥ चेतो मदीयमेतत्सेवाचौर्ये यदि प्रसक्तं ते । दण्डय नितरां शम्भो सर्वस्वं लुण्ठयैतस्य ॥ ७८॥ सदनं प्रत्यागमनं कुशलप्रश्नोक्तिरस्तु दूरतरे । आलोकनेऽपि शम्भो यदि सन्देहः कथं जीवे ॥ ७९॥ आवाहितः स्वभक्तैस्त्वरयैवायासि सर्वपाषाणे । चित्तोपले मदीये हे शिव वस्तुं कुतोऽस्यलसः ॥ ८०॥ वृषभे पशौ दया ते कियती शम्भो पशुप्रियोऽसि यदि । विषयविषाशनतोऽहं पशुरेवास्मीति मां पाहि ॥ ८१॥ त्वयि दृष्ट्वौदासीन्यं तत्स्पर्धातो विवर्धते दैन्यम् । मयि तज्जेतुं त्वरया प्रेषय निकटेऽस्ति यत् सैन्यम् ॥ ८२॥ परिपालयाम्यहं त्वां निकटेन मया किमस्ति ते कार्यम् । मैवं दूरे रमणे सुभृताऽपि न मोदते साध्वी ॥ ८३॥ कतिकतिवारं जननं तव नो जातं न मत्स्मृतिः क्वापि । इति कुपितोऽसि यदि त्वत्पदयोर्निदधामि मूर्धानम् ॥ ८४॥ शिव शङ्कर स्मरारे किञ्चित्प्रष्टव्यमस्ति तत्कथय । वञ्चनमेव करिष्यसि किं वा कालान्तरे प्रीतिम् ॥ ८५॥ यो यन्न वेत्ति दुःखं कर्म स तस्मिन्नियोजयतु शम्भो । भिक्षादुःखं जानंस्तत्र कथं मां नियोजयसि ॥ ८६ ॥ काकूक्तिर्मुखदैन्यं शिव मे बाष्पस्तथाश्रुसम्पातः । त्वय्येकस्मिन् पुरुषे सर्वमिदं निष्फलं भवति ॥ ८७॥ शिव देहि मे स्वभक्तिं तृष्णा स्वयमेव यास्यति ततो मे । पतिमन्यत्र विषक्तं दृष्ट्वा कान्ता न किं त्यजति ॥ ८८॥ गुणहीनोऽपि शिवाहं त्वत्करमुक्तोऽपि तत् पदं यास्ये । भ्रष्टोऽपि भूपहस्ताद्गुणतोऽपि शरो यथा लक्ष्यम् ॥ ८९॥ भक्तजनेष्वनुरक्तं धरणीधरकन्यया परिष्वक्तम् । प्रख्यातनामधेयं जयतितरां भागधेयं मे ॥ ९०॥ फणिकुण्डलं वहन्ती श्रवणे ताटङ्कमप्यपरभागे । सितशोणकान्तियुक्ता काचिन्मद्वासना जयति ॥ ९१॥ आलिङ्गितोऽपि सव्ये शम्पातत्या शिवः प्रकृतितोऽयम् । करुणाम्बुपूर्णगर्भः कश्चिद्धाराधरो जयति ॥ ९२॥ जटिलं शिरःप्रदेशे निटिले कुटिलं गले तथा नीलम् । हृदयीकृताद्रिबालं विलसति कालं जयत् तेजः ॥ ९३॥ धनुरेकत्र पिनाकं सशरं बिभ्रत् तथाऽपरत्राऽपि । शरमैक्षवं च चापं किञ्चित् तत् प्रेम मे जयति ॥ ९४॥ वाञ्छितवितरणशीलं विचित्रलीलं निरालवालं च । ललनालतैकतानं कलये शिवकल्पभूमिरुहम् ॥ ९५॥ परिहृतदुर्जन तिमिरं नगजानन्दैकसिन्धुवृद्धिकरम् । नन्दितभक्तचकोरं वन्दे चन्द्रोदयं कञ्चित् ॥ ९६॥ निखिलनिगमैगदुग्धां दानविदग्धां शुकादिमुनिदुग्धाम् । वपुषा सदैव मुग्धां कलये शिवकामधेनुमहम् ॥ ९७॥ नित्यप्रभाभिरामं विदलितकामं सदार्धधृतभामम् । हृदि कोमलं निकामं श्रीशिवचिन्तामणिं वन्दे ॥ ९८॥ निर्व्याधि मे शरीरं निराधि चेतः सदा समाधिपरम् । कुरु शर्व सर्वदा त्वं नान्यं कामं वृणे कञ्चित् ॥ ९९॥ आर्यापतेः पदाब्जे निहितं शतपद्यपत्रमयपुष्पम् । आर्याशतं सुकृतिनां हृदयामोदं सदा वहतु ॥ १००॥ ॥ इति भरद्वाजकुलतिलकश्रीमदप्पय्यदीक्षित- विरचितशैवार्याशतकं सम्पूर्णम् ॥ Proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : AryAshatakam by Shri Appayya Dikshit
% File name             : AryAshatakamappayyA.itx
% itxtitle              : AryAshatakam (appayyAdIkshitavirachitam)
% engtitle              : AryAshatakam by Shri Appayya Dikshit
% Category              : shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : shaivam.org, Sunder Hattangadi
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com, Rajani
% Indexextra            : (Scanned TIkA)
% Latest update         : August 4, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP