आत्मनाथवेदपादस्तुतिः ब्रह्मकृता
नित्याय निर्विकल्पाय निर्मलाय महौजसे ।
निराकाराय गुरवे जगतां गुरवे नमः ॥ १॥
नादाय बिन्दुरूपाय कलाकाराय तेजसे ।
सहस्रभुजपादाय सहस्राक्षाय ते नमः ॥ २॥
चिदानन्दाय शुद्धाय महानन्दस्वरूपिणे ।
महादेवादिदेवाय पशूनां पतये नमः ॥ ३॥
अणोरणीयसे तुभ्यं महतश्च महीयसे ।
परात्पराय पुण्याय क्षेत्राणां पतये नमः ॥ ४॥
वेदागमविचिन्त्याय वेधसेऽजिनवाससे ।
बहिर्मुखैरदृश्याय दिशाञ्च पतये नमः ॥ ५॥
स्वेच्छासृष्टाखिलाण्डाय कारणत्रयहेतवे ।
भक्तचित्तनिवासाय सेनानां पतये नमः ॥ ६॥
चन्द्रखण्डावतंसाय चराचरमयाय ते ।
शाश्वतायादिदेवाय वृक्षाणां पतये नमः ॥ ७॥
त्वदाधारमिदं सर्वं त्वदन्तस्समुपस्थितम् ।
त्वमात्मनाथस्सर्वेषां पुष्टानां पतये नमः ॥ ८॥
जगन्मात्रे जगद्धात्रे जगद्धर्त्रे सुतेजसे ।
मत्पित्रे जगतां भर्त्रे ह्यन्नानां पतये नमः ॥ ९॥
शरणं भव सर्वेश त्वमेव शरणं मम ।
पाहि मां पाहि मां नित्यं पाहि मामात्मनायक ! ॥ १०॥
इति आत्मनाथवेदपादस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan