ईशानस्तवः
श्रीगणेशाय नमः ॥
यः षड्वक्त्रगजाननाद्भुतसुताविष्कारणव्यञ्जिताचिन्त्योत्पादनवैभवां
गिरिसुतां मायां निजाङ्गे दधत् ।
सेव्यां संसृतिहानये त्रिपथगां विद्यां च मूर्ध्ना वहन्
स्वं ब्रह्मस्वमभिव्यनक्ति भजतः पायात् स गङ्गाधरः ॥ १॥
यस्यालोच्य कपर्ददुर्गविलुठत्गङ्गाम्बुशौक्ल्याच्छता-
माधुर्याणि पाराजयोदितशुचा क्षीणः कलामात्रताम् ।
बिभ्रत् पित्सति नूनमुत्कटजटाजूटोच्चकूटाच्छशी
लालाटक्षिशिखासु सोऽस्तु भजतां भव्याय गङ्गाधरः ॥ २॥
यल्लालाटकृपीटयोनिसततासङ्गाद्विलीनः शशी
गङ्गारूपमुपेत्य तत्प्रशमनाशक्तः कृशाङ्गः शुचा ।
उद्बध्नाति तनुं त्रपापरवशो मन्ये जटादामभिः
पायात् स्तव्यविभाव्यनव्यचरितो भक्तान् स गङ्गाधरः ॥ ३॥
अङ्कारूढधराधराधिपसुतासौन्दर्यसन्तर्जिता
गङ्गा यस्य कपर्ददुर्गमदने लीना विलीना ह्रिया ।
चिन्तापाण्डुतनुः स्खलन्त्यविरतं पार्वत्यसूयास्मितै-
रन्तर्धिं बहु मन्यतेऽस्तु भजतां भूत्यै स गङ्गाधरः ॥ ४॥
मुग्धां स्निग्ध इव प्रतार्य गिरिजामर्धाङ्गदानच्छलान्-
नित्योद्दद्बहुलभ्रमां त्रिपथगामात्मोत्तमाङ्गे वहन् ।
स्ताने यो विषमेक्षणस्वपदवीमारोप्यते कोविदैः
प्रच्छन्नप्रणयक्रमोऽस्तु भजतां प्रीत्यै स गङ्गाधरः ॥ ५॥
संवासज्जसुरासुरर्पिपरिषद्व्याकीर्णपुष्पाञ्जलि-
प्रश्च्योतन्मकरन्दबिन्दुसततासारः पतन्मस्तके ।
यस्याविश्रमसम्भृतस्त्रिपथगा नाम्ना जनैः ख्याप्यते
स त्रैलोक्यनिषेविताङ्घ्रियुगलः पुष्णातु गङ्गाधरः ॥ ६॥
यस्मिन्नुद्धतताण्डवैकरसतासाटोपनाव्यक्रमे
विस्रस्तासु जटासु भासुरतनुर्धाराशतैः पातुका ।
गङ्गाजङ्गमवारिपर्वतधियं चित्ते विधत्ते सता-
मेवं चित्रविभूतिरस्तु भजतां भव्याय गङ्गाधरः ॥ ७॥
यो गङ्गापयसि प्रभो तव महानत्यादरः कल्पते
सम्मूर्च्छद्विषयापनाय विधते क्रुद्ध्यस्यसत्योक्तये ।
ईशानस्तव सागरान्तगमने वाप्यः पुराण्योऽक्षमाः
सङ्क्षिप्येत्वममिष्टुतः ससितगुः प्रीतोऽस्तु गङ्गाधरः ॥ ८॥
इतीशनस्तवः सम्पूर्णः ॥
गङ्गाधराष्टकम्
Proofread by Pallasena Narayanaswami ppnswami at gmail.com