हिमवान्कृता ईश्वरस्तुतिः
दिक्चेल भालतिलकानल कालकाल
व्यालेन्द्रमाल गरनील कराब्जशूल ।
लीलाकृताङ्ग निखिलागमतत्वमूल
बालार्धगात्र मुनिबालकृतालबाल ॥ ९॥
तिग्मांशुशीतांशुजहव्यवाह-
नेत्रोज्वलन्मदनकाय उमासहाय ।
भूदारदार नरसिह्मविदारणेश
दैत्योरुसिन्धुरकटीतटचर्मवस्त्र ॥ १०॥
गङ्गातुङ्गजटोरुशेखर सुधाधामार्धखण्डोज्वल
स्थूलापारद्विजिह्वहारवलय प्रोद्यज्झणन्नूपुर ।
उक्षेन्द्रोत्तमवाहनाव्यय हराधारोरुसंस्यन्दन (सत्स्यन्दन)
सोमार्यम्णकचक्रकर्षण महाबाहार्ववेदोत्तम ॥ ११॥
शम्भो मे दिश भद्रमद्य दयया मां पाहि सर्वेश्वर
पाथोजातभवोत्तमाङ्गहरणापारव्यथां संहर ।
पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताब्जाङ्घ्रिक
(पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताजार्चित)
भूधृग्धुर्यशरासनोरुविहितामौर्वी महीधारक (महाहारक) ॥ १२॥
पाह्यद्रीश्वरमौलिलिङ्गवसते शम्भोमृडानीपते ॥ १३॥
कुलाचलशरासनं कुलिशपाणिभोगप्रदं
कुजापतिशरोत्तमं कुसुमबाणदग्धाङ्गकम् ।
कूलीरकवरप्रदं कुटिलसौरिदर्पापहं
कुसीदजनदूरगं कुमतिदुःखदं त्वां भजे ॥ १४॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमवान्कृता ईश्वरस्तुतिः ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २२ । ९-१४॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 22 . 9-14..
Proofread by Ruma Dewan