ॐकारेश्वरमहात्म्यम्

ॐकारेश्वरमहात्म्यम्

पार्वती - महादेवमहानन्दकरुणामृतसागर । श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥ किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर । क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥ ईश्वरः - क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने । ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥ तत्र शैववरा नित्यं निवसन्ति सहस्रशः । ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥ भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः । रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥ ६॥ तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता । नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥ ७॥ पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला । तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥ ८॥ तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् । तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥ ९॥ भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये । तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥ १०॥ सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया । कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥ ११॥ गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः । हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥ १२॥ धनुःशरकराः सर्वे जटाशोभितमस्तकाः । अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥ १३॥ सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः । कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥ १४॥ अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः । आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥ १५॥ समाजगाम त्वरितः शच्या साकं शिवे तदा । तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥ १६॥ सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् । सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥ १७॥ निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः । मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥ १८॥ विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् । कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥ १९॥ अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः । हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥ २०॥ तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः । ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥ २१॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे ओङ्कारेश्वरमहात्म्यम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। २-२१॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 7. 2-21.. Notes: Shiva describes to Parvati, the glory of Omkareshwara Jyotirlinga situated at the banks of River Narmada. The shloka numbers are same as in the referenced text. Proofread by Ruma Dewan
% Text title            : Onkareshvara Mahatmyam
% File name             : OMkAreshvaramahAtmyam.itx
% itxtitle              : OMkAreshvaramahAtmyam (shivarahasyAntargatA)
% engtitle              : OMkAreshvaramahAtmyam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 7| 2-21||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org