ऋभुप्रोक्तं अहमेवत्वनिरूपणम्
(अहमेव परं ब्रह्म)
अहमेवादिनिर्मुक्तः अहं कारणवर्जितः ॥ २८.३॥
अहमेव परं ब्रह्म अहमेवाहमेव हि ।
इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ २८.४॥
अहमेव परं ब्रह्म अहमेव हि निष्कलः ।
अहमेव न सन्देहः अहमेव सुखात्सुखम् ॥ २८.१२॥
अहमेव हि दिव्यात्मा अहमेव हि केवलः ।
वाचामगोचरोऽहं वै अहमेव न चापरः ॥ २८.१३॥
अहमेव हि सर्वात्मा अहमेव सदा प्रियः ।
अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ २८.१४॥
अहमेवापरिच्छिन्न अहमेव निरन्तरः ।
अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ २८.१५॥
अहमेव सदा साक्षी अहमेवाहमेव हि ।
नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ २८.१६॥
अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः ।
अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥ २८.१८॥
अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः ।
सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ २८.१९॥
आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे ।
आत्मैवाहमिति ज्ञात्वा आत्मारामोवसाम्यहम् ॥ २८.२३॥
आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः ।
आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहम् ॥ २८.२४॥
अहमात्माऽहमात्माहमहमात्मा न लौकिकः ।
सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २८.२५॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहमेवत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २८। ३-२५॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 28. 3-25..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan