ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनम्

ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनम्

(इत्येवं ब्रह्मतर्पणम्) (ऋभुनिदाघसंवादे) नित्यतर्पणमाचक्ष्ये निदाघ श‍ृणु मे वचः । वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१॥ - - सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि । ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२॥ सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् । आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३॥ सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् । नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४॥ अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा । आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५॥ एकत्वसङ्ख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः । नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६॥ आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् । सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७॥ परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् । सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८॥ यत्किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् । शुद्धमोक्षस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.९॥ सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । विज्ञानमात्ररूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१०॥ ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे । तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११॥ त्वमित्येतत्तदित्येतन्नास्ति नास्तीह किञ्चन । शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२॥ अत्यन्ताभावरूपोऽहमहमेव परात्परः । अहमेव सुखं नान्यदित्येवं ब्रह्मतर्पणम् ॥ १०.१३॥ इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे । निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४॥ साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा । केवलं ब्रह्मभावत्वादित्येवं ब्रह्मतर्पणम् ॥ १०.१५॥ अहमेवाविशेषोऽहमहमेव हि नामकम् । अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६॥ इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् । बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७॥ सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् । नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८॥ वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन । चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९॥ सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् । सर्वत्राचिन्त्यरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२०॥ सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् । सर्वशून्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२१॥ सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् । एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२॥ मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् । सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३॥ सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् । तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४॥ सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । निर्विकल्पस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२५॥ सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः । ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६॥ - - ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया । यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.२७॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १० । २-२७॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 10 . 2-27.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Brahmatarpanavarnanam
% File name             : RRibhuproktaMbrahmatarpaNavarNanam.itx
% itxtitle              : brahmatarpaNavarNanam (RibhuproktaM shivarahasyAntargatam ityevaM brahmatarpaNam)
% engtitle              : RRibhuproktaM brahmatarpaNavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 10 | 2-27||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org