ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणम्
(सर्वं ब्रह्मेति केवलम्)
(ऋभुनिदाघसंवादे)
भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् ।
सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ ८.२८॥
इदमित्यपि यद्रूपमहमित्यपि यत्पुनः ।
दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८.२९॥
देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३०॥
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३१॥
देहोऽहमिति सङ्कल्पः स हि संसार उच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३२॥
देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३३॥
देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३४॥
देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३५॥
देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३६॥
देहत्रयेऽपि भावं यत्तद्देहज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३७॥
देहोऽहमिति यद्भावं सदसद्भावमेव च ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३८॥
देहोऽहमिति सङ्कल्पं (सङ्कल्पः) त्प्रपञ्चमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३९॥
देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४०॥
देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४१॥
देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४२॥
देहोऽहमिति सङ्कल्पो महानरकमीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४३॥
देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४४॥
देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४५॥
देहोऽहमिति यज्ज्ञानं सर्वं शोक इतीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४६॥
देहोऽहमिति यज्ज्ञानं संस्पर्शमिति कथ्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४७॥
देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४८॥
देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४९॥
देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५०॥
देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५१॥
देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५२॥
देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५३॥
देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५४॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । २८-५४॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 28-54..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan