ऋभुप्रोक्तं प्रपञ्चस्य सर्वसङ्कल्पमात्रेवनिरूपणम्
(सङ्कल्पं एव हि)
सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८.७६(२)॥
सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि ।
सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८.७७॥
सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः ।
सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८.७८॥
सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि ।
सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८.७९॥
सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि ।
सङ्कल्प एव यत्किञ्चित्तन्नास्त्येव कदाचन ॥ ८.८०॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य सर्वसङ्कल्पमात्रेवनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । ७६(२)-८०॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 76(2)-80..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan