ऋभुप्रोक्तं सर्वब्रह्मत्वप्रकरणनिरूपणम्

ऋभुप्रोक्तं सर्वब्रह्मत्वप्रकरणनिरूपणम्

(इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं) आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः । इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२॥ परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३॥ केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् । केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ ९.४॥ केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.५॥ केवलं सर्वरूपोऽहं अहन्त्यक्तोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.६॥ सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.७॥ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.८॥ सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.९॥ केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१०॥ केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.११॥ केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१२॥ सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१३॥ सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१४॥ अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१५॥ सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१६॥ अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१७॥ ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१८॥ आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१९॥ आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२०॥ आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२१॥ नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२२॥ नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२३॥ नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२४॥ नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२५॥ रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२६॥ भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२७॥ सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२८॥ देहभावविहीनोऽहं चित्तहीनोऽहमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२९॥ देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३०॥ सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३१॥ सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३२॥ इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३३॥ अहमेवाहमेवास्मि नान्यत्किञ्चिच्च विद्यते । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३४॥ अहमेव महानात्मा अहमेव परायणम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३५॥ अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३६॥ अहमेवान्यवद्भामि अहमेव शरीरवत् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३७॥ अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३८॥ अहं कालत्रयातीतः अहं वेदैरुपासितः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३९॥ अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४०॥ मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४१॥ मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४२॥ अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा । निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ ९.४३॥ हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् । केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहं ब्रह्मास्मि प्रकरणनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ९ । २-४४॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 9 . 2-44.. Notes : There is numbering error in the source text from shloka 43 onwards. Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Sarvabrahmatvaprakarananirupanam
% File name             : RRibhuproktaMsarvabrahmatvaprakaraNanirUpaNam.itx
% itxtitle              : sarvabrahmatvaprakaraNanirUpaNam (RibhuproktaM shivarahasyAntargatam idameva paraM brahma ahaM brahmAsmi kevalaM)
% engtitle              : RRibhuproktaM sarvabrahmatvaprakaraNanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 9 | 2-44||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org