ऋभुप्रोक्तं सर्वञ्चिदेवत्वनिरूपणम्
(चिदेव हि)
तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः ।
चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२॥
वाचावधिश्च देवोऽहं चिदेव मनसः परः ।
चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३॥
स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि ।
चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ २५.४॥
अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः ।
देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५॥
चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि ।
भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६॥
अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि ।
(अस्ति ब्रह्ममैव मस्त्येव नास्ति ब्रह्मेति नास्ति हि ।)
अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७॥
सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि ।
यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८॥
अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् ।
सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वञ्चिदेवत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २५। २-९ ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 25. 2-9 ..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan