ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानं एवं अध्यात्मनिर्णयम्

ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानं एवं अध्यात्मनिर्णयम्

(केवलं ब्रह्ममात्रत्वात्) ऋभुः - नागोप्यं भवतामस्ति शाम्भवेषु महात्मसु । (अस्मि) त्रिनेत्रप्रेमसदनान्युष्मान्प्रेक्ष्य वदामि तत् ॥ ४.५॥ शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । श‍ृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥ येन तीर्णाः स्थ संसाराच्छिवभक्त्या जितेन्द्रियाः । (तीर्णास्थ) नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥ - - ऋभुः - विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः । न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ ४.८॥ सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी । मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः योद्धुङ्केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९॥ (नः) निदाघमथ सम्बोध्य ततो ऋभुरुवाच ह । अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१०॥ शिवोपदिष्टं सङ्क्षिप्य गुह्याद्गुह्यतरं सदा । अनात्मेति प्रसङ्गात्मा (प्रसङ्गाच्च) अनात्मेति मनोऽपि वा । अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११॥ सर्वसङ्कल्पशून्यत्वात्सर्वाकारविवर्जनात् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१२॥ चित्ताभावे चिन्तनीयो देहाभावे जरा च न । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१३॥ पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया च न । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१४॥ ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१५॥ मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१६॥ धर्मो नास्ति शुचिर्नास्ति सत्यन्नास्ति भयन्न च । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१७॥ अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम (अक्षरं न च मण्डलम्) । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१८॥ गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१९॥ एकाभावान्न द्वितीयन्न द्वितीयान्न चैकता । सत्यत्वमस्ति चेत्किञ्चिदसत्यत्वं च सम्भवेत् ॥ ४.२०॥ असत्यत्वं यदि भवेत्सत्यत्वं च घटिष्यति । शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१॥ भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.२२॥ बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३॥ त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४॥ अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किञ्च न । कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ ४.२५॥ द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६॥ अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ ४.२७॥ किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः । यत्किञ्चित्किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८॥ तस्मादेतत्क्वचिन्नास्ति त्वं नाहं वा इमे इदम् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.२९॥ नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.३०॥ परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१॥ चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु । इत्यात्मनिर्णयं प्रोक्तं (निर्णयः प्रोक्तः) भवते सर्वसङ्ग्रहम् ॥ ४.३२॥ सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ४.३३॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानमेवमध्यात्मनिर्णयं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४ । ५-४३॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 4 . 5-43.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Shankarasutravijnanam evam Adhyatmanirnayam
% File name             : RRibhuproktaMshAnkarasUtravijnAnaMevaMadhyAtmanirNayam.itx
% itxtitle              : shANkarasUtravijnAnaM evaM adhyAtmanirNayam (RibhuproktaM shivarahasyAntargatam kevalaM brahmamAtratvAt)
% engtitle              : RRibhuproktaM shAnkarasUtravijnAnaM evaM adhyAtmanirNayam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 4 | 5-43||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org