ऋभुप्रोक्तं स्वानुभवेन सर्वोपनिषदां सारम्

ऋभुप्रोक्तं स्वानुभवेन सर्वोपनिषदां सारम्

(अहं ब्रह्मास्मि केवलम्) अहमेव परं ब्रह्म अहमेव परं सुखम् । अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५॥ अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् । सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६॥ अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः । सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७॥ नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः । नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८॥ नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९॥ अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः । अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४०॥ स्वस्वसङ्कल्पहीनोऽहं सर्वाविद्याविवर्जितः । सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१॥ सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः । सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२॥ सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः । सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३॥ सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् । सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४॥ अहमेव सुखं नान्यदहमेव चिदव्ययः । अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५॥ केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः । केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६॥ केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् । केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७॥ सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि । अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८॥ अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् । अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९॥ अरसस्युतरूपोऽस्मि अनुतापविवर्जितः । अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५०॥ सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः । सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१॥ अहम्भावविहीनोऽस्मि विहीनोऽस्मीति मे न च । सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२॥ ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् । शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३॥ तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् । किञ्चिन्नास्ति परो नास्ति किञ्चिदस्मि परोऽस्मि च ॥ ४.५४॥ न शरीरप्रकाशोऽस्मि जगद्भासकरो न च । चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ४.५५॥ मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात्परः ॥ ४.५६॥ न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४.५७॥ यो वा को वा श‍ृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ४.५८॥ न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः । उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ४.५९॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानमेवमध्यात्मनिर्णयं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४ । ३५-५९॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 4 . 35-59.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Svanubhavena Sarvopanishadam Saram
% File name             : RRibhuproktaMsvAnubhavenasarvopaniShadAMsAram.itx
% itxtitle              : sarvopaniShadAM sAram (RibhuproktaM svAnubhavena shivarahasyAntargatam ahaM brahmAsmi kevalam)
% engtitle              : RRibhuproktaM svAnubhavenasarvopaniShadAMsAram
% Category              : shiva, shivarahasya, upanishhat, upaniShat
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 4 | 35-59||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org