श्रीषड्वर्णमन्त्राष्टकम्
धनुर्धरित्रीधरसार्वभौमो
मौर्वी च दर्वीकरसार्वभौमः ।
शरस्तु सर्वामरसार्वभौमः
पायात्स नो दैवतसार्वभौमः ॥ १॥
वेदान्ततत्त्वमथितं नवनीतसारं
चिद्रूपदृक्परमशैवरहस्यमन्त्रम् ।
ज्योतिर्मयोज्ज्वलनिरञ्जनरूपमन्त्रं
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ २॥
अश्रान्तदुष्कृतिसमुद्रतरीशमन्त्रं (अश्रान्तदुर्भव)
पापाम्बुराशिबडवानलतुल्यमन्त्रम् ।
ब्रह्माच्युतेन्द्रसुरमौलिजपैकमन्त्रं
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ३॥
कामादिवर्गविपिनप्रलयाग्निमन्त्रं
दुर्दोषशैलकुलिशाधिकभीममन्त्रम् ।
मायान्धकारपरिशोषित (शोषण) भानुमन्त्रं
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ४॥
अष्टत्रयाष्टपुरवायुविकारकोश- (अत्रष्टयाष्ट)
क्लेशाष्टपाशबहुदुःखविनाशमन्त्रम् ।
दुश्चित्तदुर्व्यसनदामविभेदमन्त्रं (दुश्चिन्त)
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ५॥
पञ्चप्रसादमहिताक्षरबीजमन्त्रं
मन्त्राग्रगण्यभुवनस्तुतमन्त्रराजम् ।
सर्वोऽपि मन्त्रजनकप्रणवात्ममन्त्रं
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ६॥
ओङ्कारबिन्दुसहिताधिकशक्तिबीजं
पञ्चाक्षरत्रितयवर्णकमेकवर्णम् ।
एकादशाक्षरसमन्वितहंसमन्त्रं
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ७॥
श्रीसज्जनात्मबहिरन्तरवित्कटाग्र (बहिरन्तरदीप्तिकृद्र?)
क्ष्माभागगर्जितनिरन्तरघोषमन्त्रम् ।
षट्चक्रमण्डपविहारविशुद्धमन्त्रं
वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ८॥
षड्वर्णमन्त्राष्टकमद्भुतार्थं
सर्वागमप्रोक्तजगत्प्रकाशम् ।
यः संपठेन्मुक्तिसमस्तभोगान्
प्राप्नोति सत्यं सति सिद्धमन्त्रम् ॥ ९॥
॥ इति श्रीषड्वर्णमन्त्राष्टकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan, Gopalakrishnan, NA