अष्टमूर्तिस्तवः
यः पार्थिवं लिङ्गमुपेत्य शाल-
ग्रामो वटोऽश्वत्थमुखो भवँश्च ।
नानाविधान् मूर्तगुणान् प्रपेदे
तमष्टमूर्तिंशरणं प्रपद्ये ॥ १॥
योऽम्भांसि पावित्र्यगुणस्य सीमा-
मासादयंस्तीर्थपरम्पराभिः ।
एतां त्रिलोकीं शतधा पुनीते
तमष्टमूर्तिंशरणं प्रपद्ये ॥ २॥
य आश्रयात् त्रित्वमुपागतोऽपि
त्रेता त्रयीमन्त्रगुणेन भूयः ।
चराचराधारतयात्मभूत-
स्तमष्टमूर्तिं शरणं प्रपद्ये ॥ ३॥
यो योगिनां योगविभूतिसिद्धै
समाधिसिद्धान्त-पथाधिरुढम् ।
चतुर्विधप्राणि-निकायमूल-
स्तमष्टमूर्तिं शरणं प्रपद्ये ॥ ४॥
योऽनन्तखस्यापि गुरुर्गरीया-
नो३मित्यहो व्यस्तसमस्तरीत्या ।
``खं ब्रह्म'' पाठेन यजुष्ट्वमाप्त-
स्तमष्टमूर्तिं शरणं प्रपद्ये ॥ ५॥
यो देवपौरोगवतां प्रयातः
सूर्याश्रयात् तृप्तिकरःपितृणाम् ।
आप्यायकः सर्वःमहौषधीनां
तमष्टमूर्तिं शरणं प्रपद्ये ॥ ६॥
य उष्णताद्योतखगर्क्षकेन्द्र-
मेकायनं मुक्तिपथोन्मुखानाम् ।
धामर्ग्यजुःसाममहोदयानां
तमष्टमूर्तिं शिवमेकमीडे ॥ ७॥
आत्मा यःएको यत एव विष्वग्-
ब्रह्माण्डवैचित्र्यविकाशभूमा ।
तमःप्रकाशादिविसर्गबीजं
तमष्टमूर्तिं सहशक्तिमीडे ॥ ८॥
तर्काग्नितत्वनिलयं विलयं भ्रमाणा-
मानन्दसिन्धुसदनं कदनं कुसृष्टेः ।
एतन्महेश्वरपदस्तवनं हि यस्मिन्
ज्ञाते वसन्ततिलकायितविश्वमेतत् ॥ ९॥
इति श्रीदुर्गाप्रसादद्विवेदीविरचितः अष्टमूर्ति-स्तवः सम्पूर्णः ।
Encoded by Kamini Viswanathan
Proofread by Kamini Viswanathan, Lalitha Mallikarjunan