अष्टमूर्तिस्तोत्रम्
श्रीगणेशाय नमः ॥
ईशा वास्यमिदं सर्वं चक्षोः सूर्यो अजायत ।
इति श्रुतिरुवाचातो महादेवः परावरः ॥ १॥
अष्टमूर्तेरसौ सूर्यौ मूर्तित्वं परिकल्पितः ।
नेत्रत्रिलोचनस्यैकमसौ सूर्यस्तदाश्रितः ॥ २॥
यस्य भासा सर्वमिदं विभातीदि श्रुतेरिमे ।
तमेव भान्तमीशानमनुभान्ति खगादयः ॥ ३॥
ईशानः सर्वविद्यानां भूतानां चेति च श्रुतेः ।
वेदादीनामप्यधीशः स ब्रह्मा कैर्न पूज्यते ॥ ४॥
यस्य संहारकाले तु न किञ्चिदवशिष्यते ।
सृष्टिकाले पुनः सर्वं स एकः सृजति प्रभुः ॥ ५॥
सूर्याचद्रमसौ धाता यथापूर्वमकल्पयत् ।
इति श्रुतेर्महादेवः श्रेष्ठोऽर्यः सकलाश्रितः ॥ ६॥
विश्वं भूतं भवद्भयं सर्वं रुद्रात्मकं श्रुतम् ।
मृत्युञ्जयस्तारकोऽतः स यज्ञस्य प्रसाधनः ॥ ७॥
विषमाक्षोऽपि समदृक् सशिवोऽपि शिवः स च ।
वृषसंस्थोऽध्यतिवृषो गुणात्माऽप्यगुगुणोऽमलः ॥ ८॥
यदाज्ञामुद्वहन्त्यत्र शिरसा सासुराः सुराः ।
अभ्रं वातो वर्षं इतीषवो यस्य स विश्वपाः ॥ ९॥
भिषक्रमं त्वा भिषजां शृणोमीति श्रुतेरवम् ।
स्वभक्तसंसारमहारोगहर्ताऽपि शङ्करः ॥ १०॥
इत्यष्टमूर्तिस्तोत्रं सम्पूर्णम् ।
Proofread by Pallasena Narayanaswami ppnswami at gmail.com