श्रीअगस्त्येशलिङ्गाष्टकम्

श्रीअगस्त्येशलिङ्गाष्टकम्

श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल- त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली- सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥ भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं शक्राद्यष्टदिगीशसन्नुतपदं शुम्भद्गणाधीश्वरम् । गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २॥ मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं मत्तामर्त्यविरोधिगर्वनगरीदम्भोलिधारायितम् । वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ३॥ भूम्यापोऽग्निसमीरणा(प्रभञ्जना)म्बरलसत्सोमार्कयज्वा(स्वात्मा)भिधै- रष्टैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा । भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ४॥ सूर्याग्नीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत- प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम् । कण्ठाकल्पविलासभासुरमहाहालाहलं शङ्करं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ५॥ श्रीमद्भूमिरथं विरिञ्चिविलसत्सूतं नगाधीशस- च्चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम् । पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ६॥ दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान् चन्द्रं तच्छ्वशुरं भगं मुनिगणानग्निं च दक्षं लसत् । स्वेदोद्भूतविनीलदेहरुचिना वीरेण सन्त्रासितं(त्रासकं) श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ७॥ श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुम्भत्त्रिशूलायुधं श्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः । सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८॥ श्रीकोप्पराजकुलवार्धिनिशाकरेण स्तोत्रं कृतं जगति सुब्बयनामभाजा- गस्त्येश्वरस्य निजभक्तजनावनस्य यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९॥ ॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Agastyesha Lingashtakam 02 32
% File name             : agastyeshalingAShTakam.itx
% itxtitle              : agastyeshaliNgAShTakam
% engtitle              : agastyeshalingAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-32
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org