अन्यापदेशशतकम्

अन्यापदेशशतकम्

॥ श्रीः ॥ छायावृक्षमुपाश्रयन्ति पथिषु श्रान्ता हि पान्थाः समं तेष्वेकोऽस्य शुभं शुभेन मनसा हृष्यन्ननुध्यायति । अन्यो हर्तुमपेक्षतेऽस्य विटपानाधारयष्टेः कृते कश्चिनिश्चिनुते कवाटफलकं कर्तुं तमेव क्षणात् ॥ १॥ श्वानः सन्त्यभितोऽपि दन्तमुकुलव्यावर्तनोत्पाटित- स्वैरोत्तानितविड्वराहपृथुकाः किं तैः स्थितैर्वा मृतैः । वस्तव्यं गिरिराजमौलिषु विहर्तव्यं पुनः स्वेच्छया हन्तव्याः करिणो मृगेन्द्र इति च प्राप्तव्यमुच्चैर्यशः ॥ २॥ किं पुष्णासि मृगान्मृगादनकुलात्किं वा परित्रायसे त्वद्भाग्येन तथाप्यमी वनभुवि स्वैरं चरित्वा तृणम् । त्वां राजानमुपासितुं यदि किल श्रद्धां निबध्नन्ति त- कि पारीन्द्र गुहागृहादपि विनिर्गन्तुं तवैष श्रमः ॥ ३॥ उन्मुच्य स्वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयस- स्तीर्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया । श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातः परं त्वं वा केवलमङ्गमङ्गमुरग व्यालिम्प गन्धद्रवैः ॥ ४॥ भ्रान्त्वा दिग्वलभीर्विचित्य विपिनान्यासाद्य दैवादिह क्वापि क्वापि मुखेन केवलमथैकैकां शलाकां हरन् । कृत्वा नीडकुटीं चिरात्तरुशिरस्यध्यास्त यावन्न तां काकस्तावदहो तदेव विपिनं दग्धं दवज्वालया ॥ ५॥ नाम्भोजाय शशी न चापि शशिने यद्रोचतेऽम्भोरुहं किं तेन क्षतमस्ति किञ्चन जगत्येतस्य वा तस्य वा । लोकानन्दकयोः परं त्विह तयोः प्रेम्णैव भाव्यं मिथ- स्तच्चेन्नाजनि तत्प्ररूढमयशः स्फारं विधेः केवलम् ॥ ६॥ अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम- प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यतो जन्तवः । दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति य- द्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥ ७॥ अस्ति स्वादु फलं किमस्ति किमथ घ्रातुं क्षमः कोरक- स्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः । सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृनाधमः पिप्पलो दुःस्वातन्त्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥ ८॥ सर्वासां सरितां पतिर्यदि यदि व्याप्ताः समस्ता दिशः कल्पान्तेष्वपि वा न शुष्यति यदि स्वैरं तदङ्गीकृतम् । अम्भः स्वादु पिपासतः पथि परिश्रान्तस्य पान्थस्य किं तेन स्यात्फलमर्णवोऽयमिति चेदिन्दुग्रहे स्नास्यताम् ॥ ९॥ स्थित्वा तीरभुवि प्रसार्य सरसि स्वैरं कराग्रं पयः पातव्यं पिब तावता न विरमेद्दन्तीन्द्र किं ते तृषा । उन्मृद्नासि तटीरपः कलुषयस्युन्मूलयस्यब्जिनी- हानिः कस्य तवैव मृग्यमुदकं भ्रातः पुनस्तृष्यतः ॥ १०॥ को दोषः परतो गते मधुकरे क्रीतः किमेष त्वया क्रीतेनापि किमास्यते क्वचिदिह ग्लानोदरेण क्षणम् । जानास्येवमथापि चेक्षिपसि तं कर्णानिलैर्दूरतो दुर्धर्षोऽसि निरङ्कुशोऽसि भवतो मत्तेभ वक्तैव कः ॥ ११॥ नेतव्यः समयः कियानिव सखे काक त्वया भ्राम्यता हंसीभूय सुखेन भुङ्क्ष्व नलिनीनालानि पद्माकरे । व्यावर्तव्यमिहास्ति किं विमलता किञ्चित्तु कार्या तनो- र्हसत्वे यदि ते जनो विवदते दण्ड्योऽहमस्म्यग्रतः ॥ १२॥ किं त्वं दोहदमीहसे किमुदकैः सिक्तोऽसि किं केनचि- द्बद्धस्ते सकृदालवालवलयः किं ते मही संस्कृता । द्विस्त्रिः पुष्प्यसि वासरस्य न गुणान्धुत्तूर ते निह्नुवे दुर्गन्धो न भवेदियान्यदि ततस्त्वं पारिजातोऽसि नः ॥ १३॥ गन्तव्यं जलमध्य एव गतवन्मन्तव्यमेतद्वपुः क्षन्तव्या लवणानिला इति कृतं निर्विद्य सांयात्रिक । अन्तर्वेश्मनि हंसतूलशयने सुप्त्वा सुखं जाग्रतो हस्ताग्रे धनमेष्यति स्वयमिति भ्रातः किमास्ते हृदि ॥ १४॥ आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः किञ्चिच्छंसति पञ्चकं दशकमित्येतन्न तस्याद्भुतम् । आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥ १५॥ विद्धं मर्मसु येन येन गरलोन्मिश्रा गिरः श्राविता जज्वाल ज्वलनास्त्रवन्निशि निशि क्रूरैः करैर्यः सदा । सर्वे ते सुहृदो बभूवुरधुना सङ्गे मिथः कामिनो- र्दौर्जन्यस्य विभावनात्परिणतौ दूती परं दूषिता ॥ १६॥ सन्नद्धेषु पयोधरेषु चलिते मन्दं पुरोमारुते कादम्बैः कमलाभिमानिभिरपि त्यक्त्वा सरः प्रस्थितम् । मिथ्यारोपितपौरुषैर्मधुकरैर्मुग्धैर्यदध्यासितं तस्येदं फलमम्भसा प्रवहता सैवाब्जिनी मज्जिता ॥ १७॥ सन्त्यक्ता यदि केतकी त्रिभुवनश्लाघ्या पुरद्रोहिणा तस्मिन्नेव हि पर्यवस्यति ततो वस्तुष्वसारज्ञता । किं वेणीषु न तां वहन्ति सुदृशः किं सा न विक्रीयते । किं नेमामुपलालयन्ति रसिकाः पृथ्वीभुजो मौलिभिः ॥ १८॥ कोणे क्वाप्यवतीर्य गात्रमभितः सिक्त्वा पयःशीकरै- रास्वाद्योदकमागतोऽस्मि पुनरित्यास्ते गजस्याशये । कासारस्य दशा त्वसौ कलुषितान्यम्भांसि भग्नास्तटाः प्रध्वस्ता नलिनी किमत्र बहुना खातव्यमास्ते पुनः ॥ १९॥ द्यौरित्थं क्षितिरित्थमित्थमुदधेर्मुद्रेति कृत्वा स्थितिं विश्वस्याहनि विश्रमाय शयितुं प्रारम्भि धात्रा यदा । दग्धं चण्डकरैस्तदैव पवनैरौत्पातिकैः शोषितं मेघैः प्लावितमद्भुतैरपि जगत्स्रष्टव्यमासीत्पुनः ॥ २०॥ स्वस्ति स्वागतमास्यते सुखममी जाताः कुतः पल्लवाः हन्तासन्कुसुमान्यपीह किमतो माध्वी च तत्रेक्ष्यते । किं भृङ्गा अपि सन्ति साधु शिरसि न्यस्तं पदं शाखिनां धुत्तूरास्ति न दुर्लभं किमपि ते यावद्वसन्तः सुखी ॥ २१॥ दृष्टाश्चन्द्रसमुद्गमाः शतमतिक्रान्ताः शतं प्रावृषः सीमामेष न जात्वलङ्घत किलेत्यब्धिर्न विश्वस्यताम् । योऽसौ शेत इवायमेव विधिना वामेन चेच्चाल्यते का सीमेति तदास्ति के जनपदाः का मेदिनी का दिशः ॥ २२॥ सर्वत्र स्रवतोऽस्य किञ्चिदुदकं दिष्ट्या मुहूर्ते क्वचि- च्छुक्तीनामुदरेषु मौक्तिकमभूत्काले कदाचित्किल । अद्यत्वेऽपि तथा करोतु पटुता यद्यस्ति तद्धूरतः शुष्कैरेव तु गर्जितैर्व्यथयति श्रोत्राणि धाराधरः ॥ २३॥ आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि ख- ल्वर्धं निर्गलितं निशात्मकतया यत्रास्ति सङ्गो न ते । शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥ २४॥ सर्वेषां विदिताः सुधाकरकराः साक्षात्सुधारूपिणः सन्देहोऽपि न तद्भुजः सुमनसो जाता अमर्त्या इति । तानेव ह्युपभुञ्जते प्रतिनिशं दीनाश्वकोरा इमे क्षीयन्ते तृणवच्च को नु गहनां जानातु धातुर्गतिम् ॥ २५॥ अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः । भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे न ह्येकस्य गुणः परस्य महतो दोषानपि प्रोणुते ॥ २६॥ अन्तः क्षोभकृतः कतीह तिमयः कत्युच्छ्रिताः पर्वताः कीहक्चान्तरबिन्धनो हुतवहः कीदृक्च नौकागतिः । आगच्छत्प्रतिगच्छदुच्चलदुपश्लिष्यत्प्रधावत्पत- त्कल्लोलारभटीभिरेव जलधेः सर्वं तदाच्छाद्यते ॥ २७॥ जामाता कमलाक्ष एव गृहिणी गङ्गा जगत्पावनी शीतांशुप्रमुखाः सुता भगवती श्रीरेव कन्या स्वयम् । ईदृक्ते गृहमेधिता त्रिभुवनाधारस्य वारान्निधे कः शक्नोति जनो मनोरथपथेऽप्येतावदुत्प्रेक्षितुम् ॥ २८॥ यन्मूले निखिलागमानुपदिशत्तत्त्वं परं शाङ्करं यत्पर्णे जगतां निधिः स तु वटो नाम्नापि न स्वीकृतः । यच्छाखानिलयः पिशाचनिचयो यन्मूलगाः पन्नगा- स्तस्याश्वत्थतरोः पुनः कति नमस्काराः कति प्रार्थनाः ॥ २९॥ आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च स्वारब्धं मधु मक्षिका न कणमप्यस्य स्वयं भुञ्जते । धन्यस्त्वन्य उपेत्य निर्दयममूरुत्सारयन्दूरतः स्वादं स्वादमिदं स्वसम्भृतमिव स्वच्छन्दमानन्दति ॥ ३०॥ आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः श्रूयन्ते गिर एव तत्त्वमिह तु ज्ञातुं विधातुः क्षमम् । यत्पर्णैस्त्रुटितं यदप्युपरतं पुष्पोद्गमैः शाखिनां यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥ ३१॥ उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतद- प्युत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे । पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति स्तोकेनापि मनोभवो गलतु वः प्राणेषु शुष्को ग्रहः ॥ ३२॥ तिक्तास्ते विटपास्त्वचो यदि ततस्तिक्तास्ततोऽपि च्छदा- स्तेभ्योऽपि प्रसवास्ततोऽपि च फलान्येवं न दृष्टं क्वचित् । स्तौमि त्वामथ वा न निम्ब भवतोऽप्यासीद्यतः सम्भवः श्रीमत्तत्किल निम्बबीजमवनौ स्तुत्यं वचःशालिनाम् ॥ ३३॥ चूताः पल्लवमुद्रिन्ति वितरन्त्येतत्पिकेभ्यस्तत- स्तेऽप्येतेन कुहूः कुहूरिति कलं कुर्वन्ति कूजामिति । निम्बोऽपि स्वयमुद्गिरन्फलमनेनाराधयन्वायसा- न्किचित्तेषु ततो रटत्सु सफलं जन्म स्वकं मन्यते ॥ ३४॥ भोज्यं स्वादु पयः स्थितिमणिगणैरापिञ्जरे पञ्जरे दूरे चिन्तयितुं च दंशमशकाः पारे गिरां लालनम् । सत्यं सर्वमथापि काननभुवि स्वाच्छन्द्यमव्याहतं ध्यायन्ती विमना मनागपि शुकी नालम्बते निर्वृतिम् ॥ ३५॥ प्राङ्मेघैः कियदम्बु पीतमुदधेः पीतेऽपि वृष्टं किय- द्वृष्टे चापि कियत्प्रलीनमवनौ पीतं कियत्प्राणिभिः । नेदं कश्चन वेद यत्तु किमपि प्रापावशिष्टं पुन- र्घर्मान्ते सरितां मुखेन तदभूदीर्ष्यास्पदं पश्यताम् ॥ ३६॥ मेघ द्वारतया विधाय भुवनान्याप्लावस्यम्भसा चन्द्रं द्वारतया विधाय सवितः पुष्णासि सर्वोषधीः । यत्त्वीषत्तपसीव तत्तु कुरुषे स्वेनैव तेनाधुना दातृत्वं घनचन्द्रयोः परिणतं क्रौर्य तु शिष्टं त्वयि ॥ ३७॥ द्वारं न प्रजहातु जातु नियतं जागर्तु रात्रीरपि स्वल्पेनापि मुदं प्रयातु किमतः श्वा श्वैव तावानपि । सम्पाद्यो महता धनेन सततं भोज्यश्च सान्त्वैरिति त्यक्त्वा मत्तगजं पदेऽस्य महतः स्थाप्यः किमेतावता ॥ ३८॥ उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये । द्वित्रैरेव दिनैस्तिमिङ्गिलकुलस्यासाद्य कूटस्थतां मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासङ्कथाम् ॥ ३९॥ पन्थाः कर्दमितः पयः कलुषितं हंसाः कृता दूरतः पीड्यन्ते च यदेवमर्थिन इति क्रूरारवैश्चातकाः । सोढाहे तव हे पयोद सकलं शक्नोषि दातुं स्वतः किं त्वं शीकरमेकमप्युदधिना लोभो यदि स्वीकृतः ॥ ४०॥ सर्वज्ञो यदि शङ्करो यदि महादेवो यदि प्रायशो देवानामपि दैवतं यदि तदप्यास्तामिदं दूरतः । धुत्तूरैः फणिभिः कपालवलयैरन्यैश्च ते सङ्गति- श्चूडाचन्द्रकले न तावदुचिता याचे बहिर्गम्यताम् ॥ ४१॥ अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत्किं ततो भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते । एतेऽद्यैव लयं ब्रजन्ति पृथुकैरेतत्कुलीनोऽपि चे- देकः प्राणिति तावदेव तदलं तत्रैव नः संशयः ॥ ४२॥ वर्णस्तेऽतिमनोरमः शिरसि ते वासो मृडानीपतेः प्रत्येतव्यतरं च काञ्चनमिति प्रौढं पुनर्नाम ते । किं कर्तव्यमितःपरं च भवता धुत्तूर लोकाः पुन- र्न क्रीणन्ति न च स्पृशन्ति न च वा पश्यन्ति गन्धप्रियाः ॥ ४३॥ राज्यं येन कृतं न तस्य श‍ृणुमः कामस्य नामाधुना येषामेव गिरः पुरा परभृतैस्तैरद्य मौनं धृतम् । व्याप्ता येन दिशो न साम्प्रतमसौ मन्दानिलः स्पन्दते किं ब्रूमोऽवतरन्निदाघहतको विश्वं नवं निर्ममे ॥ ४४॥ पीयन्तां तमसा दिशो विदधतां नीचाः पिशाचाः स्मयं व्याक्रोशन्तु शिवाः कियच्चिरमसौ कालः सखे स्थास्यति । अद्योदेष्यति भानुरेष्यति दिशामद्य प्रसादो मुखे- ध्वद्य स्वां प्रकृतिं गमिष्यति मही कोक क्षणं क्षम्यताम् ॥ ४५॥ मेघा इत्यवतीर्य केऽपि नभसः सर्व पयो गृह्णते यादांसीति समागतास्तत इतोऽप्यन्ये रमन्ते सुखम् । यस्तु स्वान्तिक एव तस्य महतस्तालस्य कालाद्वहोः शुष्कस्यापि हि नोपयोगकणिकां पश्यामि तेनाब्धिना ॥ ४६॥ आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमसीति वाभिदधतां काका वराकाः स्वयम् । गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावद- प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥ ४७॥ गन्तव्यं शिशिरेण नाम भवितव्यं नाम चूताङ्कुरै- स्तानास्वाद्य पिकः करिष्यति तदा नाम स्वयं पञ्चमम् । आस्तामेष तथाविधस्त्वमसि किं काक स्वतन्त्रस्य ते कालोऽयं स्वर एष भोज्यमिदमित्येषा कुतो यन्त्रणा ॥ ४८॥ काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा घूकाः कोटरगह्वरेषु मशकैर्दंशैश्च सान्द्रं तलम् । आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥ ४९॥ स्निग्धश्यामलकोमलं दलमतिप्रच्छायशीतं तलं भूपर्यन्तविलम्बिजम्भलफलस्थूलं च वृत्तं फलम् । सम्पश्यन्विजने वने व्यवसितस्तत्रैव वस्तुं सुखं पान्थः पान्थमुखाद्विषद्रुमममुं दैवादवेत्य द्रुतः ॥ ५०॥ वर्षन्त्वम्बुमुचस्तपन्तु तपना मथ्नन्तु देवासुरा बघ्नन्तु प्लवगाः पतन्तु सरितो गङ्गादिमाः सर्वतः । पुष्णातूत्पलबान्धवः प्रतिनिशं मुष्णातु वा बाडबो नाब्धिः क्षुभ्यति न प्रसीदति ततो न क्षीयते नैधते ॥ ५१॥ वापीकूपतडागपल्वलसरःस्रोतस्विनीसारणी- तोयाभ्युद्गमनिर्झरह्रदजलाधारोदपानप्रपाः । सम्पन्ना उपजीव्य यस्य विभवं साक्षात्प्रणाल्यापि वा तस्मै जीवन जीवनाय सरितामीशाय तुभ्यं नमः ॥ ५२॥ न ह्युष्णो न च शीतलो जलनिधिलब्धप्रतिष्ठोऽपि स- न्कस्त्वस्याः प्रकृतेरभु चलयितुं शक्तस्त्रिलोकेष्वपि । अद्यापि ज्वलतान्तरेव विहितं किं तावदौर्वाग्निना सायं सायमुदित्वरेण शशिना तत्रैव वा किं कृतम् ॥ ५३॥ राजा विप्रकुलस्य यस्य तनयः सोमः स वारान्निधे- यः सर्वाश्रयणीयपादकमलस्तस्याश्रयोऽयं हरेः । आनीतश्चुलुकं स एव चलुकेऽप्यन्तः प्रवेश्येत चे- त्कः संवेदितुमीहते भगवतः कालस्य लीलायितम् ॥ ५४॥ दुग्धं स्वादु रसादपीह मधुनो दग्धं विषैर्वासुकेः संवर्तव्रतसाक्षिणो जलचरा मन्थाद्रिणा मारिताः । प्राणेभ्योऽप्यधिकाः सुरद्रुममुखाः प्राप्ताः समस्ता व्ययं किञ्चिद्रक्षितुमिच्छतामृतमिह क्षीराब्धिना नाशितम् ॥ ५५॥ लब्धा श्रीर्मुरवैरिणा पुरभिदा लब्धः स्वयं चन्द्रमा देवैरप्सरसो मणिद्विपहयास्तत्स्वामिनैवाहृताः । एकस्मै स्वयमेकमेव वितरत्येतेषु चेत्सागर- स्त्रैलोक्यं वशयेज्जडस्तु स वृथा विक्रम्य तैलुण्ठितः ॥ ५६॥ कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः सुन्दर्यः कति सुध्रुवः कति महारत्नान्यनर्घाण्यपि । जातैका किल कन्यका जलनिधेर्दातुं प्रसक्ता यदा सर्वं तद्व्ययितं तदा परिणतौ नामैकमुच्छेषितम् ॥ ५७॥ प्रागभ्यागतया किलाभ्रसरिता सम्प्लावयन्त्या मही- मम्भोधिः स्वयमप्यपूर्यत सकृत्तत्तज्जलाधारवत् । आस्तेऽयं कथमक्षयो निधिरपां ते ते कथं वासते निर्व्याजाम्बुधराम्बुदानसुकृतं सिद्धं तदित्थं पुनः ॥ ५८॥ खातं शीतलवारि वारिदकुलश्यामाभिरामद्रुमं पान्थश्रान्तिहरं सरः पथि हृतं दुर्भिक्षमप्यम्भसाम् । ये त्वेते भुवि चातका इति कदाप्यज्ञातभौमोदका- स्ते गृह्णन्ति न चेदिहाम्बु किमतो दैवेन ते वञ्चिताः ॥ ५९॥ भूमिष्ठा अतिपावनीः सुरभिलाः स्वाद्वीरपः सन्त्यज- न्याचत्यम्बुदमम्बु चातकगणो यत्तेन किं साध्यते । किं तस्मै द्विगुणं प्रवर्षति घनः किं वा तपः साध्यते प्राग्जन्मन्यवितीर्णवारिकणिकः पापी स इत्यूह्यते ॥ ६०॥ स्वादून्येव फलानि सन्ति सुरभीण्येव प्रसूनानि च स्वान्तं चाप्युपकर्तुमर्हति जने साध्यं वनस्थेन किम् । भाग्यं ह्येतदतर्कितं वनतरोः पान्थो यदा तापस- श्छायामस्य यदृच्छया फलवतीमध्यास्त गन्धोत्तराम् ॥ ६१॥ पान्थेषु व्ययितं फलं पथिषु यैर्नम्रैः सदा पादपै- र्यैरप्युन्नतमौलिगोपितफलैः कोणे निलीय स्थितम् । दावेन ज्वलता द्वयेऽपि खलु ते निःशेषिताः साम्प्रतं पुण्यं पापमिति स्थितं द्वयमिदं तेषां द्वयानां पृथक् ॥ ६२॥ अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभि- र्व्याक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्तं द्विजाः । इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते तावत्त्वं न गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ॥ ६३॥ जायन्ते विजने वने क्षितिरुहो यद्यप्यमी दुर्भगाः सर्वे ते वटुभिस्तथापि न तथा बोद्धुं क्षमास्तुल्यवत् । आक्रान्तेष्वपि तेषु केषुचिदतिक्रूरक्रियैः श्वापदै- र्गृह्यन्ते कतिचिद्यतः शमधनैर्ब्रह्मर्षिभिः पावनैः ॥ ६४॥ निद्रालस्यशरीरसादवमनान्नद्वेषकासज्वर- श्वासश्वेतिमहिक्किकाप्रभृतयो मासेषु मातुर्ध्रुवाः । जातस्तत्क्षणमेव नश्यतु शतं वर्षाणि वा जीवतु स्वर्गे वा पितरौ दधातु नरके वा पातयत्व ञ्जसा ॥ ६५॥ निघ्नन्तोऽशनिभिस्तडिद्विलसितैश्चक्षुर्हरन्तो नृणां विध्यन्तश्च शिलाशतैः परिचिताः प्रायेण धाराधराः । वर्षन्तो निभृताश्चिरं च समये दृष्टाश्च केचिद्धना यैरव्याजपरोपकारनिरतैर्जात्या यशः स्थापितम् ॥ ६६॥ नाक्ष्णोर्गच्छसि गोचरं बहुतिथान्मासान्नभस्ये पुनः सङ्घीभूय समेत्य वर्षसि निरुच्छ्वासं समन्तादपः । कालं कालमनुव्रजन्मितमिता मुञ्चस्यपश्चेत्ततः किं जीमूत तव प्रणश्यति कियत्प्राणन्त्वतः प्राणिनः ॥ ६७॥ भग्नं भित्तिभिरालयैर्निपतितं स्रोतोभिराप्लावितं विध्वस्तं पशुभिश्च सङ्घश इति क्रोशन्ति वृष्टे त्वया । त्वय्युद्गृह्णति वारि वारिद जना नश्यन्त्यवश्यं क्षणा- कीर्तिं चिन्तय दुर्लभां न गणय क्षुद्रान्गुणान्मादृशाम् ॥ ६८॥ उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसै- स्तत्रत्यानपि हन्त चन्दनतरूश्छिन्दन्ति सांयाधिकाः । वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्या द्रुमा- स्तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ॥ ६९॥ गृह्यन्तां करिणः प्रसह्य विनिहन्यन्तां वराहा वृका भल्लूकाश्च तरक्षवश्च पथिकाः सन्तु त्वया निर्भयाः । आखून्कङ्क खराशशाननिमिषान्कीटान्पतङ्गानपि ग्राहं ग्राहमहो कियत्प्रकटयस्याखेटके पाटवम् ॥ ७०॥ यादोभिर्वडवाग्निना जलनिधेर्यावत्पयो गृह्यते किं तावत्युपयुज्यते शततमोऽप्यंशः पयोद त्वया । सौजन्यं किमिति ब्रवीमि भवतः सर्वस्वमित्थं त्यज- न्ख्यातः ख्यापयसे पयोधिमपि तं सर्वोपयोगक्षमम् ॥ ७१॥ मेघः कश्चिदचेतनः कियदपि स्वीकृत्य सिन्धोः पयः कीर्तिं तस्य समुच्चिनोति कियतीं धर्मं कियच्छाश्वतम् । ब्रह्मज्ञस्तपसां निधिस्त्रिभुवनख्यातश्च कुम्भोद्भवः सर्वस्वं विनियुज्य तस्य किमिव श्रेयः समापादयत् ॥ ७२॥ यच्छैलेषु यदर्णवेषु यदपि प्रामाटवीजाङ्गल- प्रायासु क्षितिषु क्षिपन्ति बहुशस्तोयं वृथा तोयदाः । दृष्टिस्तत्र न दीयतां यदि गुणग्राही भवान्यत्पुनः र्ग्रामेषूपवनेषु वा सकृदमी वर्षन्ति तद्गृह्यताम् ॥ ७३॥ ग्रामेष्वेव सुवृष्टयो विनयवत्स्वेव श्रियः पुष्कला धीमत्स्वेव कलागमव्यसनिता गोष्वेव दुग्धस्थितिः । वाग्मिष्वेव विवक्षुतेति च जगत्प्रार्थ्या व्यवस्थामिमां किं वेधा विदधे पुरेति श‍ृणुमो रामेऽपि राज्यस्थितिः ॥ ७४॥ उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे तत्त्वे तावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च । कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥ ७५॥ विद्धं साधु न साध्विव प्लुतमिदं रे रे कथं विध्यसी- त्याख्यातुं रणकौशलं वयमपि प्रौढाः स्थिता दूरतः । आक्रामन्रणमेदिनीमपि वहन्खङ्गं विकोशं करे वेत्ति स्वं च परं च यद्यवहितो विक्रान्तिरेषैव नः ॥ ७६॥ अम्भोजेष्वतिकोमलेषु विहरन्नन्तर्जले संविश- न्नज्ञातातपवातवर्षमनयत्कालं चिरं यः सुखम् । सोऽद्य प्रावृषि केतकीमधिवसन्भृङ्गः क्षतः कण्टकै- राविद्धः करकोपलैरभिहतो वातैः कथं वर्तते ॥ ७७॥ ब्रूते स्वागतमीक्षते कृशममुं श्रुत्वा कथाः खिद्यते पक्षाभ्यामसकृत्प्रमार्ष्टि रचयत्युच्चावचाश्चाशिषः । उच्छिन्नप्रसवात्तरोरुपगते भृङ्गे क्षुधा ताम्यति प्रस्तौति भ्रमरस्तु पूर्णजठरो नाहारवार्तामपि ॥ ७८॥ ये मृष्यन्ति सहासिकामपि बकैर्जात्या न हंसाः स्वत- स्तेष्वेको जरसा विलुप्रगमनस्त्यक्तः स्वकैः प्रावृषि । तानेवानुसरन्बकान्बहुतरं तच्चेष्टितानि स्तुवं- स्तज्जात्यै स्पृहयन्कियत्कियदहो जातिं निजां निन्दति ॥ ७९॥ शुद्धिं स्वामनुचिन्य मीननिवहैः पूर्णेऽपि पद्माकरे स्वेनैवोपनतैर्मृणालवलयैर्जीवन्ति हंसाः सुखम् । ये त्वेते विमलास्ततोऽपि च बका ध्यानैकनिष्ठाः सदा निर्द्वन्द्वा निभृताश्च बिभ्रति न ते यादोभिरेवोदरम् ॥ ८०॥ यैर्जीवन्ति सितच्छदा न दुरितं कस्यापि यत्सङ्ग्रहे रोचन्ते न हि ते मृणालवलयाः कस्मै प्रभूता अमी । अप्यासायमुपोष्य मीनपृथुकैर्युक्त्या महत्यार्जितै- रेकद्वैरपि तृप्तिमेति परमां हिंसोपलब्धैर्बकः ॥ ८१॥ अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटै- र्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः । भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवा- न्यः सीदन्क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥ ८२॥ भृत्यास्ते बिभृमस्तु तान्वयमिमे क्षुद्रा बृहन्तो वयं जातौ पक्षवताममी तु कलकण्ठाः कालकण्ठा वयम् । इत्युद्भावयसे कुहूमुखकुलादुत्कर्षमेवात्मनः कण्ठे पातयिता कदा खलु भवान्काक स्वरं पञ्चमम् ॥ ८३॥ केनाध्यापितमास्थितं क्व नु कदाधीतं क्व वा वर्तितं तद्विश्राम्यतु कुत्र जातमथ कैः पुष्टं तदालोच्यताम् । काले सोऽपि कुहूमुखो यदि जगत्कर्णामृतं कूजति प्राग्जन्मार्जितभाग्यवैभवमिदं कः स्तोतुमीष्टे कविः ॥ ८४॥ कीटः कश्चन वृश्चिकः कियदयं प्राणी कियञ्चेष्टते को भारो हननेऽस्य जीवति स वा कालं कियन्तं पुनः । नाम्नोऽप्यस्य कियद्विभेति जनता दूरे कियद्धावते किं ब्रूमो गरलस्य दुर्विषहतां पुच्छाग्रशूकस्पृशः ॥ ८५॥ किं चन्द्रो न पुरा बभूव किमिमे वृक्षाः पुरा नाभव- न्किं सृष्टा अधुना पिका मधुकरा अद्योदपद्यन्त किम् । साहङ्कारममुं प्रपञ्चमखिलं भोक्तुं यदा प्राणिनां प्रासीदद्रुहिणस्तदा समुदभूदाश्चर्यचर्यो मधुः ॥ ८६॥ आयासानविचिन्तयन्नगणयल्लाँभं ततः किञ्चिद- प्यम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः । तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ॥ ८७॥ वृत्तिं वर्तयितुं निजां विषहरा गृह्णन्तु सर्वान्नरा गृह्णन्तु क्षुधितास्तदेकविहिताहारा मयूराश्च वा । नाजिघ्रन्ति च ये कदापि नकुलास्ते हन्त किं कारणं दर्शं दर्शमनुद्रवन्ति भुजगान्द्वेधा च विच्छिन्दते ॥ ८८॥ खादन्ति क्षुधितास्तृणानि तृषिता गृह्णन्त्यपो निर्झरे सीदन्तो गिरिकन्दरासु हरिणा येऽमी क्वचिच्छेरते । व्याधव्याघ्रदवानलप्रभृतयस्तेष्वेव सन्नाहिन- स्तद्वा तिष्ठतु घातयन्ति मुनयोऽप्येतान्कथं चर्मणि ॥ ८९॥ घ्नन्त्वेकत्र तरक्षवो मृगकुलं दावा दहन्त्यन्यतो व्याधा वीतभयाः परत्र शतशो विध्यन्ति गृह्णन्ति च । किं त्वं वेत्सि कथामिमां मृगपते निद्रासि कोणे क्वचि- द्दिष्ट्या चेदवबुध्यसे शमयसि द्वित्रान्वृथा दन्तिनः ॥ ९०॥ दुर्धर्षोऽसि वनेचरोऽसि क इदं नेत्याह किं तु स्वतो जानीषे न हिताहितं न खलु तज्जिज्ञाससे वान्यतः । तद्गृह्णन्ति नियन्त्रयन्ति निगलैस्त्वां ताडयन्त्यङ्कुशै- रारोहन्ति च वारणेन्द्र मशकप्राया मनुष्या अपि ॥ ९१॥ अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितै- र्भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च । पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥ ९२॥ हन्यन्ते कति जन्तवो वनचरैर्नित्यं कति श्वापदै- र्गृह्यन्ते कति कूटयन्वरचनैः क्षोणीभृतां प्रीतयेम् । एतावत्यपि विप्लवे न भजसे कस्यापि दृग्गोचरं स्वच्छन्दश्च सृगाल खेलसि पुनस्तुल्यं वनग्रामयोः ॥ ९३॥ अस्ति स्वर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः । किं नस्तच्चरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥ ९४॥ अस्त्यत्नैव किलार्णवे तदमृतं तत्रैव हालाहलः सन्त्यस्मिन्मलये पटीरतरवस्तत्नैव वाताशनाः । यद्यद्वस्त्वभिजातमस्ति सविधे तत्तद्दुरापं नृणां प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ॥ ९५॥ तावच्चैधितमेधितव्यमवनौ यावन्महद्भिर्द्रुमै- श्छायाभिः कुसुमैः फलैश्च पथिकाः शक्त्या समाराधिताः । कालोऽयं मम जीर्यतः पतितुमित्यास्ते तरोराशये पान्थानां च पतत्रिणां च हृदये जातोऽयमस्मिन्क्षणे ॥ ९६॥ दृष्टिघ्राणविषान्फणाधरपतीनष्टापि दृष्ट्या स्वयं रोद्धुं द्रावयितुं विनाशयितुमप्यव्याहतप्रक्रमः । मार्जारान्नकुलांश्च किं खगपतिः साह्ये वृणोत्यात्मनः किं प्रत्यर्थिकुलस्य वृत्तिद इति प्रद्वेष्टि वा मारुतम् ॥ ९७॥ अध्वन्यान्कति रुन्धते कति दृढान्भिन्दन्ति तोयाकरा- न्केदारान्कति मज्जयन्ति कति च व्यापाटयन्ति द्रुमान् । वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न जायते ॥ ९८॥ का द्यौः किं बलिसद्म का वसुमती स्यात्सर्वमेतद्यदि प्रत्यक्षं न भवेत्कदाचिदपि किं ते सर्वसन्दर्शिनः । भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक्त्वया मुक्त्वेमं परमं कुकूपमितरत्किं नाम सम्भाव्यते ॥ ९९॥ त्वद्गर्भे सुखमासते फणिपतिश्रीकूर्मदिग्दन्तिनः प्रत्यक्षा कुलभूभृतां स्थितिरपि त्वय्यम्ब सर्वंसहे । ये त्वेते बिभृमो वयं भुवमिति स्वं ख्यापयन्ते यशो निःशङ्कं निरपत्रपं च तदिदं नः कर्णशूलायते ॥ १००॥ भूतानां प्रभवस्थितिप्रविलयास्त्वय्येव विश्वम्भरे त्वद्गर्भे ननु ते रसातलजुषो दैत्याः फणीन्द्राश्च ये । त्वं सर्वैरुपजीव्यसे दिविचरैस्त्वत्तोऽपि किञ्चित्परं न स्यात्स्यादपि तन्निरस्तविषयं ब्रह्म त्वमेवासि नः ॥ १०१॥ इति श्रीनीलकण्ठदीक्षितविरचितं अन्यापदेशशतकं सम्पूर्णम् ॥ Proofread by Rajesh Thyagarajan
% Text title            : Anyapadesha Shatakam by Neelakantha Dikshita
% File name             : anyApadeshashatakam.itx
% itxtitle              : anyApadeshashatakam (nIlakaNThadIkShitavirachitAni)
% engtitle              : anyApadeshashatakam by nIlakaNThadIkShita
% Category              : shiva, nIlakaNThadIkShita, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan 1, 2, 3, Info 1, 2)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org