श्रीमदर्धनारीश्वराष्टोत्तरशतनामावलिः

श्रीमदर्धनारीश्वराष्टोत्तरशतनामावलिः

॥ श्रीः ॥ महाकैलासशिखरनिलयाय नमो नमः । समस्तहृदयाम्भोजनिलयायै नमो नमः ॥ १॥ अप्राकृतमहादेवीपुरःस्थाय नमो नमः । पुनरावृत्तिरहितपुरःस्थायै नमो नमः ॥ २ अनन्तानन्दबोधाम्बुनिधिस्थाय नमो नमः । रजताचलश‍ृङ्गाग्रगृहस्थायै नमो नमः ॥ ३॥ हिमाचलेन्द्रतनयावल्लभाय नमो नमः । शशाङ्कशेखरप्राणवल्लभायै नमो नमः ॥ ४॥ वामभागकलत्रार्धशरीराय नमो नमः । शङ्करार्धाङ्गसौन्दर्यशरीरिण्यै नमो नमः ॥ ५॥ विलसद्दिव्यकर्पूरगौराङ्गाय नमो नमः । चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः ॥ ६॥ अखण्डसच्चिदानन्दविग्रहाय नमो नमः । लसन्मरकतस्वच्छ विग्रहायै नमो नमः ॥ ७॥ षोडशाब्दवयोयुक्तदिव्याङ्गाय नमो नमः । सहस्ररतिसौन्दर्यशरीरिण्यै नमो नमः ॥ ८॥ कोटिकन्दर्पसदृशलावण्याय नमो नमः । महातिशयसर्वाङ्गलावण्यायै नमो नमः ॥ ९॥ रत्नमौक्तिकवैडूर्यकिरीटाय नमो नमः वज्रमाणिक्यकनककिरीटिन्यै नमो नमः ॥ १०॥ मन्दाकिनीजलोपेतमूर्धजाय नमो नमः । भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ॥ ११॥ चारुशीतांशुशकलशेखराय नमो नमः । शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः ॥ १९॥ त्रिपुण्ड्रविलसत्फालफलकाय नमो नमः । कस्तूरीतिलकोद्भासिनिटिलायै नमो नमः ॥ १३॥ सोमपावकमार्तण्डलोचनाय नमो नमः । प्रफुल्लाम्भोरुहदललोचनायै नमो नमः ॥ १४॥ नासाग्रन्यस्तनिटिललोचनाय नमो नमः । भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ॥ १५॥ वासुकितक्षकलसत्कुण्डलाय नमो नमः लसत्काञ्चनताटङ्कयुगलायै नमो नमः ॥ १६॥ चारुप्रसन्नसुस्मेरवदनाय नमो नमः । ताम्बूलपूरितस्मेरवदनायै नमो नमः ॥ १७॥ हिरण्यज्योतिर्विभ्राजत्सुप्रभाय नमो नमः । मणिदर्पणसङ्काशकपोलायै नमो नमः ॥ १८॥ समुद्रोद्भूतगरलकन्धराय नमो नमः । कम्बुपूगसमच्छायकन्धरायै नमो नमः ॥ १९॥ सौदामिनीसमच्छायसुवस्त्राय नमो नमः । सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः ॥ २०॥ अनेकरत्नमाणिक्यसुहाराय नमो नमः । स्थूलमुक्ताफलोदारसुहारायै नमो नमः ॥ २१॥ मौक्तिकस्वर्णरुद्राक्षमालिकाय नमो नमः । पद्मकैरवमन्दारमालिकायै नमो नमः ॥ २२॥ परश्वधलसद्दिव्यकराब्जाय नमो नमः । पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः ॥ २३॥ वराभयप्रदकरयुगलाय नमो नमः । वराभीतिप्रदानश्रीहस्ताब्जायै नमो नमः ॥ २४॥ कुरङ्ग विलसत्पाणिकमलाय नमो नमः । रमणीयचतुर्बाहुसंयुक्तायै नमो नमः ॥ २५॥ नागयज्ञोपवीतोपशोभिताय नमो नमः । गिरीशबद्धमाङ्गल्यसूत्रिकायै नमो नमः ॥ २६॥ मत्तमातङ्गसत्कृत्तिवसनाय नमो नमः । विद्युत्सन्निभसौवर्णवसनायै नमो नमः ॥ २७॥ महापञ्चाक्षरी मन्त्रस्वरूपाय नमो नमः । श्रीपञ्चदशवर्णैकस्वरूपायै नमो नमः ॥ २८॥ शिञ्जानमणिमञ्जीरचरणाय नमो नमः । सुपद्मरागसङ्काशचरणायै नमो नमः ॥ २९॥ सहस्रकोटितपनसङ्काशाय नमो नमः । सहस्रकोटिसूर्येन्दुप्रकाशायै नमो नमः ॥ ३०॥ चक्राब्जध्वजयुक्ताङ्घ्रिसरोजाय नमो नमः । राजराजार्चितपदसरोजायै नमो नमः ॥ ३१॥ मुरारिनेत्रपूज्याङ्घ्रिपङ्कजाय नमो नमः । पारिजातगुणाधिक्यपदाब्जायै नमो नमः ॥ ३२॥ मन्दारमल्लिकादामभूषणाय नमो नमः । कनकाङ्गदकेयूरभूषितायै नमो नमः ॥ ३३॥ अज्ञानतिमिरध्वंसभास्कराय नमो नमः । श्रीकण्ठनेत्नकुमुदचन्द्रिकायै नमो नमः ॥ ३४॥ कमलाभारतीन्द्राणी सेविताय नमो नमः । शचीमुख्यामरवधूसेवितायै नमो नमः ॥ ३५॥ अपर्णाकुचकस्तूरीरञ्जिताय नमो नमः । दिव्यभूषणसन्दोहरञ्जितायै नमो नमः ॥ ३६॥ गुहमत्तेभवदनजनकाय नमो नमः । मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः ॥ ३७ चराचरस्थूलसूक्ष्मकल्पकाय नमो नमः सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः ॥ ३८॥ निगमान्तवचोगम्यवैभवाय नमो नमः । देवर्षिस्तूयमानात्मवैभवायै नमो नमः ॥ ३९॥ विमलप्रणवाकाशमध्यगाय नमो नमः । चक्रराजमहामन्त्रमध्यस्थायै नमो नमः ॥ ४०॥ पृथ्व्यप्तेजोऽनिलाकाशपूरिताय नमो नमः । अव्याजकरुणापूरपूरितायै नमो नमः ॥ ४१॥ रतिप्रख्यातमाङ्गल्यफलदाय नमो नमः । पतिव्रताङ्गनाभीष्टफलदायै नमो नमः ॥ ४२॥ मार्कण्डेयमनोभीष्टदायकाय नमो नमः । एकातपत्रसाम्राज्यदायिकायै नमो नमः ॥ ४३॥ कृतान्तकमहादर्पनाशनाय नमो नमः । कामक्रोधादिषड्वर्गनाशनायै नमो नमः ॥ ४४॥ बिडौजोविधिवैकुण्ठसन्नुताय नमो नमः । कलशोद्भवदुर्वासःसम्पूज्यायै नमो नमः ॥ ४५॥ कैवल्यपरमानन्दनियोगाय नमो नमः । शक्तिहंसवधूमुख्यनियोगायै नमो नमः ॥ ४६॥ स्वद्रोहिदक्षसवनविनाशाय नमो नमः । कलेबरान्तविभ्रान्तिविनाशिन्यै नमो नमः ॥ ४७॥ दुःखमन्युमहामोहभञ्जनाय नमो नमः । दुष्टभूतमहाभीतिभञ्जनायै नमो नमः ॥ ४८॥ सनकादिसमायुक्तदक्षिणामूर्तये नमः । अनाद्यन्तस्वयम्भानदिव्यमूर्त्यै नमो नमः ॥ ४९॥ अशेषदेवताराध्यपादुकाय नमो नमः । सनकादिसमाराध्यपादुकायै नमो नमः ॥ ५०॥ अनन्तवेदवेदान्तसंवेद्याय नमो नमः । सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः ॥ ५१॥ निजपादाम्बुजासक्तसुलभाय नमो नमः । भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ॥ ५२॥ उत्पत्तिस्थितिसंहारकारणाय नमो नमः । अभ्रकेशमहोत्साहकारणायै नमो नमः ॥ ५३॥ नन्दिभृङ्गिमुखानेकसंस्तुताय नमो नमः । वन्दारुजनसन्दोहवन्दितायै नमो नमः ॥ ५४॥ अनन्तकोटिब्रह्माण्डनायकाय नमो नमः । लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः ॥ ५५॥ सहस्रारमहापद्ममन्दिराय नमो नमः । अनाहतमहापद्ममन्दिरायै नमो नमः ॥ ५६॥ अकारादिक्षकारान्तवर्णज्ञाय नमो नमः । वाणीगायत्रीसावित्रीवर्णज्ञायै नमो नमः ॥ ५७॥ घोरापस्मारदनुजदमनाय नमो नमः । महापापौघकान्तारविभेदिन्यै नमो नमः ॥ ५८॥ कैलासतुल्यवृषभवाहनाय नमो नमः । कामकोटिमहाभद्रपीठस्थायै नमो नमः ॥ ५९॥ शम्बरान्तकलावण्यदेहसंहारिणे नमः । भण्डदैत्यमहासेनाशासनायै नमो नमः ॥ ६०॥ संसारामयसञ्छेदभेषजाय नमो नमः । भूतेशालिङ्गनोद्भूतपुलकायै नमो नमः ॥ ६१॥ सहस्रभानुसङ्काशचक्रदाय नमो नमः । अन्तर्मुखजनानन्दफलदायै नमो नमः ॥ ६२॥ आदिमध्यान्तरहितदेहस्थाय नमो नमः । रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः ॥ ६३॥ अनाहतमहासौख्यपदस्थाय नमो नमः । सुधाब्धिस्थमणिद्वीपमध्यस्थायै नमो नमः ॥ ६४॥ ज्योतिषामुत्तमज्योतीरूपदाय नमो नमः । नामपारायणाभीष्टफलदायै नमो नमः ॥ ६५॥ नरसिंहमहादर्पशमनाय नमो नमः । चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः ॥ ६६॥ शाश्वतैश्वर्यविभवसहिताय नमो नमः । त्रिलोचनकृतोल्लासविभवायै नमो नमः ॥ ६७॥ निश्चलौदार्यसौभाग्यप्रबलाय नमो नमः । नतसम्पूर्णविज्ञानसिद्धिदायै नमो नमः ॥ ६८॥ निजाक्षिजाग्निसन्दग्धत्रिपुराय नमो नमः । महिषासुरदोर्वीर्यनिग्रहायै नमो नमः ॥ ६९॥ दारुकावनमौनिस्त्रीमोहनाय नमो नमः । साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः ॥ ७०॥ पतञ्जलिव्याघ्रपादसंस्तुताय नमो नमः । धात्रच्युतमुखाधीशसेवितायै नमो नमः ॥ ७१॥ सकृत्प्रपन्नदौर्भाग्यभेदनाय नमो नमः । भावनामात्रसन्तुष्टहृदयायै नमो नमः ॥ ७२॥ अचिन्त्यदिव्यमहिमारञ्जिताय नमो नमः । हयमेधाग्रसम्पूज्यमहिमायै नमो नमः ॥ ७३॥ हिरण्यकिङ्किणीयुक्तकङ्कणाय नमो नमः । नवचाम्पेयपुष्पाभनासिकायै नमो नमः ॥ ७४॥ संसिद्धऋग्यजुर्वेदवाहनाय नमो नमः । सुपक्कदाडिमीबीजरदनायै नमो नमः ॥ ७५॥ केशवब्रह्मसङ्ग्रामवारकाय नमो नमः । समस्तदेवदनुजप्रेरकायै नमो नमः ॥ ७३॥ चामीकरमहाशैलकार्मुकाय नमो नमः । सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः ॥ ७७॥ महाताण्डवचातुर्यपण्डिताय नमो नमः । क्रूरभण्डासुरच्छेदनिपुणायै नमो नमः ॥ ७८॥ ब्रह्मादिकीटपर्यन्तव्यापकाय नमो नमः । अनङ्गजनकापाङ्गवीक्षणायै नमो नमः ॥ ७९॥ अनेककोटिशीतांशुप्रकाशाय नमो नमः । सचामररमावाणीवीजितायै नमो नमः ॥ ८०॥ अविद्योपाधिरहितनिर्गुणाय नमो नमः । सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः ॥ ८१॥ शिक्षितान्तकदैतेयविक्रमाय नमो नमः । रक्ताक्षरक्तजिह्वादिशिक्षिकायै नमो नमः ॥ ८२॥ अद्वयानन्दविज्ञानसुखदाय नमो नमः । वृषभध्वजविज्ञाततपःसिद्ध्यै नमो नमः ॥ ८३॥ अनेककोटिशीतांशुशीतलाय नमो नमः । दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः ॥ ८४॥ समस्तलोकगीर्वाणशरण्याय नमो नमः । अमृतादिमहाशक्तिसंवृतायै नमो नमः ॥ ८५॥ शब्दस्पर्शसुगन्धादिसाधनाय नमो नमः । जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः ॥ ८६॥ धर्मार्थकाममोक्षैकसूचकाय नमो नमः । हिमाचलमहावंशपावनायै नमो नमः ॥ ८७॥ सर्वमन्त्रमहाचक्रस्यन्दनाय नमो नमः । महापद्माटवीमध्यनिवासिन्यै नमो नमः ॥ ८८॥ रजस्तमःसत्त्वमुखगुणेशाय नमो नमः । चण्डमुण्डनिहन्त्रादिसेवितायै नमो नमः ॥ ८९॥ परानन्दस्वरूपार्थबोधकाय नमो नमः । ज्ञानशक्तिक्रियाशक्तिनियुक्तायै नमो नमः ॥ ९०॥ जलन्धरासुरशिरच्छेदनाय नमो नमः । दक्षाध्वरविनिर्भिन्नशासनायै नमो नमः ॥ ९१॥ चण्डेशदोषविच्छेदप्रवीणाय नमो नमः । महेशयुक्तनटनतत्परायै नमो नमः ॥ ९२॥ महापातकतूलौघपावकाय नमो नमः । अशेषदुष्टदनुजसूदनायै नमो नमः ॥ ९३॥ सुधाकरसितच्छ्त्ररथाङ्गाय नमो नमः । सौभाग्यज्ञातश‍ृङ्गारमध्यमायै नमो नमः ॥ ९४॥ सरसीरुहसञ्जातप्राप्तसारथये नमः । बृहन्नितम्बविलसज्जघनायै नमो नमः ॥ ९५॥ वैकुण्ठनाथज्वलनसायकाय नमो नमः । श्रीनाथसोदरीरूपशोभितायै नमो नमः ॥ ९६॥ सप्तकोटिमहामन्त्रपूरिताय नमो नमः । लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः ॥ ९७॥ सहजानन्दसन्दोहसंयुक्ताय नमो नमः । विरक्तिभक्तिविज्ञाननिधानायै नमो नमः ॥ ९८॥ षड्विंशत्तत्त्वप्रासादभुवनाय नमो नमः । सहस्रारसरोजातनिवासायै नमो नमः ॥ ९९॥ अक्षरक्षरकूटस्थपरमाय नमो नमः । रमाभूमीसमाराध्यपादुकायै नमो नमः ॥ १००॥ देवकीसुतकौन्तेयवरदाय नमो नमः । जन्ममृत्युजराव्याधिवर्जितायै नमो नमः ॥ १०१ भुजङ्गराजविलसच्छिञ्जिन्याकृतये नमः । निजभक्तमुखाम्भोजसंस्थितायै नमो नमः ॥ १०२॥ कोलाहलमहोदारशरभाय नमो नमः । श्रीषोडशाक्षरी मन्त्रमध्यस्थायै नमो नमः ॥ १०३॥ ज्वलज्ज्वालावलीभीमविषघ्नाय नमो नमः । हानिवृद्धिसमाधिक्यरहितायै नमो नमः ॥ १०४॥ द्रुहिणाम्भोजनयनदुर्लभाय नमो नमः । मत्तहंसवधूमन्दगमनायै नमो नमः ॥ १०५॥ प्रपञ्चनाशकल्पान्तभैरवाय नमो नमः । नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः ॥ १०६॥ हिरण्यगर्भोत्तमाङ्गकर्तनाय नमो नमः । नागाद्रि निलयेशानकुटुम्बिन्यै नमो नमः ॥ १०७॥ वसुन्धरा महाभाग्यसूचकाय नमो नमः । अर्धाद्रिशिखरस्थार्धनारीश्वर्यै नमो नमः ॥ १०८॥ पराशक्तिसमायुक्तपरेशाय नमो नमः । महादेवसमायुक्तमहादेव्यै नमो नमः ॥ १०९॥ इति श्रीमदर्धनारीश्वराष्टोत्तरशतनामावलिः सम्पूर्णा ॥ Proofread by Aruna Narayanan
% Text title            : Shrimad Ardhanarishvara Ashtottarashata Namavalih
% File name             : ardhanArIshvarAShTottarashatanAmAvaliH.itx
% itxtitle              : ardhanArIshvarAShTottarashatanAmAvaliH
% engtitle              : ardhanArIshvarAShTottarashatanAmAvaliH
% Category              : shiva, devii, aShTottarashatanAmAvalI, nAmAvalI, devI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : December 25, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org