श्रीबटुकभैरवाष्टोत्तरशतनामावलिः
श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ।
ॐ अस्य श्रीबटुकभैरवस्तोत्रमन्त्रस्य कालाग्निरुद्र ऋषिः ।
अनुष्टुप् छन्दः । आपदुद्धारकबटुकभैरवो देवता । ह्रीं बीजम् ।
भैरवीवल्लभः शक्तिः । नीलवर्णो दण्डपाणिरिति कीलकम् ।
समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ॥
ऋष्यादि न्यासः -
ॐ कालाग्निरुद्र ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
आपदुद्धारकश्रीबटुकभैरव देवतायै नमः हृदये ।
ह्रीं बीजाय नमः गुह्ये । भैरवीवल्लभ शक्तये नमः पादयोः ।
नीलवर्णो दण्डपाणिरिति कीलकाय नमः नाभौ ।
समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने
विनियोगाय नमः सर्वाङ्गे ।
॥ इति ऋष्यादि न्यासः ॥
अथ मूलमन्त्रः -
॥ ॐ ह्रीं वां बटुकाय क्ष्रौं क्षौ आपदुद्धारणाय
कुरु कुरु बटुकाय ह्रां बटुकाय स्वाहा -
॥ इति मूलमन्त्रः ॥
अथ ध्यानम् -
नीलजीमूतसङ्काशो जटिलो रक्तलोचनः ।
दंष्ट्राकरालवदनः सर्पयज्ञोपवीतवान् ॥
दंष्ट्रायुधालंकृतश्च कपालस्रग्विभूषितः ।
हस्तन्यस्तकरोटीको भस्मभूषितविग्रहः ॥
नागराजकटीसूत्रो बालमूर्ति दिगम्बरः ।
मञ्जु सिञ्जानमञ्जरी पादकम्पितभूतलः ॥
भूतप्रेतपिशाचैश्च सर्वतः परिवारितः ।
योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥
अट्टहासस्फुरद्वक्त्रो भ्रुकुटीभीषणाननः ।
भक्तसंरक्षणार्थाय दिक्षुभ्रमणतत्परः ॥
॥ इति ध्यानम् ॥
अथ नामावलिः ।
ॐ बटुकाय नमः । वरदाय । शूराय । भैरवाय । कालभैरवाय ।
भैरवीवल्लभाय । भव्याय । दण्डपाणये । दयानिधये ।
वेतालवाहनाय । रौद्राय । रुद्रभ्रुकुटिसम्भवाय । कपाललोचनाय ।
कान्ताय । कामिनीवशकृते । वशिने । आपदुद्धारणाय । धीराय ।
हरिणाङ्कशिरोमणये । दंष्ट्राकरालाय नमः । २०
ॐ दष्टोष्ठाय / ओष्ठौ दष्टाय नमः । धृष्टाय ।
दुष्टनिबर्हणाय । सर्पहाराय । सर्पशिरसे । सर्पकुण्डलमण्डिताय ।
कपालिने । करुणापूर्णाय । कपालैकशिरोमणये । श्मशानवासिने ।
मांसाशिने । मधुमत्ताय । अट्टहासवते । वाग्मिणे । वामव्रताय । वामाय ।
वामदेवप्रियङ्कराय । वनेचराय । रात्रिचराय । वसुदाय नमः । ४०
ॐ वायुवेगवते नमः । योगिने । योगव्रतधराय । योगिनीवल्लभाय ।
यूने । वीरभद्राय । विश्वनाथाय । विजेत्रे । वीरवन्दिताय ।
भूताध्यक्षाय । भूतिधराय । भूतभीतिनिवारणाय । कलङ्कहीनाय ।
कङ्कालिने । क्रूरकुक्कुरवाहनाय । गाढाय । गहनगम्भीराय ।
गणनाथसहोदराय । देवीपुत्राय । दिव्यमूर्तये नमः । ६०
ॐ दीप्तिमते नमः । दीप्तिलोचनाय । महासेनप्रियकराय । मान्याय ।
माधवमातुलाय । भद्रकालीपतये । भद्राय । भद्रदाय ।
भद्रवाहनाय । पशूपहाररसिकाय । पाशिने । पशुपतये । पतये ।
चण्डाय । प्रचण्डचण्डेशाय । चण्डीहृदयनन्दनाय । दक्षाय ।
दक्षाध्वरहराय । दिग्वाससे । दीर्घलोचनाय नमः । ८०
ॐ निरातङ्काय नमः । निर्विकल्पाय । कल्पाय । कल्पान्तभैरवाय ।
मदताण्डवकृते । मत्ताय । महादेवप्रियाय । महते । खट्वाङ्गपाणये ।
खातीताय । खरशूलाय । खरान्तकृते । ब्रह्माण्डभेदनाय ।
ब्रह्मज्ञानिने । ब्राह्मणपालकाय । दिग्चराय । भूचराय । भूष्णवे ।
खेचराय । खेलनप्रियाय नमः । १००
ॐ सर्वदुष्टप्रहर्त्रे नमः । सर्वरोगनिषूदनाय । सर्वकामप्रदाय ।
शर्वाय । सर्वपापनिकृन्तनाय नमः । १०५
इति कालसङ्कर्षणतन्त्रोक्त
श्रीबटुकभैरवाष्टोत्तरशतनामावलिः समाप्ता ।
Proofread PSA Easwaran