बहुरूपगर्भस्तोत्रध्यानम् श्रीस्वच्छन्दभैरवरूपानुस्मरणम्
नमः स्वच्छन्दभैरवाय ।
अथ श्रीस्वच्छन्दभैरवरूपानुस्मरणम् ।
ॐ त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् ।
चन्द्रकोटिप्रतीकाशं चन्द्रार्धकृतशेखरम् ॥ १॥
पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् ।
वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् ॥ २॥
कपालमालाभरणं खड्गखेटकधारिणं
पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ॥ ३॥
वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् ।
वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् ॥ ४॥
वज्रदण्डकृताटोपं परश्वायुधहस्तकम् ।
मुद्गरेण विचित्रेण धृतेन तु विराजितम् ॥ ५॥ (वर्तुलेन विराजितम्)
सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् ।
अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ॥ ६॥
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ।
आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् ॥ ७॥
दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेत् ।
दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसन्निभम् ॥ ८॥
चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् ।
स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ॥ ९॥
ध्यायेद्वै यस्तु युक्तात्मा क्षिप्रं सिद्ध्यति मानवः । (ध्यायते यस्तु)
पूर्वं या सा मयाऽऽख्याता अघोरा शक्तिरुत्तमा ॥ १०॥ (या सा पूर्वं)
यादृशं भैरवं रूपं तस्यास्तादृशमेव हि ।
भैरवं पूजयित्वा तु तस्योत्सङ्गगतां स्मरेत् ॥ ११॥ (तस्योत्सङ्गं तु तां न्यसेत्)
ईषत्करालवदनां गम्भीरविपुलस्वनाम् ।
प्रसन्नास्यां सदा ध्यायेत् भैरवीं विस्मितेक्षणाम् ॥ १२॥
नौम्यहं तां परब्रह्ममहिषीं चित्स्वरूपिणीम् ।
चराचरस्वरूपेण संस्थितां भक्तवत्सलाम् ॥ १३॥
इति श्रीस्वच्छन्दभैरवरूपानुस्मरणं सम्पूर्णम् ।
(इति बहुरूपगर्भस्तोत्रध्यानं सम्पूर्णम् ।)
Verses 3 and 4 have some words swapped in some variations.
Verse 11 also has sequence swapped.
Proofread by Aruna Narayanan, Ruma Dewan