नन्दिकेशप्रोक्तं भावलिङ्गमहिमानुवर्णनम्

नन्दिकेशप्रोक्तं भावलिङ्गमहिमानुवर्णनम्

अलमलमनुवेलं कालकालं सलीलं कलय कलय काले व्यालमूलं सशूलम् । परिहर गुरुभारं क्रूरसंसारमारात् अनुसर गिरिकन्यास्मेरधारानुरागम् ॥ १॥ त्रिपुरहरपदाब्जामन्दमन्दारमाला- ललितपरिमलश्रीसंश्रयानां प्रभावः । कथमपि मम शक्यो वक्तुमित्येव मन्ये गिरिशचरणसेवापुण्यपुण्यार्णवानाम् ॥ २॥ अनुदिनमनुमोदैरिन्दुखण्डावतंसं सकृदपि सकलाशापाशनाशावकाशम् । निटिलतटतडिद्भूभूतभूतानुवेशं गिरिशमनिशमीशं संस्मरामि स्मरामि ॥ ३॥ (स्मरारिम्) शिव हर भव शम्भो भर्ग भीम स्मरारे त्रिपुरहर यमारे घोररूपान्धकारे । परिहर दुरितं मे पाहि पाहीति धन्यो जपति मुहुरपारानन्दसन्दोहकन्दम् ॥ ४॥ कमलविमलबिल्वाराधितं शङ्गसङ्गं करतलकमलश्रीसंश्रितं भावलिङ्गम् । कलय कलय चेतश्चारुचामीकराङ्गं सकलभयविभङ्गं मङ्गलाङ्गानुषङ्गम् ॥ ५॥ हिततरमिदमेकं चिन्तनीयं मनस्ते किमपि कितववार्तावर्तनं तद्विहाय । प्रतिपदमभिलापादोषवेषापहारं कुरु कुरु निगमानां भावलिङ्गं शुभाङ्गम् ॥ ६॥ इदमिह हितवाञ्छातीतमच्छं फलं ते वितरति नवबिल्वाराधितं भावलिङ्गम् । विमलकमललेशाराधितं वा प्रदोषे किमपि किमपि कार्यं चिन्तनीय मनो मे ॥ ७॥ मम हितमिदमेकं वाञ्छितार्थप्रदान- प्रवणकरणमेतत् भावलिङ्गं सशाङ्गम् । सकलहितकराङ्गं पापसङ्घातभङ्गं करकलिततुरङ्गासङ्गतुङ्गं सुखाङ्गम् ॥ ८॥ इदमिह कमलानां मालया पूजितं चेत् कलयति कमलानां वाससंवादमोदम् । इदमिह वसतिर्मे तत्तदेतत् तवेदं तव तव तदिति श्रीसंश्रितं भावलिङ्गम् ॥ ९॥ मम हितमिदमेतत् प्रायशः पूरयिष्य- त्यहितममितदैन्यं वारयिष्यत्यमोघम् । सकृदपि हृदयाब्जारूढमेवास्ति गूढं दृढमिति दृढभक्तिर्भावलिङ्गे शुभाङ्गे ॥ १०॥ संसाराब्धिविशोषणाय विविधाघौघान्धकाराचल- प्रध्वंसाय विपत्कुलानलकुलापाराम्बुरूपाय ते । भो शङ्गामलभावलिङ्गनिलयामेयप्रभाव प्रभो शम्भो भर्ग भवाब्धिभावक कृतः कोऽपि प्रणामोऽधुना ॥ ११॥ आशापारविनाशनाय विविधापारापदाधिव्यथा- धाराध्वान्तनिवारणाय निगमश्रेणीप्रमोदाहृतम् । वन्दे सुन्दरभावलिङ्गनिलयं मृत्युञ्जयं चाव्ययं नित्यानन्दमयं निरामयमहं मोहं विहायाधुना ॥ १२॥ अश्रान्तश्रुतिकोटिकोटिविदितश्रीभावलिङ्गार्चन- व्यापारप्रभवं प्रभुत्वमभयं चादृष्टमव्याकुलम् । तद्भिन्नं सकलं भयाकुलमिति ज्ञेयं ततः सर्वथा कर्तव्यं खलु भावलिङ्गभजनं सौभाग्यसंवर्धनम् ॥ १३॥ अन्यत् किञ्चिदिहोच्यते मुहुरिदं सङ्गोपनीयं सुरैः सर्वैरप्यनिशं शिवार्चनशिवध्याने निधाने परे । तेनैवाखिलसिद्धयः प्रतिदिनं संवादमोदैश्चिरं हारं सुन्दरमन्दिरं हरपदाधारं श्रिताः सादरम् ॥ १४॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं भावलिङ्गमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। ८८-१०१ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 88-101 .. Proofread by Ruma Dewan
% Text title            : Nandikeshaproktam Bhavalinga Mahimanuvarnanam
% File name             : bhAvalingamahimAnuvarNanaMnandikeshaproktam.itx
% itxtitle              : bhAvaliNgamahimAnuvarNanaM nandikeshaproktam (shivarahasyAntargatam)
% engtitle              : bhAvalingamahimAnuvarNanaM nandikeshaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 42| 88-101 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org