भावलिङ्गमहिमानुवर्णनम्

भावलिङ्गमहिमानुवर्णनम्

श्रीमन्निर्मलभावलिङ्गममराराध्यं प्रसन्नं सदा पूज्यं मत्कुलसम्भवैरनुदिनं त्यक्त्वाऽन्यदेवार्चनम् । एवं शङ्करशासनं च न समुल्लङ्घयं शिवासंयुतः शम्भुर्नृत्यति लिङ्गमेतदमलं दृष्ट्वा सुराभीष्टदः ॥ १॥ एतद्दर्शनमात्रतोऽपि सकलाभीष्टाम्बुराशिः स्वयं नित्यं स्वाङ्गणमेत्य भावललितं लिङ्गं प्रपश्यत्ययम् । स्वामिन् अस्य वशे वसामि तव चेदाज्ञा त्वदाराधकं त्यक्त्वाऽन्यत्र न संवसामि शपथः शम्भो त्वदङ्घ्र्यम्बुजे ॥ २॥ त्वत्पादाम्बुरुहं विहाय न कदाप्यन्यत्र गन्तुं मतिः शम्भो निर्मलभावलिङ्गसदृशं लिङ्गं क्व वा भूतले । पातालेऽपि न मन्दरेऽपि सुतरां मेरौ महेशालये सत्यं सत्यमिदं पुनः पुनरिन्दं सन्देहवार्ताऽपि न ॥ ३॥ कल्याणानि पदे पदे सुखमपि स्वामिंस्त्वदाराधने सिद्धानामपि सिद्धिदं बहुविधाभीष्टप्रदानोन्मुखम् । नित्यं शङ्करभावालिङ्गमधुना सिद्धिप्रदं जातम- प्यग्रे सिद्धिकरं करोति सततं सिद्धिप्रसिद्धिं प्रभो ॥ ४॥ शेषाशेषफणामणिस्फुरदुरु श्रीकण्ठकण्ठ प्रभो गङ्गा तुङ्गतरङ्गति क्वचिदयं लिङ्गैकदेशे पुनः । आनीला यमुना तरङ्गति पुनः सा वाक् तरङ्गत्यहो सा वाचां विषयो भवत्यपि कथं श्रीनीलकण्ठ प्रभो ॥ ५॥ लिङ्ग मङ्गलदं मनोरथततिं तावत् तनोत्यादरात् आदौ दृष्टमदृष्टभेदजनकं सृष्टं विसृष्टं फलम् । तद्भक्तप्रणतं प्रपश्यति मुहुः चिन्तासमालिङ्गितं ध्यातं पूजितमप्यनन्यसदृशं देयं किमस्तीत्यपि ॥ ६॥ अन्यालोकनदूनमस्य नयनाम्भोजं मदालोकन- प्रेमाविष्करणप्रभाकरसमुत्फुल्लं किमस्मै मया । दातव्यं भुवनत्रयेऽपि न तथा भूतं फलं दृश्यते धर्माद्यर्थचतुष्टयान्यदधिकं देयं न दृष्टं फलम् ॥ ७॥ शाठ्येनाप्यथ माययापि सकृदप्यालोकितं दैवतं सर्वाभीष्टफलप्रदत्वमभवत् यद्भावलिङ्गस्य मे । तस्यैतस्य किमस्ति देयमसकृत् सानन्दमालोकने शैवायेत्यतिचिन्तया परमिदं कालं नयत्यन्वहम् ॥ ८॥ यः पश्यत्यसकृन्मुदा परमिदं मे भावलिङ्गं प्रगे भक्त्या तद्वशतामुपेत्य निवसाम्यन्यन्न कृत्यं च मे । तस्यास्मिन्नधमर्णतामुपगते मय्यप्यदेये स किं कर्तुं पारयतीति पापविमुखश्चिन्ताब्धिमध्यं गतः ॥ ९॥ धर्माद्यर्थचतुष्टयाधिकफलापेक्षा न भक्तस्य मे यद्यप्यस्ति तथाप्यनन्यसदृशं किं न प्रदेयं फलम् । मत्पूजानिरताय तन्मम न चेत् किं देयमित्यन्वहं चिन्तासिद्धिसमृद्धिरेव बहुधा मत्पूजनाभ्युच्चये ॥ १०॥ यत्किञ्चिज्जलमल्पमप्युपहृतं भक्त्या विनाप्यर्पितं दास्यत्येव फलानि निर्मलजलैरासेचने किं फलम् । देयं कोमलबिल्वपल्लवनवाम्भोजादिभिः पूजने किंवा देयमिति प्रशान्तिरहिता चिन्ता न जातापि किम् ॥ ११॥ किञ्चिच्चेद् अपरिष्कृतान्नमपि मे दद्यात् तदा तत्फलं स्यादस्यान्नपतित्वमुत्तममधुक्षीराज्यदध्यन्नदः । मह्यं किं फलमाप्नुयादिति न किं चिन्ताऽपि मे जायते जाता वृद्धिपरम्परामुपगता सद्भावलिङ्गस्य मे ॥ १२॥ दिव्यैः कुङ्कुमकेसरैर्मृगमदेः कर्पूरखण्डैर्नवेः अन्यैरप्यतिगन्धसुन्दरर नद्रव्यैः युतं चन्दनैः । दत्तं चेत् तुहिनान्वितं मयि तदा देयं मया किं फलं शैवायेति विचारसागरमहाकल्लोलमालाकुलः ॥ १३॥ यो नित्यं नवपट्टकूलवपनैः धूपैः प्रदीपैर्मुहुः माणिक्याभरणार्पणेन विलसच्छत्रस्तथा चामरैः । आदर्शैः ध्वजसंयुतैरपि महापूजां करोत्यादरात् तस्मै किं मम देयमित्यनुदिनं चिन्ता निरन्ता न किम् ॥ १४॥ यो भक्त्या प्रणतो निधाय धरणीपृष्ठे शिरः सादरं तं देवाः प्रणमन्ति तावदसकृत् दण्डप्रणामोद्यताः । किं तावत्फलमाप्नुयादिति न किं चिन्ताऽपि मे जायते गन्धाधिष्ठितभावलिङ्गनिलये वेदप्रमेये मयि ॥ १५॥ यो भक्त्या नियतः प्रदोषसमये पञ्चामृतैर्निर्मलैः नीरैरप्यभिषिच्य वस्त्रविमलश्रीचन्दनालेपनैः । पुष्पैश्चम्पकमालिकाभिरभितः श्रीभावलिङ्गार्चनं कृत्वा नृत्यति तन्मनस्यनुदिनं वृत्तिर्हि मे चिन्तया ॥ १६॥ रुद्राध्यायसहस्रनामपठनैः मत्सन्निधाने नयेत् यः कालं स विभूतिपूतहृदयो मुक्तो महापातकैः । स्यादित्यत्र किमद्भुतं शिवमनुस्मृत्याऽपि तत्सन्निधिं यास्यत्याप्ततमत्वमेष्यति न सन्देहोऽत्र चित्रं च किम् ॥ १७॥ मां द्रष्टुं यदि जायते मतिरपि प्रातः प्रमोदान्वितो मुक्तः पापगणैरपारसुकृतैः युक्तः स मां पश्यति । आधारः सुखसम्पदामपि भवत्यायुः परं प्राप्नुयात् आरोग्यं निगमागमादिविहितं श्रीभावलिङ्गार्चने ॥ १८॥ यो मद्भक्तपदार्चकः सकृदपि प्राप्नोति शैवं पदं मत्पूजानिरतो भवेद्यदि तदा वक्तव्यमत्रास्ति किम् । तस्मादन्वहमर्चनीयममलं श्रीभावलिङ्गं गणैः आराध्यं तदनन्यसक्तमनसा सन्त्यज्य धर्मान्तरम् ॥ १९॥ किं तैरध्वरकोटिभिर्बहुविधद्रव्यापहारोद्यतैः दानैः सामपदक्रमादिसहितैः किं वेदपारायणैः । किं योगैस्तपसाऽपि किन्तु सकृदप्यश्रद्धयाऽप्यर्चितं दास्यत्येव हि भावलिङ्गममराः प्राप्यातिभाग्यान्यपि ॥ २०॥ श्रीमृत्युञ्जय भावलिङ्गनिलयापायामयानां लयः त्वन्नामस्मरणोद्यमे सति परं वृत्तः पुनरतद्भयम् । न स्वप्ने प्रलयेस्पि नापि मरणेऽप्यस्यान्तकाद्वा भयं तेनेत्थं दृढनिश्चये सति फलं किं नामसङ्कीर्तने ॥ २१॥ भो शम्भो भव भावलिङ्गनिलय त्वत्पूजनोद्योगिनं लक्ष्मीस्तावदुपेत्य किं तव मतं वाञ्छाऽस्ति ते कुत्र वा । अक्लेशाङ्गणरिङ्खणप्रणतिभिः स्थेयं मया त्वद्गृहे स्वामिन्नित्यपधावतीति भगवन् किं किं फलं पूजने ॥ २२॥ त्वत्पूजानिरतातिशाङ्करपुरद्वारेषु तावत् सुराः सानन्दाञ्जलिमस्तकाः प्रतिदिनं तद्दर्शनाकाङ्क्षया । तिष्ठन्त्यत्र किमद्भुतं त्वयि महादेवे प्रसन्ने फलं किं किं नास्य भविष्यति प्रतिदिनं श्रीभावलिङ्गालये ॥ २३॥ आशास्यं मम भावलिङ्ग सकलं सिद्धं त्वदन्याश्रयं व्यावृत्तं यदि मानसं तदिति ते ध्यानेन किं पूजया । किं वा त्वत्परिचर्ययापि फलमित्यस्मिन् विचारे कृते तावव्द्याकुलता न ते भवतु सा त्याज्येति सम्प्रार्थ्यते ॥ २४॥ एतावद्वद भावलिङ्गनिलय स्वामिन् ममाद्यावधि त्वत्पादाम्बुरुहान्यचिन्तनपरावृत्तं विकारैर्विना । चेतस्तत्पुरुषार्थभिन्नमपि ते देयं ममास्त्वित्यपि प्रत्याशा शिवपूजनस्य फलमस्त्यन्यन्मम स्यादिति ॥ २५॥ किं नम्रामरभूरुहैः निजगृहद्वाराश्रितैराश्रितैः किं चिन्तामणिकामधेनुनिवहैः किं वा निधीनां गणैः । आकल्पं कमलापतिप्रभृतिभिः वृन्दारकैराश्रितैः आनम्राञ्जलिमस्तकैरनुदिनं श्रीभावलिङ्गार्चने ॥ २६॥ ॥ इति शिवरहस्यान्तर्गते भावलिङ्गमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। १८१-२०६ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 181-206 .. Proofread by Ruma Dewan
% Text title            : Bhavalinga Mahimanuvarnanam
% File name             : bhAvalingamahimAnuvarNanam.itx
% itxtitle              : bhAvaliNgamahimAnuvarNanam (shivarahasyAntargatam)
% engtitle              : bhAvalingamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 36| 181-206 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org