भवभञ्जनस्तोत्रम्
श्रीगणेशाय नमः ॥
रदच्छधाधःकृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः ।
कैलासशृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ १॥
राकाशशाङ्खप्रतिमानकान्तिः कोकाहितप्रोल्लसदुत्तमाङ्ग ।
शैलेन्द्रजालिङ्गितवामभागोधुनोतु शीघ्रं भवबन्धमीशः ॥ २॥
य इदं परमं स्तोत्रं भवभञ्जननामकम् ।
सम्पठेत् प्रातरुत्ताय शुचिर्भूत्वा समाहितः ॥ ३॥
भवदुःङ्कविनिर्मुक्तो जायते सुरपूजितः ।
न पुनर्लभते जन्म भुवि शम्भुप्रसादतः ॥ ४॥
इति भवभजनस्तोत्रं सम्पूर्णम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com