बिल्ववृक्षमहिम्नवर्णनम्

बिल्ववृक्षमहिम्नवर्णनम्

महादेवस्वरूपोऽयं बिल्वो वेदैरपि स्तुतः । यथाकथञ्चिदेतस्य महिमा ज्ञायते कथम् ॥ १॥ वनमेतत् पावनं च बिल्वेनानेन केवलम् । एतद्वातानुषङ्गेन लिङ्गमङ्गं प्रजायते ॥ २॥ पुण्यतीर्थानि यावन्ति लोकेषु प्रथितान्यपि । तानि सर्वाणि तीर्थानि बिल्वमूले वसन्ति हि ॥ ३॥ बिल्वमूलजलैर्यस्तु मूर्धानमभिषिञ्चति । स सर्वतीर्थस्नातः स्यात् स एव भुवि पावनः ॥ ४॥ बिल्वमूले महादेवं लिङ्गरूपिणमव्ययम् । यः पूजयति पुण्यात्मा स शिवं प्राप्नुयात् ध्रुवम् ॥ ५॥ बिल्वमूळे प्रजप्तास्तु मन्त्राः सिद्धिमुपागताः । तन्मन्त्रमहिमा तावत् ज्ञायते शङ्करेण हि ॥ ६॥ शक्तिहीनोऽपि यो मन्त्रो बिल्वमूलेषु जप्यते । स सिद्धः सकलं दद्यात् यदि माहेश्वरप्रियः ॥ ७॥ बिल्वरूपं समासाद्य शिव एवं स्वयं प्रभुः । लोकानामुपकराय वनेऽस्मिन्नधितिष्ठति ॥ ८॥ एतस बिल्वमूलस्याप्यालवालमनुत्तमम् । जलाकुलं महादेवो दृष्ट्वा तुष्टो भविष्यति ॥ ९॥ गन्धपुष्पादिभिः सर्वैरुपचारैः प्रयत्नतः । यो बिल्वं पूजयेद्भक्त्या सन्ततिस्तस्य वर्धते ॥ १०॥ दीपमालां बिल्वमूले यः कल्पयति सादरम् । स तत्त्वज्ञानसम्पन्नो महेशान्तर्गतो भवेत् ॥ ११॥ प्रदक्षिणनमस्कारान् बिल्वमूले प्रयत्नतः । ते पापपर्वतानां नाशकाः स्युर्त संशयः ॥ १२॥ नमस्कार्यत्वबुद्ध्या यः प्रणतो दण्डवद्भुवि । तस्मात् पतन्ति पापानि नोत्तिष्ठन्ति कदाचन ॥ १३॥ बिल्वशाखां समादाय हस्तेन नवपल्लवम् । गृहीत्वा पूजयेद्बिल्वं तेन पापैः प्रमुच्यते ॥ १४॥ बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः । एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ १५॥ बिल्वमूले क्षीरयुक्तमन्नमाज्येन संयुतम् । यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ १६॥ ॥ इति शिवरहस्यान्तर्गते बिल्ववृक्षमहिम्नवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २२। ५९-७४ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 22. 59-74 .. Proofread by Ruma Dewan
% Text title            : Bilvavriksha Mahimnavarnanam
% File name             : bilvavRRikShamahimnavarNanam.itx
% itxtitle              : bilvavRikShamahimnavarNanam (shivarahasyAntargatam)
% engtitle              : bilvavRikShamahimnavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 22| 59-74 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org