ब्रह्मणा कृतं शिवस्तोत्रम्
ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै सततं नमः ॥ १॥
ॐ नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।
महेशाय नमस्तुभ्यं मूलप्रकृतये नमः ॥ २॥
नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ॥ ३॥
नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ॥ ४॥
नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।
नमोऽस्तु ते प्रकृतये नमो नारायणाय च ॥ ५॥
योगादायै नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ॥ ६॥
नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।
नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ ७॥
ओङ्कारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ ८॥
इति कूर्मपुराणे उत्तरभागे एकत्रिंशाध्यायान्तर्गतं
ब्रह्मणा कृतं शिव-पार्वतीस्तोत्रं समाप्तम् ।
कूर्मपुराणे उत्तरभागे ३१/४९-५८
Proofread by PSA Easwaran