ब्रह्मतर्कस्तवः

ब्रह्मतर्कस्तवः

॥ श्रीः ॥ उच्चावचैरुपनिषद्वचनप्रकाण्डै- रुन्मीलितश्रुतिगणैरुपबृंहणैश्च । यत्सादरं समुदितं यमिनामुपास्यं तद्ब्रह्म शङ्करभवानिति तर्कयामः ॥ १॥ यद्ब्रह्मलक्षणतया श्रुतिसूत्रसिद्धं तत्कारणत्वमनुमोदितया शिखाद्यैः । अत्याश्रमोपनिषदा हर चोदितानि त्वय्येव कारणवचांसि समर्पयन्ति ॥ २॥ पुष्पेषुशासन पुराणगिरोऽप्यनल्पा- स्त्वं ब्रह्म नेतर इति प्रतिपादयन्ति । शब्दार्थयोरधिगतादधिकैकरूप्या- न्मूलश्रुतीरपि शिवस्ववशं नयन्त्यः ॥ ३॥ द्वैपायनः स भगवानितिहासरत्ने धर्मात्मजे विटपिरूपकमादधानः । ब्रह्मेति शङ्कर गिरा व्यपदिश्य मूलं त्वं ब्रह्म शाश्वतमिति प्रकटीचकार ॥ ४॥ विष्णुर्द्विजाश्च विषमाक्ष पृथग्गृहीता वेदस्तपोऽपि च न चेतनमध्ययोग्यम् । वाच्या च तत्स्थितिकृति क्वचिदस्य वृत्ति- र्मूलत्वरूपणवशादिति निर्विशङ्कम् ॥ ५॥ साह्येन कृष्ण इव तस्य हि राज्यसिद्धा - वाशीर्मुखेन मुखजा इव च त्वमीश । मूलं कपालधर नित्यमनुग्रहेण तन्मध्यपाठविषयस्तदसि त्वमेव ॥ ६॥ कैरातपर्वणि तुरङ्गममेधवृत्ते कैलासशैलगमने शतरुद्रिये च । सौषुप्तिकादिषु च शङ्कर पाण्डवेषु सानुग्रहत्वमधिकं हि तव प्रसिद्धम् ॥ ७॥ प्रत्यक्षमेव भवता निहता कुरूणां सेना ततस्तु निहता मघवत्सुतेन । युक्तं किमेतदतिशायि युधिष्ठिरार्थे मूलं त्वदन्यदिह मुग्धमृगाङ्कमौले ॥ ८॥ उक्तं मयैव निहता इति शौरिणा य- त्तत्रैवतो विजय एव परं निरास्यः । साह्यं स शौरिरपि यस्य बलेन चक्रे तेषां महेश तव तस्य कथं निरासः ॥ ९॥ यद्देव दर्शितवता हरिणा तथोक्तं तद्विश्वरुपमपि तावकमेव मन्ये । पार्थाय नाथितवते पररुपदृष्टिं तेन त्रिलोचन तदेव हि दर्शनीयम् ॥ १०॥ युक्तं तदेतदत एव हि मोक्षधर्मे तेनार्जुनं प्रति निजं वपुरास्थितेन । देवेन तेन निहतान्हतवानसीति त्वय्येव तद्वचनपर्यवसानमुक्तम् ॥ ११॥ प्रागुक्तसर्वमहिमोपचितं हि तत्र रूपं परं शिव दिदृक्षितमर्जुनेन । गीतोदितश्च महिमा सकलोऽपि नाथ स्पष्टं त्वदीय इति कौर्मगिरा प्रतीमः ॥ १२॥ गीतासु यच्छरणमीश्वरमेव कुर्वि- त्युक्तं सुरेन्द्रतनयं प्रति माधवेन । उक्त्वा करिष्य इति तेन तवैव पूजा यच्च व्यतन्यत ततोऽपि तथा प्रतीमः ॥ १३॥ अङ्गुष्ठमात्रमधिसूत्रगणं पुमांसं ब्रह्मेति यच्छुकगुरुः स विनिर्णयाय । ईशान इत्यभिधया त्वयि कॢप्तरूढ्या त्वां ब्रह्म तेन च शिव स्फुटयाञ्चकार ॥ १४॥ एवं प्रमाणपरिपाटिकया विशाङ्कं ब्रह्म त्वमित्यवधृतेऽपि जलन्धरारे । आरोपितैस्त्वयि परं जननादिदोषै- स्त्वं ब्रह्म नेति वदतः प्रतिबोधयामः ॥ १५॥ कल्पादिषु द्रुहिणकेशवरुद्ररूपै- स्त्वत्तस्त्वमेव भगवन्प्रविभागमाप्तः । तैरेव तेषु विषमाक्ष परस्परस्मा- दाविर्भवन्ननुकरोषि जयैषिवृत्तिम् ॥ १६॥ देव त्वमेव निटिलाद्यदि धातृविष्ण्वो- राविर्बभूविथ ततस्तव को निकर्षः । नासापुटान्न हि विधेर्न च तस्य पौत्रा- ज्जातोऽसि विष्णुरिव नापि मनुष्यमात्रात् ॥ १७॥ नास्त्येव ते पुरुषवीर्यकणानुषक्ति- र्न स्त्रैणगर्भवसतिर्न च योनिजत्वम् । व्यक्त्या परं क्वचन ते शिव यद्यवद्य- मेतैः कियत्खलु विभो न भवेन्मुरारेः ॥ १८॥ अभ्यर्थनोपगमपूर्वमकर्मवश्य- मावेदयद्भिरवतारमिमं समस्तम् । पौराणिकैः प्रकटिता परिहाररीति- र्विश्वेश हन्त विदिताविदिता खलानाम् ॥ १९॥ कालाग्निरुद्रवपुषा भगवन्भवार्ति कल्पावसानसमयेषु हरञ्जनानाम् । गृह्णासि शङ्कर तमः करुणैकमूर्तिः शस्त्रं नृणां व्रणरुजं शमयन्निव त्वम् ॥ २०॥ निद्रालुता न तव शङ्कर शक्यशङ्का क्रौर्यं किमप्यनुचिते विषये न दृष्टम् । नान्योऽपि कश्चन गुणस्तमसो विकारः शङ्कया कथं तव बुधैस्तमसाभिभूतिः ॥ २१॥ सत्त्वप्रवर्तनकरस्त्वमसि प्रतीतः सत्त्वं तनुश्च तव सत्त्वमयश्च यत्त्वम् । एतावदद्रितनयाधिप सात्त्विकत्वं किं सम्भवेत्क्वचन तामसताविरोधि ॥ २२॥ उग्रस्त्वमुत्तरतया जगतः समस्ता- द्भूयासमुग्र इति तत्परता हि दृष्टा । भीमोऽसि शङ्कर नियन्तृतयाऽखिलानां वेदः प्रणौति यत एव महद्भयं त्वाम् ॥ २३॥ सङ्ख्यातिशायिगुण सत्त्वनिधिस्त्वमेव ज्ञानं सुखं च यदि सत्त्वगुणादवाप्यम् । जानीमहे तदुभयं त्वदधीनमीश जाबालसूनृतमुखैर्ननु जन्मभाजाम् ॥ २४॥ विद्याप्रदं वरद विश्वसिमः कमन्यं विद्याधिपे भवति विश्वगुरौ प्रतीते । सर्वज्ञनामनि समुन्मिषदिन्दुचूडे सव्यार्धविग्रहसमाकलितात्मविद्ये ॥ २५॥ शम्भुः श्रुतोऽसि ननु तृप्तिविरागशाली वैराग्यचिह्नभरितश्च महेश्वरस्त्वम् । तं त्वामपारसुखसागरमन्तरेण कस्मात्सुखं भवितुमर्हति देहभाजाम् ॥ २६॥ यज्जीवरत्नमखिलागमलालनीयं ये च त्रिनेत्र मृडशङ्करनामधेये । एतैरपि स्फुटमनन्यसमाश्रयं ते विख्याप्यते सकलजीवसुखप्रदत्वम् ॥ २७॥ यत्पाशुपत्यमवृणोरिति नित्यवाणी शंसत्यवैमि तत एव तदीश नित्यम् । नित्यं यदिष्टहविरादिविधिस्तवाय तस्यैव कल्पयति सा हि वरेण लाभम् ॥ २८॥ शक्नोति नैव पशुपाशपतीन्विवेक्तुं मुक्तः कथं भवति मोहित एष लोकः । इत्याकलय्य भगवन्यदि वा वरेण स्पष्टीचकर्थ तदिदं किमु दूषणाय ॥ २९॥ किं तेऽथ वा वरवृतेः फलचिन्तनेन लीलैव शूलधर सन्ततमीदृशी ते । उद्दिश्य किं फलमवाप्तसमस्तकामः शश्वत्सृजस्यवसि संहरसि प्रपञ्चम् ॥ ३०॥ आगन्तुकं यदि भवेत्तव पाशुपत्य- मर्थोऽपि निस्तरति नानुपपत्तिसीमाम् । संसारिणो हि सकलाः पशवो निरुक्ताः स्यादादिमत्कथमधीश्वर तत्पतित्वम् ॥ ३१॥ आस्तां पतित्वमदसीयमिदं पशुत्वं नार्हत्यधीश कथमप्न्यधुनातनत्वम् । यद्यस्ति तस्य वरणश्रवणेषु काचि- न्निर्वाहरीतिरपरा न किमत्र सा स्यात् ॥ ३२॥ मायादिपाशदृढबन्धविमोहितानां यत्स्वामिकर्मकरणं यजनादिरूपम् । गौणं पशुत्वमिदमेव हि देहभाजा- मेतच्चराचरपते कथमादिमत्स्यात् ॥ ३३॥ त्वामामनन्ति परमीश्वरमीश्वराणां त्वां दैवतं च परमं खलु दैवतानाम् । त्वामेव नाथ परमं च पतिं पतीनां कस्मादृतं वरद विश्वसिमो वरं ते ॥ ३४॥ गङ्गा धृता न भवता शिव पावनीति नास्वादितो मधुर इत्यपि कालकूटः । संरक्षणाय जगतां करुणातिरेका- त्कर्मद्वयं कलितमेतदनन्यसाध्यम् ॥ ३५॥ गङ्गापि नैव भवता करिचर्मधारि करिचर्मधारि- न्मूर्ध्ना धृता मधुरिपोश्चरणात्क्षरन्ती । किं तु प्रसादनपराय भगीरथाय दत्त्वा वरं शतधृतेः सदनात्पतन्ती ॥ ३६॥ सापि त्वदङ्गपतिता नितरां पवित्रा जाता ततस्त्वदभिषेकजलोपमेति । स्वर्लोकवासिभिरनन्तरमादृतासी- द्ये मूर्धभिर्दधाति ते चरणावसृष्टम् ॥ ३७॥ उज्जृम्भणे यदुकुलाधिपतेरुदास्था बालेन्दुशेखर पुरा किल बाणयुद्धे । एतावता विकलतां तव विक्रमस्य लोके खलाः कतिचिदीश्वर कल्पयन्ति ॥ ३८॥ ओजीयसामसि वरः स्थिरकार्मुकोऽसि भीमोऽसि सर्वजगतामखिलेश्वरोऽसि । इत्थं त्वयि श्रुतिशतैः परिगीयमाणे किं नाम जल्पति जनः शिव किम्पचानः ॥ ३९॥ कल्पान्तरद्रुहिणकोटिकरोटिमाला- भस्माङ्गरागकमठाङ्गवराहश‍ृङ्गैः । आकल्प एव तव मङ्गलविग्रहस्य सर्वोत्तरं तव बलं किमु न व्यनक्ति ॥ ४०॥ यस्यांशकैः शरभभैरववीरभद्रै- रामर्दिता हरिविरिञ्चपुरन्दराद्याः । विश्वेश तस्य तव विक्रमभूरिभावे साक्ष्यं त एव समुपाददते किमन्यैः ॥ ४१॥ कल्पद्रुमाहरणषट्पुरशासनादि यद्दत्तयैव यदुराडतनिष्ट शक्त्या । तस्मिञ्शिव प्रतिहतिं तव पौरुषस्य मूर्खोदितां बत स एव कथं सहेत ॥ ४२॥ शप्तस्त्वया शतमखस्य रिपुः स युद्ध- मभ्यर्थयन्नसुरभावविलोपनाय । मत्तुल्य एव समरे मदमस्य दोष्णां कण्डूभरोत्थमचिरादपनेष्यतीति ॥ ४३॥ देव्या च देव वचनं तव निर्वहन्त्या सम्पादिता समरसम्पदुषानिदाना । यत्र त्वया हरिमुखेण भुजावलेपा- त्प्रच्याव्य सैष निहितः प्रमथाधिपत्ये ॥ ४४॥ शैली च ते समुदिता शशिखण्डचूड भक्ते विभावयसि यद्भवतोऽधिकत्वम् । आदाय चक्रमभिदिव्यनदीतनूजं यामेव सोऽप्यनुससार यदुप्रवीरः ॥ ४५॥ दत्तं च शौर्यमधिकं भवतैव तस्मै तच्चेन्महेश कलयापि न पालयेथाः । आशङ्कय वाक्यमखिलं भवतो मृषेति वेदागमेष्वपि जना विमुखा भवेयुः ॥ ४६॥ एतैस्त्वया गिरिश हेतुभिरेव तस्मि- न्नाविष्कृतं किमपि तत्सहजं न तेजः । कामान्धकत्रिपुरवासिजलन्धराद्यै- र्यस्मिन्दरप्रकटिते शलभत्वमाप्तम् ॥ ४७॥ दग्धे तवाक्षिदहनेन चराचरेऽस्मि- न्मत्वाखिलं भुवनमेव महाश्मशानम् । तत्र स्थितिं विबुधनाथ तवासहायां सन्तः श्मशानवसतिं समुदाहरन्ति ॥ ४८॥ सन्ध्यासु भूतगणभैरवभद्रकाली- संरम्भजन्मजगदापदपासनाय। तद्गोचरेषु पितृकाननभूमिषु त्वं तत्तादृशं गिरिश ताण्डवमातनोषि ॥ ४९॥ श्रीकण्ठ तावकचरित्ररहस्यरीति- मेतादृशीं क इव वेत्ति नरः सुरो वा । त्वन्नामरूपगुणचिन्तनपुण्यमेव व्याजेन केनचिदवाप्तुमिह श्रमो मे ॥ ५०॥ शश्वच्चेतो मम पशुपते शाल्मलीपुष्पतुल्या- नन्यान्देवानतिलघुफलप्रापकान्वर्जयित्वा । पदाम्भोजे तव परिमिलद्दिव्यभृङ्गावलीढे चन्द्रापीड श्रयतु सततं चञ्चरीकस्य लीलाम् ॥ ब्रह्मोपेन्द्रप्रमुखविनुत ब्रह्मतर्कस्तवोऽयं भक्तिग्राह्यस्तवमिति भगवन्निर्मितो भक्तिमात्रात् । पादद्वन्द्वे तव करुणया निर्गुणोऽपि त्वदीये पूजापुष्पप्रकरपदवीमेष पुष्णातु नित्यम् ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य- श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना श्रीमदप्पय दीक्षितेन कृतो ब्रह्मतर्कस्तवः सम्पूर्णः ॥ Encoded and proofread by Vani V
% Text title            : Brahmatarkastavah
% File name             : brahmatarkastavaH.itx
% itxtitle              : brahmatarkastavaH (appayyadIkShitavirachitaH)
% engtitle              : brahmatarkastavaH
% Category              : shiva, appayya-dIkShita, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Appayya Dixit
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vani V
% Proofread by          : Vani V
% Description/comments  : The scan includes the commentary/vyAkhyA by the author himself.
% Indexextra            : (Scan)
% Latest update         : February 3, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org