शिलादकृतचमकविधानवर्णनम्

शिलादकृतचमकविधानवर्णनम्

नमो नमस्ते गिरिजासहाय नमो नमस्ते सुकृतस्वरूप । नमो नमस्तेऽन्नपते महेश नमो नमस्तेऽस्तु नमो नमस्ते ॥ १॥ त्वत्पादाम्बुजभक्तिर्मे निश्चला भवतु प्रभो । त्वमेव शरणं शम्भो गतिस्त्वं जगतां प्रभो ॥ २॥ कर्माण्यस्य फलोन्मुखानि भगवंस्त्वत्पादपद्मं यतो दृष्टं दोषविवर्जितं सुखयुतं यावत्करोति स्वतः । तत्तावन्मुनिवृन्दमानसमनःपद्मप्रविष्टं प्रभो तन्मे मानसपङ्कजे क्षणमपि स्वामिन् प्रभो जायताम् ॥ ३॥ (मुदे जायताम्) वाजश्च मेऽस्तु प्रसवश्च मेऽस्तु त्वत्पूजया सा प्रयतिश्च मेऽस्तु । महेश्वरानुप्रसितिश्च मेऽस्तु धीतिश्च मेऽस्तु क्रतुरस्तु शम्भो ॥ ४॥ स्वरश्च मेऽस्तु स्वरदेश शम्भो श्लोकश्च मेऽस्तु श्रुतिगीतकीर्ते । श्रावश्च मेऽस्तु श्रुतिरस्तु शम्भो शिवाभिधानश्रवणाय नित्यम् ॥ ५॥ ज्योतिश्च मेऽस्तु ज्वलनस्वरूप सुवश्च मेऽस्तु त्रिपुरासुरारे । प्राणश्च मे तावदपानयुक्तो व्यानश्च मेऽसुव तथैव चित्तम् ॥ ६॥ आधीतं च तथा वाक्च मनश्चक्षुश्च मे प्रभो । श्रोत्रं दक्षो बलञ्चौञ्जः सहश्चायुश्च मे प्रभो ॥ ७॥ जरा चात्मा च मे शम्भो तनूः शर्म च वर्म च । अङ्गान्यस्थीनि भगवन् परूंषि च भवन्तु मे ॥ ८॥ शरीराणि भवन्त्वीश तानि रम्याणि मे प्रभो । ज्यैष्ठ्यं च मेऽधिपत्यं च मन्युर्भामश्च मे प्रभो ॥ ९॥ अमश्चाम्भश्च जेमा च महिमा वरिमा च मे । प्रथिमा चास्तु गौरीश वर्ष्मा च द्राघुया च मे ॥ १०॥ वृद्धं वृद्धिश्च सत्यं च श्रद्धा चास्तु जगत्त्रये । धनं वशाऽस्त्विषिञ्चास्तु क्रीडा मोदश्च मे प्रभो ॥ ११॥ जातं जनिष्यमाणं च सूक्तं मे सुकृतं च मे । वित्तं वेद्यं च भूतं च भविष्यच्च सुगं च मे ॥ १२॥ सुपथं ऋद्धमृद्धिश्च क्लृप्तं क्लृप्तिश्च मे मतिः । सुमतिः शं मयश्चास्तु प्रियं चास्तु शिवं शुभे ॥ १३॥ अनुकामश्च कामश्च शम्भो सौमनसं च मे । भद्रं श्रेयश्च वस्यं च यशो मेऽस्तु जगत्त्रये ॥ १४॥ द्रविणं चास्तु यन्ता च धर्ता क्षेमश्च मे धृतिः । विश्वं महश्च संविच्च ज्ञात्रं सूश्च प्रसूश्च मे ॥ १५॥ सीरं लय ऋतं चास्तु भगवन्नमृतं च मे । अयक्ष्मं चानामयं च जीवातुश्चापि मे सदा ॥ १६॥ दीर्घायुत्वानमित्रे च सर्वदाऽप्यभयं च मे । सुगं च शयनं सूषा सुदिनं चास्तु मे सदा ॥ १७॥ ऊर्क्च मे सूनृता चास्तु पयश्चास्तु रसश्च मे । घृतं मधु च सग्धिश्च सपीतिश्च कृषिश्च मे ॥ १८॥ वृष्टिच जैत्रमौद्भिद्यं रयिश्चास्तु सदापि मे । रायः पुष्टं च पुष्टिश्च विभु च प्रभु च प्रभो ॥ १९॥ बहु भूयश्च पूर्णं च तथा पूर्णतरं च मे । अक्षितिश्चास्तु भगवन् कूयवाश्च भवन्तु मे ॥ २०॥ अन्नमन्नपते मेऽस्तु तेनास्त्वक्षुच्च मे प्रभो । व्रीयश्च यवा माषाः तिला मुद्गाश्च मे शिव ॥ २१॥ खल्वाश्च सन्तु गोधूमाः मसुराश्च प्रियङ्गवः । अणवः सन्तु मे नित्यं श्यामाकाः सन्तु मे प्रभो ॥ २२॥ नीवाराद्याश्च मे सन्तु गृहे सर्वान्नकल्पकाः । अश्मा च मृत्तिका चास्तु गिरयः पर्वताश्च मे ॥ २३॥ सिकताः सन्तु भगवन् मे वनस्पतयश्च मे । हिरण्यमस्त्वयश्चास्तु तथा सीसं त्रपुश्च मे ॥ २४॥ श्यामं लोहं च मेऽग्निश्च गृहे तिष्ठन्तु सर्वदा । आपश्च वीरुधः सन्तु तथैवौषधयोऽपि मे ॥ २५॥ कृष्टपच्यं च बहुधा मम तिष्ठतु वेश्मनि । तथैवाकृष्टपच्यं च वनसम्भवमस्तु मे ॥ २६॥ गोमहिष्यादयो ग्राम्याः पशवः सन्तु मे गृहे । सदा यज्ञेन कल्पन्तामारण्याः पशवश्च मे ॥ २७॥ वित्तं वित्तिश्च भूतं च भूतिश्च वसतिर्वसु । शिवपूजादिकं कर्म शक्तिश्च शिवपूजने ॥ २८॥ एमश्चास्तु ममेतिश्च गतिश्चास्तु शिवार्चने । अग्निरिन्द्रश्च सोमश्च सविता च सरस्वती ॥ २९॥ पूषा बृहस्पतिर्मित्रः त्वष्टा च वरुणश्च मे । धाता च विष्णुरप्यस्तु गृहकर्मकरस्तु मे ॥ ३०॥ अश्विनौ च ममेशान तिष्ठतां सर्वदा गृहे । मरुतश्च प्रसर्पन्तु विश्वेदेवाश्च मे गृहे ॥ ३१॥ त्वदाज्ञावशगानेतान् अग्नीन्द्रादिसुरान् शिव । मद्वशान् कुरु विश्वेश दक्षान् मद्गृहकर्मणि ॥ ३२॥ अन्तरिक्षं च पृथिवी द्यौरप्यस्तु दिशश्च मे । मूर्धा प्रजापतिश्चास्तु मे भवत्कृपया भव ॥ ३३॥ अंशुश्च रश्मिरप्यस्तु मे दाभ्योऽधिपतिश्च मे । उपांशुरन्तर्यामश्च मम स्यादैन्द्रवायवः ॥ ३४॥ मे मैत्रावरुणश्चास्तु तथैवास्तु ममाश्विनः । प्रतिप्रस्थानशुक्रौ च मन्थी चाग्रयणश्च मे ॥ ३५॥ वैश्वदेवो ध्रुवश्चापि तथा वैश्वानरश्च मे । ऋतुग्रहाश्च मे सन्तु सातिग्राह्याश्च शङ्कर ॥ ३६॥ ऐन्द्रागा वैश्वदेवश्व ग्रहाः सोमोपयोगिनः । तथा मरुत्वतीयाश्च ग्रहाः सन्तु सदाऽपि मे ॥ ३७॥ माहेन्द्रश्च तथाऽऽदित्यः सावित्रश्चास्तु मे ग्रहः । सारस्वतश्च पौष्णश्च तथा पात्नीवतश्च मे ॥ ३८॥ सहारीयोजनश्चास्तु ममेध्मश्चास्तु सर्वथा । बर्हिवेन्दिर्धिष्णियाश्च स्रुवश्च चमसाश्च मे ॥ ३९॥ ग्रावाणः स्वरवः सन्तु तथैवोपरवाश्च मे । ते मे धिषवणे सन्तु ते द्रोणकलशश्च मे ॥ ४०॥ वायव्यानि च मे सन्तु पूतभृच्चास्तु मे प्रभो । तथैवाघवनीयश्च तदाग्नीध्रं च मे प्रभो ॥ ४१॥ हविर्धानं च मे स्वामिन् गृहाश्चैव सदश्च मे । पुरोडाशाश्च मे स्वामिन् पचताश्च भवन्तु मे ॥ ४२॥ तथैवावभृथः सन्तु स्वगाकारश्च मे प्रभो । अग्निर्घर्मश्च मेऽर्कश्च सूर्यः प्राणश्च मे प्रभो ॥ ४३॥ अश्वमेधश्च पृथिवी द्यौरप्यदितिरस्तु मे । मे शक्वरीरङ्गुलयो दिशश्च विदिशश्च मे ॥ ४४॥ तथा यज्ञेन कल्पन्तां ऋक् च साम च मे प्रभो । सोमो यजुश्च दीक्षा च तपश्चस्तु ऋतुश्च मे ॥ ४५॥ तथाऽहोरात्रयोर्वृष्ट्या व्रतं च नियमात्मकम् । बृहद्रथन्तरे यज्ञे कल्पेतां भाललोचन ॥ ४६॥ गर्भा वत्साश्च भगवन् त्र्यविश्चास्तु महेश्वर । त्र्यवी च मे दित्यवाट् च दित्यौही च सदाशिव ॥ ४७॥ पञ्चाविश्च महादेव पञ्चावी च त्रिलोचन । त्रिवत्सश्च त्रिवत्सा च तुर्यवाडस्तु मे प्रभो ॥ ४८॥ तुर्यौही पष्टवाट् चास्तु पष्ठौही च महेश्वर । उक्षा वशा च ऋषभो वेहोऽनड्वांस्तथास्तु मे ॥ ४९॥ धेनुरप्यस्तु भगवन् क्षीरायातिमनोहरा । यज्ञेन कल्पतामायुः प्राणो यज्ञेन कल्पताम् ॥ ५०॥ अपानोऽपि स यज्ञेन व्यानेन सह कल्पताम् । चक्षुः श्रोत्रं च यज्ञेन मनसा सह कल्पताम् ॥ ५१॥ वागात्मापि तथा यज्ञोऽप्येवं यज्ञेन कल्पताम् । त्वदधीनमिदं सर्वं तवेति प्रार्थितं मया ॥ ५२॥ सर्वस्वतन्त्रोऽसि महेश यस्मात् त्वमेव दाताऽसि तवापि देयाः । उक्ताश्च तावच्चमकेन देहि तानस्वतन्त्रान् शिवपूजकाय ॥ ५३॥ तेषां प्रदेयत्वविनिश्चयेन तान् देहि मां शिवपूजकाय । ते तावदस्मद्गृहकर्मयोग्याः योग्येन योग्यस्य किलान्यवोऽपि ॥ ५४॥ एते पदार्थाः प्रथितास्त्वदीयाः ते शर्व देयास्तव दानयोग्याः । अहं शिवराधनसक्तचित्तः को वा मदन्योऽस्ति स दानयोग्यः ॥ ५५॥ दातापि देयं सति दानयोग्ये विहाय कस्मै प्रददाति भक्त्या । विद्वानतो देहि महेश तान् मे लोके मदन्यस्तु न कोऽपि पात्रम् ॥ ५६॥ त्वद्दत्तमेतादृशभाग्यमेत्य त्वत्पादपूजानिरतो भवामि । प्रमादलेशोऽपि तदा न भावी भवे भवे त्वत्पदपूजकस्य ॥ ५७॥ मन्ये शङ्कर देवदेव भवतो दातृत्वमव्याहते (तव ते दातृत्वमव्याहते) तेनाग्निप्रमुखान् सुरानपि सदा तानस्वतन्त्रान् स्वतः । मह्यं देहि मदिच्छया परममी कुर्वन्तु कृत्यानि मे शक्तिर्यस्य यथा तथाऽस्ति भगवन् सर्वस्वतन्त्र प्रभो ॥ ५८॥ महाप्रभुः शम्भुरुमासहायो दयामयो भूतिमयोऽपि दाता । माता पिता मे सहितप्रदाता धाता विधाता न सन्दृक् (?) ॥ ५९॥ (परमोऽत्र सन्दृक्) देयत्वेन विनिश्चितास्तव सुराः सर्वेऽपि वेदैरमी दाता त्वं तव भाग्यमप्यविलयं भूयः समुज्जृम्भते । अस्माकं तु महाप्रभुः भव भवानेवेति चित्तं मुहुः स्वानन्दाम्बुधिवीचिकाऽतिचपला लीलाविलासास्पदम् ॥ ६०॥ ॥ इति शिवरहस्यान्तर्गते शिलादकृतचमकविधानवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३४। ११६-१७५ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 34. 116-175 .. Proofread by Ruma Dewan
% Text title            : Shiladakrita Chamaka Vidhana Varnanam
% File name             : chamakavidhAnavarNanaMshilAdakRRita.itx
% itxtitle              : chamakavidhAnavarNanaM shilAdakRitam (shivarahasyAntargatam)
% engtitle              : chamakavidhAnavarNanaM shilAdakRitam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 34| 116-175 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org