श्रीचन्द्रमौलिपञ्चकम् १
सदा मुदा मदीयके मनःसरोरुहान्तरे
विहारिणेऽघसञ्चयं विदारिणे चिदात्मने ।
निरस्ततोयतोयमुङ्निकायकायशोभिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ १॥
नमो नमोऽष्टमूर्तये नमो नमानकीर्तये
नमो नमो महात्मने नमः शुभप्रदायिने ।
नमो दयार्द्रचेतसे नमोऽस्तु कृत्तिवाससे
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ २॥
पितामहाद्यवेद्यकस्वभावकेवलाय ते
समस्तदेववासवादिपूजिताङ्घ्रिशोभिने ।
भवाय शक्ररत्नसद्गलप्रभाय शूलिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ३॥
शिवोऽहमस्मि भावये शिवं शिवेन रक्षितः
शिवस्य पूर्णवर्चसः समर्चये पदद्वयम् ।
शिवात्परं न विद्यते शिवे जगत् प्रवर्तये
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ४॥
मरन्दतुन्दिलारविन्दसुन्दरस्मिताननो-
न्मिलन्मिलिन्दववृन्दनीलनीलकुन्तलां शिवाम् ।
कलाकलापसारिणीं शिवां च वीक्ष्य तोषिणीं(णे)
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ५॥
॥ इति श्रीचन्द्रमौलिपञ्चकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan