श्रीचिदम्बराष्टकम् १
ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम् ।
कर्मनिवारणकौशललिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ १॥
कल्पकमूलप्रतिष्ठितलिङ्गं दर्पकनाशयुधिष्ठिरलिङ्गम् ।
कुप्रकृतिप्रकरान्तकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ २॥
स्कन्दगणेश्वरकल्पितलिङ्गं किन्नरचारणगायकलिङ्गम् ।
पन्नगभूषणपावनलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ३॥
सांबसदाशिवशङ्करलिङ्गं काम्यवरप्रदकोमललिङ्गम् ।
साम्यविहीनसुमानसलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ४॥
कलिमलकाननपावकलिङ्गं सलिलतरंगविभूषणलिङ्गम् ।
पलितपतंगप्रदीपकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ५॥
अष्टतनुप्रतिभासुरलिङ्गं विष्टपनाथविकस्वरलिङ्गम् ।
शिष्टजनावनशीलितलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ६॥
अन्तकमर्दनबन्धुरलिङ्गं कृन्तितकामकलेवरलिङ्गम् ।
जन्तुहृदिस्थितजीवकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ७॥
पुष्टधियस्सु चिदंबरलिङ्गं दृष्टमिदं मनसानुपठन्ति ।
अष्टकमेतदवाङ्मनसीयं अष्टतनुं प्रति यान्ति नरास्ते ॥ ८॥
इति श्रीनारायणगुरुविरचितं श्रीचिदम्बराष्टकं सम्पूर्णम् ।
Encoded by Shankara and P. S. Ramachandran
Proofread by Shankara, PSA Easwaran