श्रीचिदम्बरदीक्षितस्तोत्रम्
%२६
शि वः स्वयं भूमितलेऽवतीर्णः स्वयं हि धर्मः खलु येन चीर्णः ।
व शी द्विभार्योऽप्यभवद्विदीर्णरागो यदिष्टैस्तु भवोऽपि तीर्णः ॥ १॥
चि दम्बराख्यो भुवि दीक्षितो यः सदाज्यतासादितसिन्धुतोयः ।
दं भादिहीनान्भजकान्प्रपन्नानतारयद्वै विपदो विपन्नान् ॥ २॥
ब भूव यो लौकिककर्मकर्ता भर्ता द्विजानां खलगर्वहर्ता ।
र रक्ष धर्मं स हरावतारो मलापहातीरविहार्युदारः ॥ ३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीचिदम्बरदीक्षितस्तोत्रं सम्पूर्णम् ।