श्रीचिदम्बर शिवशक्ति ध्वनि मन्त्रस्तवः
श्रीगणेशाय नमः ।
श्रीचित्सभेशाय नमः ।
ॐ ह्रीं एह्येहि शिव शिव शरणं शिवानन्द
शिव शिव शिवाय शिवाय नमः एह्येहि ह्रीं ॐ ।
वाश्चारेट्-ध्वजधक्-धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेट्
गोराडारुरुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् ।
उड्वीड्रुङ्नरकास्थिसृक्त्रिदृगिभेडार्द्राजिनाच्छच्छदः
सस्तादम्बुमदम्बुदालिगलरुड्देवो नटाधीश्वरः (१) ॥ १॥
(१. वाश्चारेट् - वारिचरेशो मकरः । मकरध्वजधक् - कामदाहकः । धृत-
उडु - अधिपतिः -चन्द्रकलाधरः । कुध्राः - पर्वताः, तदीशो हिमवान्,
तज्जायाः भर्ता । गणानामीशः । गोराट् -वृषभः, तं आरुरुट् आरूढः ।
उरस्सराणां सर्पाणां ईशः । स एव उरु तरं बृहत्, ग्रैवेयकं तेन भ्राजते । उडूनां
ईशस्य रोगो यक्ष्मा, नरशिरोऽस्थ्नां माला च यस्य स्रक् - माला । त्रिदृक् -
ध्यक्षः । इभेट् - गजराजः, तच्चर्मधरः । अम्बुमदम्बुदालि गलरुक्
मेघवन्नीलकण्ठरुचिः । सः अरं शरणं स्तात् ।)
प्रलयाग्निप्रभं रौद्रं सहस्रशिरसा युतम् ।
द्विसहस्रकरं दीर्घं सकलायुधपाणिकम् ॥ २॥
साट्टहासं महाभीमं सर्वसंहारताण्डवम् ।
ध्यायेन्मायाञ्च एह्येहि ध्वनिमन्त्रं समुच्चरेत् ॥ ३॥
ओङ्कारपञ्जरावासं ओङ्काराकारभासुरम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ४॥
ह्रीङ्काररूपिणीनेत्र षडङ्घ्रिकमलाननम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ५॥
एजज्जगदधीशानं एधमानप्रभावलिम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ६॥
हिरण्मयसभान्तस्स्सथं हिमवत्तनयापतिम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ७॥
एणाङ्कज्वलनार्काशं एनोनाशकरं प्रभुम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ८॥
हिमोदचन्दनस्नाननिर्मलीकृतविग्रहम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ९॥
शिवं शिवप्रदातारं शितिकण्ठं शिवान्वितम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १०॥
वरिष्ठं सर्वदेवानां वरदं वशिसंस्तुतम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ११॥
शिशोः क्षीरप्रदातारं शिलादतनयार्चितम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १२॥
वसिष्ठभगिनीपूज्यं वलारिविजयप्रदम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १३॥
शरोद्भवस्य जनकं शरच्चन्द्रनिभाकृतिम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १४॥
रसारथं रसेशेषुं रविचन्द्ररथाङ्गकम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १५॥
णान्ता(२) दिक्कोद्यदर्णालिमृष्टसंशीतितापसम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १६॥
शिपिविष्टं श्रिया वन्द्यं शिष्टानामिष्टदायकम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १७॥
वाताशनेन्द्राभरणं वाताशवरपूजितम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १८॥
नन्दिना नगसंस्थेन नतं नारायणेन च ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १९॥
दन्तिचर्मपरीधानं दक्षाध्वरविनाशकम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २०॥
शिञ्जन्मञ्जीरपादाब्जदर्शनेन विमुक्तिदम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २१॥
वदान्यं सर्वदा नॄणां वल्मीकेशयभूषणम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २२॥
(२. णान्तादिक्का ढक्का वाद्यविशेषः ।)
शिलादाय स्वरूपाढ्यतनयप्रदमव्ययम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २३॥
वसुदेवसुताराध्यं वसुदानरतं विभुम् ।
चिन्तयामि महादेवं चिदम्बर सभानटम् ॥ २४॥
शिखाग्रविलसच्चन्द्र शीतीकृतदिगन्तरम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २५॥
वामदेवं वामदेहं वारिराशीषुधिं शिवम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २६॥
यविष्ठं यमिनां गम्यं यज्ञभोक्तारमीश्वरम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २७॥
शिरोभिरीडितं सर्वच्छन्दसां शिखिलोचनम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २८॥
वारिदालिलसत्कण्ठं वासवार्चितपादुकम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २९॥
यं विराढृदयान्तस्स्थं दृष्ट्वा मुक्तो भवेन्नरः ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ३०॥
नटराजं नदीशीर्षं नरनारायणार्चितम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ३१॥
मरुदादिजगत्सृष्टिकृदन्वेषितमस्तकम् ।
चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ३२॥
ध्वनिमनुस्तवमिमं विशेषतो नटपतेः पुरतः प्रतिवासरम् ।
पठति यः पुरुषार्थचतुष्टयं झटिति याति स शिवप्रसादतः ॥ ३३॥
आदावुदितषट्श्लोकीं प्रातिलोम्येन कीर्तयेत् ।
ब्रह्म मायां च एह्येहीत्युक्त्वा ध्वनिमनुं जपेत् ॥ ३४॥
इति श्रीचिदम्बर शिवशक्तिध्वनिमन्त्रस्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan