दधीचिकृतं शिवस्तोत्रम्
उक्षाधीश्वरकेतनं त्रिभुवनाध्यक्षं सुधाधामसत्खण्डोत्तं-
सितलोचनश्रवणजापारोरुहारप्रियम् ।
दिग्वासं वसतिप्रपञ्चहृदयागारप्रमोदास्पदं
मारागतिमपारवेदशिखरैरीड्यं भजे शङ्करम् ॥ २२.४७॥
हृदम्बुजचिदम्बरे दिवसनाथकोटिप्रभाविका-
सिकनकाम्बुजोद्भवपयोधितल्पान्तिमम् ।
प्रकृष्टनयनाम्बुजप्रथितपूज्यपादाम्बुजं भजामि
यमिहृत्सुधाविकसिताम्बुजोद्भासितम् ॥ २२.४८॥
(सदम्बुजभवासुताम्बुजसुकायदाहेक्षणं) ॥ २२.४८॥
मुधा सुधासाधनतोऽपि देवान्
खिन्नाननानुरुगरोद्धतकीलदग्धान् ।
मुग्धान् सुदुग्धप्रमतोऽम्बुधेस्तटे
देवानरक्षत भयेऽशरणान् शरण्यः ॥ २२.४९॥
मुग्धेन्दुचूडकरुणातरणिं विहाय
खद्योतवद्विधिहरीन्द्रमुखान् सुरांश्च ।
सेवन्ति गाढतमसैकविनाशहेतुं
मूढा हि ते दृढतरं मृडभक्तिहीनाः ॥ २२.५०॥
कन्दर्पदर्पशमनार्चनजातदर्पात् क्वायं
नृपः क्व च हरिः क्व च देवसङ्घाः ।
नेक्षे तं क्षितिपाधमं क्षतसुखं सापेक्षमीक्षे सदा
त्र्यक्षं दक्षसुपक्षपातसुरतासन्धुक्षिताधोक्षजम् ॥ २२.५१॥
गङ्गाचन्द्रकलाधर त्रिजगतां कामान्नपूर्णार्धधृक्
तूर्णं मे हृदि चिन्तितं दिश विभो पाहीश मामर्भकम् ।
ऊर्णाचक्रनिकाशसंसृतिमहाचक्रेऽथ बद्धाङ्गकं
त्वामेवाभिमुखं प्रयामि शरणं मामद्य साम्ब प्रभो ॥ २३.३॥
अगुणं भगणाधिपैकचूडं त्रिगुणातीतगुणं च निर्गुणं तम् ।
अरुणाधिपकारणं सुराणां वरुणार्च्य शरणं (करुणं) शरण्यमीड्यम् ॥ २३.४॥
धृतभसितभुजङ्गं भक्तचित्तैकसङ्गं
करधृतसुकुरङ्गं तुङ्गलिङ्गैकसङ्गम् ।
मुनिजनभवमङ्गं कालकालं स्थाङ्ग-
प्रदमथ हरये तं सम्भजे शङ्गमीशम् ॥ २३.५॥
समुत्थाप्य तमाशीर्भिरभिनन्द्य सदाशिवः ।
कामं कामान्तकस्यैव प्रसादश्चास्तु शाश्वतः ॥ २३.६॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये दधीचिःकृतं शिवस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २२ । २३ (३-६)॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 22 . 23 (3-6)..
Proofread by Ruma Dewan