दक्षपत्नीकृता शिवस्तुतिः
प्रसूतिरुवाच ।
नमामहे तवपदपङ्कजद्वयं
यदद्वयं भयहरमिष्टसाधकम् ।
स्मरन्ति वै सुरनरकिन्नरादयः
समोभवान्निखिलजनेविशेषकृत् ॥ १॥
शिवो हरः स्मरहर ईश उत्तमो
महेश्वरो भवभयकृद्भवोऽरिहा ।
त्रिलोचनः शशिरविवह्निलोचनो
महामना मनसि विराज मादृशाम् ॥ २॥
शतेन्दवो रविकुलकोटिरेव ते
प्रभाकरप्रभमिति नावगम्यते ।
यदीदृशाः प्रविलसद्दण्डकोटयो
भवत्तनोः कणविवरेषु लक्षिताः ॥ ३॥
इति बृहद्धर्मपुराणान्तर्गता दक्षपत्नीकृता शिवस्तुतिः सम्पूर्णा ।
॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ३८। ५३-५५ ॥
Proofread by Ruma Dewan