श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

श्रीमेधादक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम् मूलमन्त्रवर्णाद्यात्मकं श्रीदेव्युवाच - भगवन्देवदेवेश मन्त्रार्णस्तवमुत्तमम् । दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥ १॥ श्रीमहादेव उवाच - साधु पृष्टं महादेवि सर्वलोकहिताय ते । वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥ २॥ ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् । मूलमन्त्रवदस्यापि द्रष्टव्यं सकलं हि तत् ॥ ३॥ ध्यानम् - भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला- वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः । व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः स्व्याळः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ४॥ इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् । जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितह ॥ ५॥ ॐ ओङ्काराचलसिंहेन्द्रः ओङ्कारध्यानकोकिलः । ओङ्कारनीडशुकराड् ओङ्कारार्णवकुञ्जरः ॥ ६॥ ओङ्कारारण्यकुञ्जरः नगराजसुताजानिर्नगराजनिजालयः । नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥ ७॥ नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः । मोहानलसुधासारो मोहाम्बुजसुधाकरः ॥ ८॥ मोहान्धकारतरणिर्मोहोत्पलनभोमणिः । भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥ ९॥ भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः । भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥ १०॥ गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः । गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥ ११॥ गगनाम्बरसंवीतो गगनामुक्तमूर्धजः । वदनाब्जजिताब्जश्रीः वदनेन्दुस्फुरद्दिशः ॥ १२॥ वरदानैकनिपुणो वरवीणोज्ज्वलत्करः । वनवाससमुल्लासो वनवीरैकलोलुपः ॥ १३॥ तेजःपुञ्जघनाकारो तेजसामपि भासकः । तेजःप्रदो विनेयानां तेजोमयजनाश्रयः ॥ १४॥ दमितानङ्गसङ्ग्रामो दरहासजिताङ्गनः । दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥ १५॥ क्षीरेन्दुस्फटिकाकारः क्षीणेन्दुमकुटोज्ज्वलः । क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥ १६॥ नानाभरणमुग्धाङ्गो नारीसम्मोहनाकृतिः । नादब्रह्मरसास्वादी नागभूषणभूषितः ॥ १७॥ मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः । मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥ १८॥ तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः । तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥ १९॥ तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः । यमसन्नुतसत्कीर्तिः यमसंयमसंयुतः ॥ २०॥ यतिरूपधरो मौनी यतीन्द्रोपास्यविग्रहः । मन्दारहाररुचिरो मदनायुतसुन्दरः ॥ २१॥ मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः । मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥ २२॥ हस्ताङ्कुरितचिन्मुद्रो हठयोगपरोत्तमः । हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥ २३॥ मेरुश‍ृङ्गतटोल्लासो मेघश्याममनोहरः । मेधाङ्कुरालवालाग्र्यो मेधपक्वफलद्रुमः ॥ २४॥ धार्मिकान्तर्गुहावासो धर्ममार्गप्रवर्तकः । धामत्रयनिजारामो धर्मोत्तममनोरथः ॥ २५॥ प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः । प्रज्ञाचन्द्रशिलादर्शः प्रज्ञामणिवराकरः ॥ २६॥ ज्ञानान्तरभासात्मा ज्ञातृज्ञातिविदूरगः । ज्ञानाद्वैतसुदिव्याङ्गो ज्ञातृज्ञातिकुलागतः ॥ २७॥ प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिवाडवः । प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥ २८॥ यत्तत्वमसिसंवेद्यो यक्षगेयात्मवैभवः । यज्ञादिदेवतामूर्तिः यजमानवपुर्धरः ॥ २९॥ छत्राधिपतिविश्वेशः छत्रचामरसेवितः । छान्दश्शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥ ३०॥ स्वाभाविकसुखैकात्मा स्वानुभूतरसोदधिः । स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥ ३१॥ हाटकाभजटाजूटो हासोदस्तारमण्डलः । हालाहलोज्ज्वलगळो हारायुतमनोहरः ॥ ३२॥ इति श्रीमेधादक्षिणामूर्तिमनुवर्णाद्यादिमा श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
% Text title            : Dakshinamurti Ashtottarashatanama Stotram 2
% File name             : dakShiNAmUrtyaShTottarashatanAmastotram.itx
% itxtitle              : dakShiNAmUrtyaShTottarashatanAmastotram 2 medhAdakShiNAmUrti (oNkArAchalasiMhendraH)
% engtitle              : dakShiNAmUrtyaShTottarashatanAmastotram 2
% Category              : shiva, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : See corresponding namavali
% Latest update         : June 27, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org