श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्
श्रीमेधादक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्
मूलमन्त्रवर्णाद्यात्मकं
श्रीदेव्युवाच -
भगवन्देवदेवेश मन्त्रार्णस्तवमुत्तमम् ।
दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥ १॥
श्रीमहादेव उवाच -
साधु पृष्टं महादेवि सर्वलोकहिताय ते ।
वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥ २॥
ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् ।
मूलमन्त्रवदस्यापि द्रष्टव्यं सकलं हि तत् ॥ ३॥
ध्यानम् -
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः
स्व्याळः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ४॥
इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् ।
जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितह ॥ ५॥
ॐ ओङ्काराचलसिंहेन्द्रः ओङ्कारध्यानकोकिलः ।
ओङ्कारनीडशुकराड् ओङ्कारार्णवकुञ्जरः ॥ ६॥ ओङ्कारारण्यकुञ्जरः
नगराजसुताजानिर्नगराजनिजालयः ।
नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥ ७॥
नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः ।
मोहानलसुधासारो मोहाम्बुजसुधाकरः ॥ ८॥
मोहान्धकारतरणिर्मोहोत्पलनभोमणिः ।
भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥ ९॥
भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः ।
भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥ १०॥
गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः ।
गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥ ११॥
गगनाम्बरसंवीतो गगनामुक्तमूर्धजः ।
वदनाब्जजिताब्जश्रीः वदनेन्दुस्फुरद्दिशः ॥ १२॥
वरदानैकनिपुणो वरवीणोज्ज्वलत्करः ।
वनवाससमुल्लासो वनवीरैकलोलुपः ॥ १३॥
तेजःपुञ्जघनाकारो तेजसामपि भासकः ।
तेजःप्रदो विनेयानां तेजोमयजनाश्रयः ॥ १४॥
दमितानङ्गसङ्ग्रामो दरहासजिताङ्गनः ।
दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥ १५॥
क्षीरेन्दुस्फटिकाकारः क्षीणेन्दुमकुटोज्ज्वलः ।
क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥ १६॥
नानाभरणमुग्धाङ्गो नारीसम्मोहनाकृतिः ।
नादब्रह्मरसास्वादी नागभूषणभूषितः ॥ १७॥
मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः ।
मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥ १८॥
तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः ।
तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥ १९॥
तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः ।
यमसन्नुतसत्कीर्तिः यमसंयमसंयुतः ॥ २०॥
यतिरूपधरो मौनी यतीन्द्रोपास्यविग्रहः ।
मन्दारहाररुचिरो मदनायुतसुन्दरः ॥ २१॥
मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः ।
मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥ २२॥
हस्ताङ्कुरितचिन्मुद्रो हठयोगपरोत्तमः ।
हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥ २३॥
मेरुशृङ्गतटोल्लासो मेघश्याममनोहरः ।
मेधाङ्कुरालवालाग्र्यो मेधपक्वफलद्रुमः ॥ २४॥
धार्मिकान्तर्गुहावासो धर्ममार्गप्रवर्तकः ।
धामत्रयनिजारामो धर्मोत्तममनोरथः ॥ २५॥
प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः ।
प्रज्ञाचन्द्रशिलादर्शः प्रज्ञामणिवराकरः ॥ २६॥
ज्ञानान्तरभासात्मा ज्ञातृज्ञातिविदूरगः ।
ज्ञानाद्वैतसुदिव्याङ्गो ज्ञातृज्ञातिकुलागतः ॥ २७॥
प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिवाडवः ।
प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥ २८॥
यत्तत्वमसिसंवेद्यो यक्षगेयात्मवैभवः ।
यज्ञादिदेवतामूर्तिः यजमानवपुर्धरः ॥ २९॥
छत्राधिपतिविश्वेशः छत्रचामरसेवितः ।
छान्दश्शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥ ३०॥
स्वाभाविकसुखैकात्मा स्वानुभूतरसोदधिः ।
स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥ ३१॥
हाटकाभजटाजूटो हासोदस्तारमण्डलः ।
हालाहलोज्ज्वलगळो हारायुतमनोहरः ॥ ३२॥
इति श्रीमेधादक्षिणामूर्तिमनुवर्णाद्यादिमा
श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।