श्रीदक्षिणामूर्ति अष्टोत्तरशतनामस्तोत्र
॥ अथ ध्यानम्॥
वटवृक्ष तटासीनं योगी ध्येयांघ्रि पङ्कजम्।
शरश्चन्द्र निभं पूज्यं जटामुकुट मण्डितम् ॥ १॥
गङ्गाधरं ललाटाक्षं व्याघ्र चर्माम्बरावृतम्।
नागभूषं परंब्रह्म द्विजराजवतंसकम् ॥ २॥
अक्षमाला ज्ञानमुद्रा वीणा पुस्तक शोभितम्।
शुकादि वृद्ध शिष्याढ्यं वेद वेदान्तगोचरम्॥ ३॥
युवानां मन्मथारातिं दक्षिणामूर्तिमाश्रये।
॥ अथ दक्षिणामूर्ति अष्टोत्तरशतनाम स्तोत्रम् ।
ॐ विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालङ्कृत सर्वाङ्गी रत्नमौलिर्जटाधरः ॥ १॥
गङ्गाधर्यचलावासी महाज्ञानी समाधिकृत्।
अप्रमेयो योगनिधिर्तारको भक्तवत्सलः॥ २॥
ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरातनः ।
उक्षवाहश्चर्मवासाः पीताम्बर विभूषणः॥ ३॥
मोक्षदायी मोक्षनिधिश्चान्धकारी जगत्पतिः।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः॥ ४॥
प्रौढापस्मृति संहर्ता शशिमौलिर्महास्वनः ।
साम प्रियोऽव्ययः साधुः सर्व वेदैरलङ्कृतः ॥ ५॥
हस्ते वह्निधरः श्रीमान् मृगधारी वशङ्करः ।
यज्ञनाथ क्रतुध्वंसी यज्ञभोक्ता यमान्तकः॥ ६॥
भक्तानुग्रह मूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोध्दूलित सर्वाङ्गः चाक्षमालाधरोमहान् ॥ ७॥
त्रयीमूर्तिः परम्ब्रह्म नागराजैरलङ्कृतः ।
शान्तरूपो महाज्ञानी सर्वलोकविभूषणः ॥ ८॥
अर्धनारीश्वरो देवोमुनिस्सेव्यस्सुरोत्तमः ।
व्याख्यानदेवो भगवान् रवि चन्द्राग्नि लोचनः ॥ ९॥
जगद्गुरुर्महादेवो महानन्द परायणः ।
जटाधारी महायोगी ज्ञानमालैरलङ्कृतः ॥ १०॥
व्योमगङ्गा जल स्थानः विशुद्धो यतिरूर्जितः ।
तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ॥ ११॥
व्योममूर्तिश्च भक्तानां इष्टकाम फलप्रदः ।
परमूर्तिः चित्स्वरूपी तेजोमूर्तिरनामयः ॥ १२॥
वेदवेदाङ्ग तत्त्वज्ञः चतुःष्षष्टि कलानिधिः ।
भवरोग भयध्वंसी भक्तानामभयप्रदः ॥ १३॥
नीलग्रीवो ललाटाक्षो गज चर्मागतिप्रदः ।
अरागी कामदश्चाथ तपस्वी विष्णुवल्लभः ॥ १४॥
ब्रह्मचारी च संन्यासी गृहस्थाश्रम कारणः ।
दान्तः शमवतां श्रेष्ठो सत्यरूपो दयापरः ॥ १५॥
योगपट्टाभिरामश्च वीणाधारी विचेतनः ।
मतिप्रज्ञा सुधाधारी मुद्रापुस्तक धारणः ॥ १६॥
वेतालादि पिशाचौघ राक्षसौघ विनाशनः ।
राज यक्ष्मादि रोगाणां विनिहन्ता सुरेश्वरः ॥
॥ इति श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Arun Shantharam shantharam.arun at gmail.com