श्रीदशश्लोकी

श्रीदशश्लोकी

यद्यत्प्रसादविमुखेन पुरा न लब्धं लब्धं यदद्य च गुरो भवतः प्रसादात् । विज्ञापयामि तदिदं कुतुकातिरेक- सम्प्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १॥ न त्वां स्मरामि न भजामि यजामि नान्त- र्नो वा बहिर्न च शिवं न च दैवमन्यत् । नाहं भवामि न च नाहमहं भवामि किं वा भवामि तदहं न हि वक्तुमीशे ॥ २॥ साक्षादहं स परमः शिव एव जातो जातोऽधुना स परमोऽपि शिवोऽहमेव । आवां पुरा चिरमभूव तमःप्रकाश क ?? परस्परयु ?? पयसे इवाद्य ॥ ३॥ मत्तस्तदेतदखिलं जगदाविरस्ति मत्तश्च जीवति लयं च तथा (तथैव) मत्तः । मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो मत्तो न चैतदमुतोऽपि च नाहमन्यः ॥ ४॥ आधारये क्षितिरहं सततं पयोऽहं सम्प्लावये परिपचामि च पावकोऽहम् । आन्दोलयामि पवनोऽहमिहावकाशं मुञ्चामि चाम्बरमहं स्थितये ममैव ॥ ५॥ मायामरुद्भिरभितः क्षुभितो भवामि ब्रह्माण्डखण्डनवबुद्बुदजाललोलः । संहृत्य सर्वमथ शक्तितरङ्गडोला- केलिक्षयादहमसौ स्तिमितश्चिदब्धिः ॥ ६॥ लोकास्त्रिविष्टपमुखा निरयावसाना ये सर्व एव त (इ) मे मम केलिरेखाः । नैवाहमेषु मम केतुवशं वदन्ति मद्धाम्नि नार्कशशिनौ न च पावकोऽयम् ॥ ७॥ यस्यां वसामि च स किं ननु नैव काशी विश्वेश्वरः स च यमीशधिया स्पृशामि । यद्व्याहरामि सकलं प्रणवस्तदेव मुक्ताश्च ते सहचरन्ति भया क्षणं ये ॥ ८॥ निर्बन्धनोऽपि निजरूपमवेक्ष्य बद्धो मुच्येत् किलैतदथ वीक्ष्य च नित्यमुक्तः । धामत्रयातिचकितो गतिभोक्तृभोग्य- भोगान्वयोऽस्मि स परः शिव एव सोऽहम् ॥ ९॥ इत्थं भवाब्धिमतिलङ्घ्य भवत्प्रसादात् धन्यस्य मे यदुदभूच्छिवसामरस्यम् । आपिण्डविच्युति गुरो सुखमेतदीयं दिव्यं त्वदङ्घ्रिसरसीरुहसात्करोति ॥ १०॥ ॥ इति श्रीविद्याधर चक्रवर्तिरचिता दशश्लोकी सम्पूर्णा ॥ Proofread by Aruna Narayanan
% Text title            : Shri Dashashloki 02 33
% File name             : dashashlokI.itx
% itxtitle              : dashashlokI
% engtitle              : dashashlokI
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Vidyadhar Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-33
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org