धान्यवाडिकाक्षेत्रमाहात्म्यम्
%२९
देशे महाराष्ट्रसमाह्वये भुवि ख्याता यथा श्रीनरसिंहवाटिका ।
कृष्णानदीपश्चिमकूल आन्ध्रके देशे तथा पूरपि धान्यवाडिका ॥ १॥
दिवि यथाध्यमरास्त्यमरावती भुवि तथा ह्यपराप्यमरावती ।
दिवि तु सास्त्यमरेश्वरमण्डिता भुवि तथाप्यमरेश्वरमण्डिता ॥ २॥
चामुण्डिकेशार्पितसाधुमानं काशीसमानं भुवि भासमानम् ।
क्षेत्रं त्विदं पातकशोकहन्तृ श्रीकृष्णया मण्डितमिष्टदातृ ॥ ३॥
कृष्णोत्तुङ्गतरङ्गसङ्गवशतो वातोऽतिपूतो यतो
धावञ्छान्त इतस्ततः स्वगतितः प्राप्तं त्रिधा दुष्कृतम् ।
दूरादेव निवारयत्यविरतं जातं यदङ्गादित-
स्तद्भक्त्यात्र सतां सदा निवसतां पापस्य वार्ता कुतः ॥ ४॥
भक्तेष्टदोऽत्र प्रणवेश्वरः स्थितः श्रीमानगस्त्येश्वर इष्टदः स्थितः ।
सोमेश्वरो यत्र च कोसलेश्वरः श्रीवीरभद्रेश्वर आस्तिकादरः ॥ ५॥
लिङ्गैर्युतं पञ्चभिरेवमुच्चमुच्चण्डकालान्तकमाशु यच्च ।
सकृत्प्रणामात्सकलार्थदातृ तदामरं लिङ्गमनिष्टहन्तृ ॥ ६॥
यद्वेणुनादश्रवणादचेतनाः सचेतनाः स्युः सजवास्तथाजवाः ।
क्षेत्रं त्विदं तेन सदास्त्यधिष्ठितं गोपालकृष्णेन ददात्यभीप्सितम् ॥ ७॥
भूतेश पाहि भवतारक तारकघ्न तातेशतः परमुदर्पकदर्पकघ्न ।
कोऽस्माकमत्रभवतोषदोऽन्यो मान्यो विपत्तिवनपावकपावकाक्ष ॥ ८॥
चामुण्डेश सगोपालपालकोस्यमरेश्वर ।
लोकशोकहर श्लोकाष्टकं शृणु महेश्वर ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीधान्यवाडिकाक्षेत्रमाहात्म्यं सम्पूर्णम् ।