श्रीधीरगुरुभूतेश्वरस्तोत्रम्
माङ्गल्यदाननिरतप्रणमज्जनानां
मान्धातृमुरव्यधरणीपतिचिन्तिताङ्घ्रे ।
मान्द्यान्धकारविनिवारणचण्डभानो
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ १॥
मां प्राप्नुयादखिलसौख्यकरी सुधीश्च
माकन्दतुल्यकविता सकलाः कलाश्च ।
क्वाचित्कयत्पदसरोजनतेर्हि स त्वं
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ २॥
मातङ्गकृत्तिबसन प्रणतार्तिहारिन्
मायासरित्पतिविशोषणबाडवाग्ने ।
मानोन्नतिप्रद निजाङ्घ्रिजुषां नराणां
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ ३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीधीरगुरुभूतेश्वरस्तोत्रं सम्पूर्णम् ।
शशाङ्कमौलीश्वरस्तोत्रम्
Proofread by PSA Easwaran