द्वादशज्योतिर्लिङ्गस्तोत्रम्

द्वादशज्योतिर्लिङ्गस्तोत्रम्

सौराष्ट्रदेशे विश् अदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । (सौराष्ट्रदेशे वसुधावकाशे) भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥ (कृतावतारं तं) श्रीशैलश‍ृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । (श्रीशैलश‍ृङ्गे विविधप्रसङ्गे शेषाद्रिश‍ृङ्गेऽपि सदावसन्तम् ) तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥ (पूर्वमेनं) अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ॥ ४॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदाशिवं तं गिरिजासमेतम् । (पारलिकाभिधाने) सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥ (सततं नमामि) याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । (आमर्दसज्ञे नगरेच रम्ये) सद्भुक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥ (प्रदमेकमीशं) महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । (हिमाद्रिपार्श्वे) सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥ (महोरगाद्यैः केदारसज्ञं) सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । (सिम्हाद्रिपार्श्वेऽपि तटे रमन्ते) यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥ (यद्धर्शनात्पातकजातनाशः प्रजायते) सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः । (श्रीताम्रमर्णीं जलराशियोगे निबध्य सेतुं निशि बिल्वपत्रैः) श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥ (समर्चितं तं, सततं नमामि) यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । (यो) सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ १०॥ सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥ इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । (एलापुरीरम्य शिवालयेऽस्मिन्, त्रिजगद्वरेण्यम्) वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥ (सदाशिवं तं विषणेश्वराख्यम्) ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ (एतानि लिङ्गानि सदैव मर्त्याः प्रातः पठन्तोऽमलमानसाश्च । ते पुत्रपौत्रैश्च धनैरुदारैः सत्कीर्ति भाजः सुखिनो भवन्ति ॥) ॥ इति श्रीमद्शङ्कराचार्यविरचितं द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥ Encoded by Subramanian Ganesh sgesh@hotmail.com
% Text title            : dvAdashajyotirlinga stotra
% File name             : dvAdashaJyotistotra.itx
% itxtitle              : dvAdashajyotirliNgastotram (shaNkarAchAryavirachitam)
% engtitle              : dvAdasha jyotirlinga stotram
% Category              : shiva, stotra, dvAdasha, shankarAchArya
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Subramanian Ganesh sgesh at hotmail.com
% Proofread by          : Subramanian Ganesh sgesh at hotmail.com
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : August 23, 2000, April 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org