द्वादशज्योतिर्लिङ्गस्तोत्रम्
सौराष्ट्रदेशे विश् अदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । (सौराष्ट्रदेशे वसुधावकाशे)
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥ (कृतावतारं तं)
श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
(श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदावसन्तम् )
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥ (पूर्वमेनं)
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ॥ ४॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदाशिवं तं गिरिजासमेतम् । (पारलिकाभिधाने)
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥ (सततं नमामि)
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । (आमर्दसज्ञे नगरेच रम्ये)
सद्भुक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥ (प्रदमेकमीशं)
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । (हिमाद्रिपार्श्वे)
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥ (महोरगाद्यैः केदारसज्ञं)
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । (सिम्हाद्रिपार्श्वेऽपि तटे रमन्ते)
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥ (यद्धर्शनात्पातकजातनाशः प्रजायते)
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ।
(श्रीताम्रमर्णीं जलराशियोगे निबध्य सेतुं निशि बिल्वपत्रैः)
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥ (समर्चितं तं, सततं नमामि)
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । (यो)
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ १०॥
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । (एलापुरीरम्य शिवालयेऽस्मिन्, त्रिजगद्वरेण्यम्)
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥ (सदाशिवं तं विषणेश्वराख्यम्)
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥
(एतानि लिङ्गानि सदैव मर्त्याः प्रातः पठन्तोऽमलमानसाश्च ।
ते पुत्रपौत्रैश्च धनैरुदारैः सत्कीर्ति भाजः सुखिनो भवन्ति ॥)
॥ इति श्रीमद्शङ्कराचार्यविरचितं
द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥
Encoded by Subramanian Ganesh sgesh@hotmail.com