गीतसुन्दरम्

गीतसुन्दरम्

॥ श्रीः ॥ ॥ शिवाभ्यां नमः ॥ तञ्जापुरच्छत्रपतिश्रीतुलजामहाराजस्य आस्थानविद्वच्छिरोमणिभूतस्य श्रीचोक्कनाथदीक्षितस्य शिष्येण सदाशिवदीक्षितेन विरचितम् गीतसुन्दरम् ।

प्रथमः सर्गः

Sarga 1 श्लोकानि श्रीमद्-भोसल-वंश-रत्न-तुलज-क्ष्मापाल-चूडामणेः कल्याणं कलयतु सन्ततममी लीला-विशेषोज्ज्वलाः । कामं हेम-पयोजिनी-परिसरे मध्ये-कदम्ब-द्रुमं मीनाक्ष्या सह सुन्दरेश्वर-विभोर्-अनङ्ग-नित्योत्सवाः ॥ १॥ त्यागेश-देशिक-निदेश-वशंवदानां- आजानभक्ति-वश-नीत-सदाशिवानाम् । श्रीचोक्कनाथ-मखिनां निखिलेडितानां- उल्लासयन्तु मम वाचं-अपाङ्ग-लीलाः ॥ २॥ भारती-सरस-केलि-मन्दिरं सोमसुन्दर-कथा-धुरन्धरम् । श्लाघनीय-सभाव-बन्धुरं लालयन्तु मम गीत-सुन्दरम् ॥ ३॥

प्रथमाष्टपदी ।

Ashtapadi 1 मालविरागेण गीयते । आदितालः । मघवति पर्यटति इतरैर्-अनुपरतम् । समयसि वृत्र-वधोदित-दुरितम् । सोमसुन्दर सुर-सार्वभौम जय मधुराधिपते ॥ १॥ (ध्रुवम्) कृपया परिहरसि ऐरावत-तापम् । तापस-रोषारोपित-शापम् । सोमसुन्दर गजमुख-जनक जय मधुराधिपते ॥ २॥ रचयसि नीप-वने नगरीं-अभिरामाम् । कमला-कौतुक-विहरण-सीमाम् । सोमसुन्दर विश्वविधायक जय मधुराधिपते ॥ ३॥ मलयध्वज-तनयां कामयसे दयिताम् । विकृतोरोज-निमज्जन-मुदिताम् । सोमसुन्दर गिरिजावल्लभ जय मधुराधिपते ॥ ४॥ सहसाविर्भवसि पाण्ड्य-कुलोद्धरणे । श्रीमीनाक्षी-पाणि-ग्रहणे । सोमसुन्दर नव-मोहनाङ्ग जय मधुराधिपते ॥ ५॥ नियत-पतञ्जलये ललितादृत-भरतम् । नृत्यसि शङ्कर नव-रस-भरितम् । सोमसुन्दर नित्यानन्द जय मधुराधिपते ॥ ६॥ कुण्डोदर-जठरे अमिताशन-धैर्यम् । दिशसि तटाकतयाप्य्-अनिवार्यम् ॥ सोमसुन्दर अद्भुतचरित जय मधुराधिपते ॥ ७॥ क्षुधितं पालयितुं सृजसि नवान्न-निधिम् । वेगवतीमपि-तत्रानवधिम् । सोमसुन्दर हालास्येश जय मधुराधिपते ॥ ८॥ श्लोकानि इन्द्राघं हरते गजेन्द्रं-अवते वन्यां पुरं कुर्वते कन्यां प्रार्थयते सुमीन-नयना-पाणिग्रहं तन्वते । सानन्दं नटते पतञ्जलिकृते कुण्डोदर-क्षुत्-कृते गर्तान्-नमयान्-नदीं च सृजते शर्वाय तुभ्यं नमः ॥ ४॥ योऽसौ काञ्चनमालया वल-रिपोर्-अर्धासनोल्लासिनं हालास्ये मलयध्वजं करुणया संयोज्य सप्तार्णवीम् । स्नातुं योग्य-दशां-अदादपि तयोः सारूप्य-मुक्ति-श्रियं देवः पाण्ड्य-धुरन्धरः स दिशतु श्रेयांसि भूयांसि वः ॥ ५॥

द्वितीयाष्टपदी

Ashtapadi 2 भैरवीरागेण गीयते । मिश्रछाप् तालः । कृत-सप्त-सागराकारण जगत्-कारण । मकुट-घटित-हिमकरण जय जय पाण्ड्यपते ॥ १॥ सुरलोक-नीत-मलयध्वज वृषभध्वज । हरिणा-लङ्कृत-कर-सरसिज जय जय पाण्ड्यपते ॥ २॥ जनितो-ग्रपाण्ड्याख्य-नन्दन जगदानन्दन । कृत-तटातका-मनोरञ्जन जय जय पाण्ड्यपते ॥ ३॥ वलयाद्य्-आयुध-दान-योजित तनय-भाजित । मधुरापुर-साम्राज्य-राजित जय जय पाण्ड्यपते ॥ ४॥ सुत-शक्ति-ताडित-वारिधे विधि-सारथे । अव्याज-भव्य-कृपानिधे जय जय पाण्ड्यपते ॥ ५॥ कनकाद्रि-दारण-पण्डित-सूनु-खण्डित । वल-रिपु-मौलि-विश्रुत जय जय पाण्ड्यपते ॥ ६॥ निगमान्त-सिद्धान्त-बोधन सुकृत-साधन । कृत-नत-जनतानुमोदन जय जय पाण्ड्यपते ॥ ७॥ नवरत्न-विक्रम-कारक भव-तारक । हालास्योदिता-नन्द-कोरक जय जय पाण्ड्यपते ॥ ८॥ श्लोकानि देव्याः पदाब्जं-उपलाद्-अवरोप्य हस्ते संवाहयन्-मकुट-चन्द्र-सुधाभिषिक्तम् । क्षन्तव्य-भावि-सकल-प्रणया-पराध कल्याण-सुन्दर-विभुः कलयेद्-अभीष्टम् ॥ ६॥ कल्याणोत्सव-कौतुकाद्-उपचितैर्-अङ्गैर्-अनङ्गाधिक- स्मेरैर्-एधित-हेम-रत्न-रुचिरा-लङ्कार-श‍ृङ्गारिताम् । कान्तस्य्-आगमने विलम्बन-वशात्-कामास्त्र-लक्षीकृतां साम्राज्ञीं मलयध्वजेन्द्र-तनयां प्राह प्रबुद्धा सखी ॥ ७॥

तृतीयाष्टपदी

Ashtapadi 3 वसन्तरागेण गीयते । आदितालः । खेलति काञ्चन-नलिनी-तीरे । चन्द्र-शिखामणि-रमरवधू-मणि-समरस-विविध-विहारे ॥ १॥ (ध्रुवम्) सरस-कदम्ब-पराग-भरालस-शीतल-सुरभि-समीरे । अमृत-तरङ्ग-परम्परयाऽर्पित-शीकर-मौक्तिक-हारे ॥ २॥ दिशि दिशि नियमित-चन्द्र-दिवाकर-मधुमाधव-परिवारे । शशिमणि-परिणत-सोपानान्तर-चञ्चल-चारु-चकोरे ॥ ३॥ मौक्तिक-हंस-मुखादृत-पङ्कज-रजसा कृत-पटवासे । मिलित-परस्पर-कुसुमायुध-गतिरति-मन्मथ-कृत-हासे ॥ ४॥ मरकत-मेचकपत्र-निरन्तर-सङ्गत-कनक-रथाङ्गे । हरिमणि-किरणच्-छुरित-निशाकर-रुचि-घुतिकायित-भृङ्गे ॥ ५॥ सन्तत-दर-चलद्-अनिल-समाहृत-सारस-सौरभ-सारे । चिन्तामणि-गृह-शिखरोदञ्चित-चन्द्रक-रुचिर-मयुरे ॥ ६॥ अधर-सुधाधिक-मधुर-मनोहर-दिव्य-फलागम-रम्ये । अधिकृत-कौतुक-सुर-नर-पन्नग-प्रमदा-परिचय-सौम्ये ॥ ७॥ जाति-विहीन-वसन्त-महोदय-समुदित-मधुप-निनादे । जात-कुतूहल-नवयुव-कल्पित-हालास्यवासि-विनोदे ॥ ८॥ श्लोकानि लीला-लोल-दृगञ्चलेषु सरसालापेषु केलीचलद्- रत्ना-लङ्कृत-कुण्डल-द्युतिषु च स्मेराधर-स्फूर्तिषु । भावैर्-अप्सरसो मुनि-प्रणयिनीः सम्मोहयन्-मोदते स्वामी सोमकला-वतंस-सुषुमा-कान्तो वसन्तोदये ॥ ८॥ अद्योदञ्चित-पञ्चबाण-विशिख-प्रख्यात-पान्थ-व्यथा- सन्नद्ध-प्रतिबुद्ध-षट्पद-शुकी-पारावत-प्रस्तुताः । श्रीखण्डाचल-शीतलानिल-चलन्-माकन्द-शाखाशिखा- मन्दान्दोलित-नीड-निर्भर-कुहू-कण्ठस्वरा वासराः ॥ ९॥ एते वेगवती-तरङ्ग-तरल-प्रत्यग्र-पाथोरुहा- नीतैः शीतल-सौरभैर्-विरहिणो भिन्दन्ति मन्दानिलाः । एषा वञ्जुल-मञ्जरी च शिरसा यद्विक्रमं श्लाघते सोऽयं सून-शरासनो विजयते रन्ता वसन्तश्रियाम् ॥ १०॥ चूताङ्कुर-प्रथम-चर्वण-गर्वितानां कोलाहलैर्-मुखरिता वनकोकिलानाम् । उद्दीपनेन मदनस्य तटातकयां वासन्तिकाः सरस-सौरभं-आरभन्ते ॥ ११॥ सुराङ्गना-कल्पित-कौतुकोत्सव- प्रपञ्चितानङ्ग-कला-कुतूहलम् । उदाहरन्ती घनसार-सुन्दरं सखी पुनः प्राह तटातकामिति ॥ १२॥

चतुर्थाष्टपदी

Ashtapadi 4 कुम्भकाम्भोधिरागः । आदितालः । धरति नवं वरवेषं चिरयति तेन कदम्बवने सखि तव उज्ज्वल-भूषम् । (ध्रुवम् ॥ चम्पक-सुन्दर-दिव्य-शुभाकृति-कनकाम्बर-शशिधारी । मदन-महोत्सव-सम्भव-सम्भृत-वरयुवती-मदहारी ॥ १॥ सरस-हरिद्रा-लेप-मिषेण सुधांशुधरस्य शुभाङ्गम् । विमृशति कापि स्पर्श-सुखालस-लीला-माद्यद्-अपाङ्गम् ॥ २॥ लोक-विलोकन-दोष-निवारक-मृगमद-बिन्दुं-उदारम् । एककपोले रचयति काचन नखलेखन-सुकुमारम् ॥ ३॥ कामपि शुभिका-लङ्करणोद्धृत-बाहुलता-ललिताङ्गीम् । स्मर-समयोचितं-अनुनयति श्रित-कोकिल-कलरव-भङ्गीम् ॥ ४॥ अप्सरसां-उपगानरसैर्-अनुरञ्जित-मङ्गल-गीताम् । नयन-विलासैर्-एलाकुञ्जं गमयति सुमशर-भीताम् ॥ ५॥ कामपि कामकला-परिशीलित-रतिसुख-रचना-लोलाम् । लज्जयति प्रिय-सरस-चमत्कृति-सत्कृत-नवनव-लीलाम् ॥ ६॥ काचिद्-अलक्तक-रेखाचित्रं पदकमले रचयन्ती । सूचित-राग-नवोदय-रीतिं स्वयं-अनुसरति नमन्ती ॥ ७॥ कामपि गुरुकुच-कुम्भ-विजृम्भण-मुदित-मदालस-भावाम् । सुखयति हालास्योपवने कृत-कुसुम-धनुर्धर-सेवाम् ॥ ८॥ इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे प्रथमः सर्गः ॥

द्वितीयः सर्गः

Sarga 2 श्लोकानि अमर-वनिता-लास्ये दास्ये महेन्द्रकृते मुदा विहरति शिवे वन्यावन्यां-अमोघ-विलासिनि । प्रणय-विधुता मानाधीना विधाय रहः सखीं स्मर-शर-परिश्रान्ता कान्ता तदाह तटातका ॥ १॥ अपि रजत-गिरीशं प्राप्य जेतुं कराभ्यां विगलित-शर-चापा तेन कामानुरूपा । मधुर-चतुर-मुग्धैः कैरपि प्रेमसारैः सखि सरस-विलासैर्-अञ्चिता वञ्चितास्मि ॥ २॥

पञ्चमाष्टपदी

Ashtapadi 5 मां-अनुभवितुं धृत-सुमचापं वसतीवाग्रे शिव-शुभ-रूपम् ॥ध्रुवम् ॥ तरलित-मौलि-कलाधर-कोरक-कलित-सुधारस-सेकम् । मदन-मदालस-लोचन-सूचित-रति-कौशल-परिपाकम् ॥ १॥ दरहसित-स्फुरिताधर-दर्शित-वीटी-सोरभसारम् । पीत-पराग-विधूसर-केसर-भासुर-कुरव-कहारम् ॥ २॥ काञ्चन-रेखा-त्रय-परिशोभित-तिलकित-रत्न-कलापम् । गुरुकुच-मृगमद-मकरी-मुद्रित-कुङ्कुमसार-विलेपम् ॥ ३॥ विद्रुम-कोमल-रक्ताङ्गुलि-मुख-नर्तित-रत्न-कुरङ्गम् । कर्णोत्तंसित-कुवलय-वासित-लीलापाङ्ग-तरङ्गम् ॥ ४॥ कर-धृत-पावक-कलित-प्रत्यय-नियताचञ्चल-भावम् । प्रतिकल-डमरुक-वादन-साधित-कामकला-रस-भावम् ॥ ५॥ मञ्जुल-शिञ्जित-मञ्जीरोज्ज्वल-किञ्चिद्-उदञ्चित-पादम् । पदगति-विस्तृत-ताल-झलज्झल-विहितान्धक-तनुभेदम् ॥ ६॥ मन्दान्दोलित-कुण्डल-विलसित-वितत-फणामणि-भासम् । आम्रेडित-भरतागम-फणिति-प्रकटित-मणित-विलासम् ॥ ७॥ कुसुम-शराहव-कुहना-पण्डित-ताण्डव-मोहन-वेषम् । वेगवतीजल-सीकर-शीतल-नवहालास्य-निवेशम् ॥ ८॥ श्लोकानि भुवनविजय-रक्षा-चूर्ण-कीर्णानि भूयः पथिक-वदन-शीतांशू-परागैः परागैः । मधुरस-विषधारां-उद्वमन्ति प्रयुङ्त्ते किसलय-भुजगा-स्त्राण्यन्तरङ्गाण्य्-अनङ्गः ॥ ३॥ कुसुम-विलसन्-मल्ली-वल्ली-निकुञ्ज-ससम्भ्रम- भ्रमर-युवति-श्रेणी-वेणीयुते मणिमण्डपे । तरुणिम-लसद्गर्वे शर्वे विहारिणि मां विना विषम-विशिखाधीनं दीनं मनो न विनोद्यते ॥ ४॥

षष्ठाष्टपदी

Ashtapadi 6 काम्बोजी-रागेण गीयते । मिश्रछाप् तालः । घटय मया सह सखि शशिभूषम् । नवनव-भाव-विशेष-मनोहरया धृत-मन्मथ-वेषम् ॥ध्रुवम् ॥ परिणय-मण्डपं-उपगतया दरवलित-दृशा मदयन्तम् । रुचिराङुलि-धृत-करतलया नखशिरसा मृदु विलिखन्तम् ॥ १॥ अविरल-वर्षित-मौक्तिकया दरहसितोल्लसद्-अनुमोदम् । मणिरणितोज्ज्वल-नूपुरया दृषद्-आरोपित-मृदु-पादम् ॥ २॥ परिचय-सङ्गत-तनु-लतया श्रितगुरुकुच-लिकुचाभोगम् । सरस-करग्रह-पुलकितया स्मर-चकितोदयद्-अनुरागम् ॥ ३॥ केलिगृहं निशि भाजितया रतिसुख-रचने रसयन्तम् । करयुग-पिहित-पयोधरया मणिकाञ्चीं विश्लथयन्तम् ॥ ४॥ नयन-निवारित-साहसया नख-विकसि-सुकलाजालम् । अमित-मदन-मद-परवशया दृढ-परिरम्भण-बहुलीलम् ॥ ५॥ सुरत-सुखालस-लोचनया कृत-मधुराधर-रसपानम् । खिन्न-कपोल-कुचस्थलया नव-निधुवन-कुतुक-विधानम् ॥ ६॥ विलुलित-कुन्तल-कुण्डलया कर-लालित-कुच-कलशान्तम् । विलसित-वीरायित-कलया दर-मुकुलित-सरस-दृगन्तम् ॥ ७॥ उपरत-कलरव-कूजितया चिर-परिचित-हृदयं-उदारम् । श्रमजल-बिन्दु-परिष्कृतया स्मृत-हालास्य-वन-विहारम् ॥ ८॥ श्लोकानि आयान्त्या कनकाब्जिनी पथि मया साकूतं-आलोकिते देवे निर्जर-कामिनी-परिषदि प्रत्यग्र-लीला-रसम् । सद्यः स्विद्यद्-उरःस्थलं सचकित-व्यापरितार्धेक्षणं सव्याज-स्मयमान-वक्त्र-कमलं वैलक्ष्यं-आलक्ष्यते ॥ ५॥ उद्यद्-वेगवतीतरङ्ग-निकर-व्यक्तानुपूर्व्या स्पृशन्- रोमाञ्चं जनयन्-कदम्ब-मुकुलोल्लासोपलम्भ-क्रमात् । भृङ्गी-कोक-कपोत-कोकिल-रवैर्-आशान्तरं पूरयन्- बन्धुर्-गन्धवहस्तनन्धय इह प्रत्यङगं-आलिङ्गति ॥ ६॥ प्रान्त-भ्रान्त-दृगन्त-लील-मुदित-भ्रू-वल्लरी-चापलं चिन्ता-निश्चल-कर्णपूरं-असम-प्रश्नोत्तर-प्रक्रियम् । आकल्यानति-कौतुकं सुरवधू-बिब्वोक-जात-स्पृहं भावैः कैरपि शङ्करः प्रतिलतागेहं परिक्रामति ॥ ७॥ स्मरोपदेश-स्मृत-भाव-बन्धां तटातकां वेगवती-तटेषु । अन्विष्य रथ्यासु लता-गृहेषु रसालमूलं गिरिशः सिषेवे ॥ ८॥

सप्तमाष्टपदी

Ashtapadi 7 भूपाल-रागेण गीयते । मिश्रछाप् तालः । शिव शिव वसन्त-समये साधुना विरहेण । (ध्रुवम् ॥ तां-अवाप्य विनोदयामि कदा मनो मदनेन । तापकारितयाभियातिरिवाद्य यो मम तेन ॥ १॥ तां-अभिन्न-तनुं बिभेम्य्-अधुना हृदि प्रणिधातुम् । जन्मभूमि-गतां स्मरो बहु बाधयेन्-मदहेतुम् ॥ २॥ भावचित्र-विलेखने कलये कथं कर-पल्लवम् । तत्कला अपि मानिनीव न सागसो विषया ध्रुवम् ॥ ३॥ तां वियोग-कृशां विधाय वृथा यदाचरितं मया । तत्फलानि विवृण्वते किमु कोकिला मदसूयया ॥ ४॥ कोप-रक्त-दृशेव कोक-नदेन वेगवती-क्षते । कीर्ण-शीकरं-उद्यतोर्मिकरेण कुप्यति मत्कृते ॥ ५॥ किं करोमि कथं वदामि भजामि कं मदनादृते । जीविता-वधिर्-आनतिर्-मुहुर्-अङ्गजाय धनुष्मते ॥ ६॥ हन्त कृन्तति चिन्तया तनुं-आत्मभूरिव मानसम् । तां-उपेत्य कृत-व्यथां-अभिनेतुं-एनं-अनागसम् ॥ ७॥ तां-अहं प्रतिपद्य सत्वरं-आत्त-रम्य-विलासिनीम् । रञ्जयामि कदा रतौ हालास्य-सौध-निवासिनीम् ॥ ८॥ श्लोकानि तवविमतं-अपास्तं वह्निनेत्रं निटाले सपदि दहति चेन्-मां मन्मथ त्वच्-छराग्निः । अपहृत-निजरेखे वंशरत्ना-पराधिन्- अहह हिम-मयूखो दुःसहं किं न कुर्यात् ॥ ८॥ पुरा सारङ्गाक्ष्या विविध-रस-भावैर्-उपचितो वियोग्-एर्ष्या-क्रोधात्-सपदि मदनो मां व्यथयतु । कठोर-श्रीर्-अन्तर्-दहन-तुहिनासार-तरला दशायां-अस्यां मे बत मुकुट-भूषापि विमता ॥ ९॥ बाणैस्ते मधु-संस्कृतैर्-अविरही वध्यः कथं स्याद्-अतः स्वान्तं प्राप्य मनाग्-अनार्य चलयन्-धत्से दशां-ईदृशीम् । श्रीचेतोभव भावय त्रिजगतां सम्मोहकं त्वां विना देहार्ध-प्रतिपन्न-मूर्तिमपि तां को वा वियोक्ता मया ॥ १०॥ दृश्यं सर्वमपि प्रिये तव वपुः श्राव्यं वचस्-तावकं स्पृश्यं त्वत्कुच-कुम्भ-युग्ममपि च घ्रातव्यं-आस्यं तव । आस्वाद्यं च तवाधरा-मृतमपि ध्येयं त्वद्-आलिङ्गनं सर्वं त्वन्-मयमेव को नु विरहः का वा नियोग-व्यथा ॥ ११॥ अम्भोरुहं वदनं-उत्पलं-ईक्षणं च चूत-प्रवालं-अधरं लिकुचावुरोजौ । चाम्पेयदाम वपुर्-आदधती वनश्रीर्- एषा तनोति कुतुकानि तटातकेव ॥ १२॥ आमोदैर्-मधुमेदुरैर्-अलिकुलैर्-आरब्ध-चारु-स्वनैः सोत्कण्ठैः कलकण्ठ-कण्ठ-रणितैः शीतैश्च वाताङ्कुरैः । नीतो हन्त वनाद्-वनान्तरं-असौ दृष्ट्वा च तत्रोत्तरं हालास्यं नवरत्न-सौधं-अगमद्-बालेन्दु-चूडामणिः ॥ १३॥ मधुरा-नगरोपान्त-रत्न-सौध-विहारिणम् । जगाद मीननयना-सखी कर्पूर-सुन्दरम् ॥ १४॥

अष्टमाष्टपदी

Ashtapadi 8 राजसुता रतिरूपा शिव चन्दन-मलय-समीर-सुधाकर-विरचित-शतगुण-तापा । (ध्रुवम् ॥ पश्यति न किमपि दृश्यं-उदास्ते विशति विषादं-अवार्यम् । शङ्कर तावक-विरह-विचारे चञ्चति मुञ्चति धैर्यम् ॥ १॥ कनक-सरोज-रजोभर-धूसरमपि तनयाकृत-हंसम् । भसित-तिरोहित-पावकमिव संस्पृश्य क्षिपति नतांसम् ॥ २॥ फाल-विलोचन फणिपति-कङ्कण खण्डित-चन्द्र-ललाम । अनल-शरीर किरात-वरेति च जपति सदा तव नाम ॥ ३॥ नवघनसारै रुचिर-शरीरं रचयति मृगमद-कण्ठम् । निज-शशिकलया कलित-वतंसं श्लिष्यति लसद्-उपकण्ठम् ॥ ४॥ ध्यायति किञ्चन विलिखति किञ्चन कुप्यति जनं-उपयान्तम् । तुष्यति विजने क्षणमपि शुष्यति स्मृतं-अनपेक्ष्य भवन्तम् ॥ ५॥ क्षणमिव मरकत-गृहं-अधिशेते क्षणमिव नलिनी-पत्रम् । क्षणमपि कदलीवेदीभागं पारद-तरल-चरित्रम् ॥ ६॥ काम-शरानल-कवचितमपि निज-जीव-कुसुम-मृदु-बन्धम् । ध्यानरसेन मुहुः परिरक्षति शङ्कर भवद्-अनुबन्धम् ॥ ७॥ अलस-विलोचनं-अङ्कुरित-स्मितं-अनितर-परिचित-दास्यम् । अमित-कुतूहलमिह वाञ्छति तव हालास्येश रहस्यम् ॥ ८॥ इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे द्वितीयः सर्गः ॥

तृतीयः सर्गः

Sarga 3 श्लोकानि दृष्टिं वस्तुषु न प्रचोदयति सा दृष्टानि नापेक्षते सापेक्षाणि न चाददाति न तथा धत्ते गृहीतान्यपि । सुप्तेव प्रतिबोधितेव विमतेवाप्तेव भीतेव च प्रत्य्त्पन्न-बलेव ते विरहिणी प्रत्याशया प्राणिति ॥ १॥ चित्रे त्वां चिर-निर्मितं पुनरपि द्रष्टुं न शक्नोति सा कन्दर्प्-आकृति-शङ्कया शशिभयान्-नादर्शं-आलोकते । किं वक्ष्ये विरहे तव प्रमथिता निर्वेग-शङ्का-शतैर्- अङ्गानामपि सौरभैर्-अपकृतिं जानाति मीनेक्षणा ॥ २॥

नवमाष्टपदी

Ashtapadi 9 देशाक्षिरागेण गीयते । मिश्रछाप् तालः । अम्बिका जगदम्बिका जगतां-अधिनायिका ॥ ध्रुवम् ॥ शरद्-अमृत-किरण-शुभ्रं-उदारम् । विरहोचितमिव वहति शरीरम् ॥ १॥ शिरसि करोति सुधाकर-कलिकाम् । सुमशर-चीटीमिव भय-जनिकाम् ॥ २॥ रविकिरणारुणमपि च कपर्दम् । व्रतमिव विदधात्यलकविमर्दम् ॥ ३॥ कर-विवलित-चन्द्रकला-घुटिका । जपति किमपि तव सुखसङ्घतटिका ॥ ४॥ करधृत-पुस्तकं-एति समोदम् । सरस-कवितया कमपि विनोदम् ॥ ५॥ हिमकिरणोपल-तनुरिव शशिना । भवता किरतु सुधा-रस-मधुना ॥ ६॥ अलमिह मन्मथ-विक्रम-विधिना । परं-उपयाहि पुरेति सुवचना ॥ ७॥ मनसि वचस्यपि वपुषि वसन्तम् । प्रथयति हालास्येश भवन्तम् ॥ ८॥ श्लोकानि विमोहितां विस्मृत-बाल-लीलां वियोग-दीनां-अमृतांशु-मौले । सञ्जीवय त्वं सरसाङ्ग-सङाद्- अनङ्गदेवे शपथोऽन्यथा ते ॥ ३॥ व्याप्ता शीतकर-त्विषेव तरला तस्यास्-तनुः पाण्डरा सङ्क्रान्तं स्मर-कार्मुकैरिव मुखं कर्णान्त-मुग्धेक्षणम् । हृत्वा धैर्यं-उपागतो बहिरिव श्वासानिलो वेगतश्- चैतन्यं त्वयि गूहितं विषधरे नाद्यापहर्तुं क्षमः ॥ ४॥ अपि वपुषि समर्पितार्धभागा तव पुरभाग-निगूहनोत्सुका या । परुष-विरहिणी कथं नु सैव ज्वलद-समेषु-शरानलं सहेत ॥ ५॥ इह मणि-सदने वसामि तस्या झटिति समानयने सखि त्वरेथाः । इति शिव-वचसा क्षणाद्-उपेता तरल-दृशं पुनराह तां वयस्या ॥ ६॥

दशमाष्टपदी

Ashtapadi 10 आनन्दभैरवी रागेण गीयते । आदितालः । गिरिजाते पुर-वैरी मज्जति विपुल-विषादे । ध्रुवम् ॥ गरमिव नवघनसारं गणयति चकितेन । रविमिव रजनीकरं प्रणमति बहु विनयेन ॥ १॥ रिपुमिव निज-हित-लोकं कलयति करुणेन । गिरिमिव मृगशावकं विचरति चिर-चलितेन ॥ २॥ वनमिव मणि-गृह-जातं प्रथयति श्वसितेषु । मणिमिव कर-चालितं विचरति त्वां विपिनेषु ॥ ३॥ शुचिमिव किसलय-जालं शमयति सलिलेन । शठमिव मलयानिलं प्रशपति सह शपथेन ॥ ४॥ अधिवपुर्-उदयति तापे त्यजति चन्द्र-ललाम । निनदति वन-मधुपे श्लथयति धृत-सुमदाम ॥ ५॥ विलसति धुरि हालास्ये नयनसुखं-उपैति । स्फुरति विरह-रहस्ये सीदति रुजं-उपयाति ॥ ६॥ श्लोकानि दत्ता जीव-कला रति-प्रणयिने यत्र त्वया मुग्धया तस्मिन्-नीप-पराग-पाटलतरे माणिक्य-सिंहासने । पश्यन्-उत्सुकं-अन्तरान्तरचलन्-नेत्राञ्चलैस्-त्वामिव स्वामी तावक-यावकारुण-दरस्मेराधरं ध्यायति ॥ ७॥

एकादशाष्टपदी

Ashtapadi 11 केदारगौलरागेण गीयते । आदितालः । नीप-वनान्ते मधुरोपान्ते निवसति राज-किरीटी । चतुरे तादृश-नवरस-रसिकं सुखयति नान्यवधूटी ॥ध्रुवम् ॥ तरुण-शशाङ्कं मृगमद-पङ्कं तव शिवकृतं-अपहारम् । सखि परिशीलय सपदि विलोकय घुमुघुमितं घनसारम् ॥ १॥ चञ्चद्-अपाङ्गं चतुर-कुरङ्गं नटयति कर-कमलेन । स्मरति तवालस-वलित-ससाध्वस-नयन-विलासमनेन ॥ २॥ नयति समीरं कुवलय-हारं परिणत-मुकुल-कलापम् । नवहिम-सलिलं मलयजं-अतुलं घटयति शयन-समीपम् ॥ ३॥ मदन-कलम्बं तव च विलम्बं न हि सहते पुरवैरी । तव शिखि-चन्द्रक-रुचिर-नवांशुक-परिमल-विसरविहारी ॥ ४॥ चलति वतंसे श्रयति च हंसे मृदुगतिं-अनुसर धीरम् । श्रुतिसुख-रचनं करशुक-वचनं लालय पथि सुकुमारम् ॥ ५॥ दलति निचोले गलति दुकूले दृढ-परिरम्भण-शीलम् । रमय विशङ्कं रचित-नखाङ्कं शिवं-अधरामृत-लोलम् ॥ ६॥ सम-रति-सरसं शिवं-अतिरभसं सुख-शयितं कुचभारे । कृतमणि-रणितं विलसित-मणितं रञ्जय नवसुखसारे ॥ ७॥ मदन-निदानं मद-कल-गानं रहसि निवेदय लास्ये । सखि मणि-सदने सरसिज-वदने भज तं नवहालास्ये ॥ ८॥ श्लोकानि किसल-चलितं कीरालापं पुरो न समीहते ललित-वलित-ग्रीवं सास्रं दिशो मुहुर्-ईक्षते । कलयति करे वक्त्राम्भोजं तवागम-सम्मुखं ग्लपयति वनं गाढ-श्वासैः शिवे रमणस्-तव ॥ ८॥ अस्तं चण्ड-करस्य वीक्ष्य विमुखो देवः प्रतीक्ष्यान्तरे कान्त्या तेषु नरावृतं जगदिति प्रीणाति सन्ध्यारुणे । ध्वान्तं गाढमिति प्रमुग्ध-करणो भूयःकलां-ऐन्दवीं सम्भाव्य प्रणयार्पितां तव तनु-ज्योत्स्नामपि श्लाघते ॥ ९॥ सञ्चारस्-तिमिरस्य मुग्ध-तरुणीं-आराहव-प्रक्रिया- सार-ख्यापक-सूत्रधार इव हि व्यग्राभिसार-क्रमः । सत्यस्मिन्-दृशि बद्ध-पुष्प-धनुषो यूनोर्-अपारं रहः- संलापैः सह सम्भ्रमैः सह रतारम्भैः सहालिङ्गनैः ॥ १०॥ इदमिह तटं हेमाब्जिन्यास्-ततो नवचम्पकः कुरवक-तरुं वामे कृत्वा रसालं-उपाश्रितः । तदनु निकटे द्रष्टुं शक्यां-उपेत्य स सम्भ्रमात्- सुदति भवतीं गाढाश्लेषैर्-नयेन्-मणिवेदिकाम् ॥ ११॥ अय तां गुरु-कुच-तान्तां गमन-श्रान्तां नितम्ब-भारेण । दृष्ट्वा निकुञ्ज-शयितां तच्चरितं प्राह शङ्कराय सखी ॥ १२॥

द्वादशाष्टपदी

Ashtapadi 12 देव विभो महादेव विभो त्वयि चिरसक्ता पाण्ड्यसुता ॥ध्रुवम् ॥ कथमपि कतिपय-पदं-अनुचलिता । गुरुकुच-जघन-भरेण विवलिता ॥ १॥ श्वसिति न सौरभ-मिलद्-अलि-भीता । न चलति मलय-समीर-विधूता ॥ २॥ गणयति किमपि मनोरथ-जालम् । हसति विनिन्दति विभवं-अवेलम् ॥ ३॥ मुहुरपि कलयति मण्डनं-अमितम् । दिशि दिशि किरति दृशं सह-चकितम् ॥ ४॥ तिमिरागतमिव तत्रभवन्तम् । गायति सूचित-वास-गृहान्तम् ॥ ५॥ भवद्-अभिसार-विलोकन-कुतुकम् । सफलयतरलित-चन्दिर-कलिकम् ॥ ६॥ अपचित-मृदुल-रसाल-किसाला । रचयति शयनं रतिसुख-लोला ॥ ७॥ जीवति सा तव पुराकृत-कलया । हालास्ये भवद्-अर्पिता-धर-सुधया ॥ ८॥ इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे तृतीयः सर्गः ॥

चतुर्थः सर्गः

Sarga 4 श्लोकानि अचिरं-अभिसर त्वं प्रीणय प्राण-कान्तां त्वदधर-मधु-लोला कातरा सा वियोगे । चलितुं-अनवकाशा मुद्रिता मोहकोशे गणित-रजनि-शेषा भृङ्ग-योषेव खिन्ना ॥ १॥ अपि चिरयसि चेत्त्वं भावजं वा रुजं वा परिहर परमेश प्राणितुं प्रेयसी ते । परिचय-सरसानां सा सखीनां वियोगेऽप्य्- अनुकलयति तापं किं पुनः प्राण-बन्धोः ॥ २॥ अद्यैव हन्त कुसुमायुध-जैत्र-यात्रा विस्तारिता पट-कुटी मकराङ्कितेव । आलोक-भीत-सकलारि-कला दशाभिर्- आबद्ध-रश्मिर्-उदिता हरिणाङ्क-मूर्तिः ॥ ३॥ तपति तनुं हिममानौ विरह-कृशानौ च दहति बहुभीता । अविरलित-बाष्प-पूरं शोकं-अधीरं वितेने सा ॥ ४॥

त्रयोदशाष्टपदी

Ashtapadi 13 आहरिरागेण गीयते । झम्पातालः । किं करोमि कथं सहे विफलित-कठोर-जीविताहम् ॥ध्रुवम् ॥ अति-परुष-कामशरं-अनुसरति हिमकरे । रति-कुतुकं-अपरासु नयति शिति-कन्धरे ॥ १॥ अपि तमसि मम वसतिरिव विपिन-कौमुदी । गिरिश-मतिरिव बहुल-कुसुम-वन-षट्पदी ॥ २॥ अनुशोच्य बहु खेदयति चक्रवाकी । नीलकण्ठतयेव नटति केकी ॥ ३॥ तनुमिव हि शोषयति भूषण-कदम्बम् । कलयति च परवशे गिरिशे विडम्बम् ॥ ४॥ सुरलोक-वनिताभिर्-अपि यद्-अनुयातम् । भावि शल्यं तदिह मम हृदि निखातम् ॥ ५॥ अतिविरहि-वपुर्-इदं किमिति धृत-चेतनम् । अनुभविष्यति किं नु विमुख वृष-केतनम् ॥ ६॥ अनुचलित-चन्द्रकलं-अनुवलित-कन्धरम् । स्फुरति मम मानसं स्फुरित-मधुराधरम् ॥ ७॥ मदन-शशि-मलय-गिरि-पवन-वैरस्यम् । जित्वा कदा यामि नव्य-हालास्यम् ॥ ८॥ श्लोकानि देवः पुष्पवने विलास-रसिकः किं हेमनाथारतः किं वा सार-तरेण भद्र-वनिता-गानेन सम्मोहितः । यद्वा वैश्यसुता-कर-ग्रह-सुखान्नेष्टे निवृत्यै कुतः सारज्ञः प्रणयी युवा समरसोऽप्यद्यापि नैवागतः ॥ ५॥ अथानुनेतुं शशिखण्ड-चूडं चिराद्-अलब्धा-वसरां-उपेताम् । सखीं विलोक्य प्रियं-अन्यकान्ता- वशीकृतं दुष्टं-इवाह गौरी ॥ ६॥

चतुर्दशाष्टपदी

Ashtapadi 14 कापि नवललिता वशयति शिवं-अङ्गज-पालिता ॥ध्रुवम् ॥ मदन-मदोदित-वदन-विकासा । रतिसुख-लालस-नयन-विलासा ॥ १॥ दरहसित-स्फुरिताधर-बिम्बा । तरुणिम-मद-मत्त-वितत-नितम्बा ॥ २॥ सरभ-सपरिरम्भ-गुम्फित-पुलका । चिर-परिशीलित-नख-दन्त-कलिका ॥ ३॥ सकुतुक-समरस-केलि-कलापा । कुच-कुम्भ-कौसुम्भ-कलित-विलेपा ॥ ४॥ नव-मदनाहव-सम्भृत-लीला । मणि-कुण्डल-बिम्ब-चुम्बि-कपोला ॥ ५॥ षे एन्जोय्स् एवेर्-नेव् पस्सिओनते स्पोर्त्स्, दुरिन्ग् व्हिच् थे एअर्-रिन्ग्स् किस्स् हेर् चीक्स्। (५॥ काञ्ची-मणि-रणितोचित-मणिता । स्मर-समरोद्धत-नटन-विवलिता ॥ ६॥ चल-दलकाहत-कर्ण-शिरीषा । दर-मीलितेक्षण-दर्शित-तोषा ॥ ७॥ प्राणप्रियासीति कथित-मनोज्ञा । हालास्य-पुर-वास-रचित-प्रतिज्ञा ॥ ८॥ श्लोकानि कान्तः कन्दुक-खेलद्-अङ्घ्रि-कमल-व्यत्यस्त-नृत्य-क्रमै- रागः स्वीयं-अपाकरिष्णुरपि हा तिष्ठेत मह्यं कदा । औत्सुक्याद्-अनुरञ्जनाद्-अनुपदस्पर्शाद्-अनुप्राप्य मां- आश्लिष्येद्-अनुलालयेद्-अनुवदेद्-आनन्दयेद्वा कदा ॥ ७॥ मन्दो निन्दतु चन्दनाचल-मरुद्-व्यालीव केलीशुकी कान्तोऽरुन्तुद-वाचं-उच्चरतु हा कामोऽपि भीमायताम् । किं वक्ष्यामि कथं कठोर-विरहे सन्तप्ततया यन्मया शीतांशुर्-मम जन्म-वंश-गुरुरप्य्-अद्यैव वैरायते ॥ ८॥ अत्रान्तरे पुष्प-वनाभिसारे सौन्दर्यं-अन्यादृशं-आवहन्तीम् । कैवर्त-कन्यां चकमे पुरारिर्- इत्थं सखी प्राह सुमीन-नेत्राम् ॥ ९॥

पञ्चदशाष्टपदी ।

Ashtapadi 15 मुखारिरागेण गीयते । मिश्रछाप् तालः । यतते कुसुमायुध-समरे मधुर-सुधांशुर्-अधुना ॥ध्रुवम् ॥ जित-मणि-मुकुरे स्मित-पुर-रुचिरे कामिनी-गण्ड-तले । घटयति वदनं सविलास-मदनं विधुमिव सुधा-मण्डले ॥ १॥ शितमुख-रचने रमणी-रशने शुकतुण्ड-शिखरोपमे । नवनव-मधुरं जित-बिम्बं-अधरं वितरति रति-सम्भ्रमे ॥ २॥ परिचय-पृथुले गुरुकुच-युगले मञ्जुल-मकरीदले । सृजति विशङ्कं सरस-नखाङ्कं मणिमिव कनकाचले ॥ ३॥ रतिगति-चतुरे रशना-मुखरे खेलति पृथु-जघने । परिचित-नलिने यमुना-पुलिने हरिरिव रुचिर-घने ॥ ४॥ चिकुर-विभागं नयति सरागं लावण्य-पूर-पथम् । विलसद्-अकुटिलं सिन्दूर-पटलं रविमिव तिमिर्-आवृतम् ॥ ५॥ स्मर-चाप-तरले भ्रुकुटी-युगले लोचन-गुण-रञ्जिते । श्रित-फाल-फलकं मृगमद-तिलकं शरमिव कामयते ॥ ६॥ कुचगिरि-वहने कचभर-नहने मदयति बहु मोदते । गायति गीतं रति-सुख-जातं नृत्यति विवशायते ॥ ७॥ उपवन-सविधे प्रतिकल-विविधे चुम्बन-बन्ध-शते । तरलित-चिकुरे तरुणी-निकरे हालास्यपती राजते ॥ ८॥ श्लोकानि काञ्ची-चञ्चल-किङ्किणी-कलरवैः कर्णामृतं कल्पयेद्- वेणी-सौरभ-सम्पदा सहजया घ्राण्प्सितं पूरयेत् । भाग्यानाम्-अधिदेवता नयनयोः सैवोपलभ्येत वेत्य्- आशास्ते स विशङ्कते विवलते त्वां वीक्षते शङ्करः ॥ १०॥ आमोदो रति-कौशले बहुमतिः कन्दर्प-सारस्वते सौजन्यं मृदु-भाषणे सखि कथं विस्मार्यते मायिना । स्थाने धूर्त-शिखामणिः स रमते धन्यासु वन्यासु वा यातायातदये समान-हृदये चिन्ता दुरन्ता मम ॥ ११॥

षोडशाष्टपदी

Ashtapadi 16 या सुखिता सखि शम्भुना या सुखिता । (ध्रुवम् ॥ मुकुट-घटित-शशधर-शकलेन । न बिभेति सा नवहिम-सलिलेन ॥ १॥ मधुर-समधुरिम-लसद्-अधरेण । न जहाति सा मुदं-अलि-निकरेण ॥ २॥ सहकार-किसलय-मृदुल-शयेन । न दुनोति सा हृदि मधु-समयेन ॥ ३॥ दरहास-विकसित-मुखमधुरेण । न तनोति सा शुचं-अतनु-शरेण ॥ ४॥ मृगमद-सुरभित-वसनाञ्चलेन । न दधाति सा परिभवं-अनिलेन ॥ ५॥ प्रतिकल-नवनव-शुभ-रचनेन । न तनोति सा रुजमपि विजनेन ॥ ६॥ सललित-समरस-सुविहरणेन । न बिभर्ति सा रुषं-उपचरणेन ॥ ७॥ अनुरत-हालास्य-पुर-निलयेन । समुपैति सा नवमणि-वलयेन ॥ ८॥ इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे चतुर्थः सर्गः ॥

पञ्चमः सर्गः ॥

Sarga 5 श्लोकानि न किं ते दाक्षिण्यं पवन न किं-आमोद-समयः प्रसीद प्राणोऽसि प्रणयिनं-अनुप्रापय मनाक् । श्वसन्तं हा हन्तज्वलयसि मनोजाग्निं-अधुना जगत्प्राणस्येदं बत मलय-बन्धो किं-उचितम् ॥ १॥ किञ्चिच्-चलापाङ्ग-निदेश-मात्राल्- लीलावतीनां कुशलं विधातुः । कन्दर्प कुत्र्-आत्मभुवस्-तवापि संहार-पारुष्यमिदं प्रसक्तम् ॥ २॥ निर्वेद-सङ्कल्प-विकल्प-जालैर् नीत्वा कथञ्चिद्-रजनीं प्रभाते । स्मरातुरापि प्रणमन्तं-अग्रे नवागसं शङ्करं-आह गौरी ॥ ३॥ आलिप्तं निटिले तव प्रियतमा-सीमन्त-सिन्दूरकं सङ्क्रान्तो नयनाञ्चले नववधू-कर्पूर-वीटी-रसः । इन्द्धे कज्जल-कालिमा कलुषवद्-बन्धूक-शोणाधरे लब्धं सर्वं-अभीष्टं-आशु भवता धन्योऽसि मान्योऽसि मे ॥ ४॥

सप्तदशाष्टपदी ।

Ashtapadi 17 मलहरिरागेण गीयते । आदितालः । साधु पुरहर साधु विषधर साधितवानसि कामम् । तां-उपलालय सोमकलाधर या तव दिशति ललामम् ॥ध्रुवम् ॥ मृदुपद-रञ्जित-नवलाक्षारस- संवलितं तव फालम् । उदयारुण-रुचिरार्ध-विभासित- विधिं-अनुसरति सलीलम् ॥ १॥ पृथुल-पयोधर-कुङ्कुम-रस-दृढ मुद्रितं-उरसि समोहम् । कथयति वर्तुल-मण्डल-युगलं वरतनु-कुच-परिणाहम् ॥ २॥ एककलावति भवति पुरा शिव शेखरमात्रं-उदारम् । बहुल-नखेन्दु-कलाभिर्-अलङ्कृतं- अधुना लसति शरीरम् ॥ ३॥ रजनी-जागर-चुम्बन-लालस कोकनदाधिक-शोणम् । लोचन-युगलं तव रति-साहसं- अनुवदति स्मयमानम् ॥ ४॥ विद्रुम-मरकत-मौक्तिक-घटितं कुङ्कुम-पङ्किल-हारम् । उरसि निधाय वृथा वचनैरपि किरसि सुधारस-सारम् ॥ ५॥ नवनवबन्ध-विशेष-विनोदित- युवति-शतं तव गात्रम् । मृगमद-कुङ्कुम-रजनी-कज्जल- यावक-विरचित-चित्रम् ॥ ६॥ कैतव-कौशलमपि तव विदितं तां-उपयाहि समौनम् । स्वादुसक्तु-गमित-प्रणयामिव न गणय मामपि नूनम् ॥ ७॥ तावक-जनमपि तादृश-सुखमपि किमिति विहाय विषादम् । कलयसि हालास्याधिप मा कुरु पुनर्-अलसासु विवादम् ॥ ८॥ श्लोकानि अङ्गं श‍ृङ्गार-तुङ्गं तरुणिम-विततेर्-अन्तरङ्गा अपाङ्गा वक्त्रं शीतांशु-मित्रं जयतु मधुकर-श्रेणिका वेणिका ते । दक्षो वक्षोज-भारः स्मर-समर-समारम्भ-सम्भावनीयः कान्ते क्लान्ते सखि त्वं कथमसि विमुखी मान्मथेऽपि प्रपञ्चे ॥ ५॥ तदनु स्मृत-विरहां तां विरस-स्वान्तां विषाद-सङ्क्रान्ताम् । प्रकटित-पशुपति-चरितामाली मलयध्वजां प्राह ॥ ६॥

अष्टादशाष्टपदी

Ashtapadi 18 यरकलकाम्भोजिरागेण गीयते । आदितालः । सुन्दरं सोमसुन्दरम् । नन्दय सखि शरद्-इन्दु-मुखम् ॥ध्रुवम् ॥ अयि शिवं-अनुनय सन्त्यज कोपम् । जनयसि सरसे किमु परितापम् ॥ १॥ रुचिर-तद्-अङ्गुलि-परिचय-पृथुलम् । सफलय सपदि पयोधर-युगलम् ॥ २॥ तव मधुराधर-मधुरिम-रसिकम् । सकृद्-अवलोकय समरस-कुतुकम् ॥ ३॥ विफल-विचार-विषाद-विदूना । सीदसि किमिति कलावति दीना ॥ ४॥ प्रतिवदसि प्रियतमं-उपयातम् । तं घटयसि परयुवती-जातम् ॥ ५॥ करगतं-अमृतं विकिरसि बाले । अहह कुतूहल-कुसुमित-लीले ॥ ६॥ अचिरं-उपाश्रय कुवलय-नयने । शङ्करं-अभिनव-किसलय-शयने ॥ ७॥ सुगुण-निधे देवि कुरु मम वचनम् । स्मर-हालास्याधिप-रतिरस-रचनम् ॥ ८॥ श्लोकानि प्राप्तश्च प्रार्थनीयः सुदति वदति च प्रेमसारानुसारं वामे कामेषु-भिन्नं वपुर्-अतिमृदुलं पश्य पश्यालिकस्य । मानं मौनं च मा गाः सखि सुखय रतौ सत्वरा जित्वरा त्वं रन्तुर्-भर्तुर्-वधूनां-अभिलषित-सुख-प्रापणः श्लाघनीयः ॥ ७॥ तस्मिन्-दिनान्त-समये सहसा गिरीशो दोषा-नुचिन्तन-कषायित-लोचनां ताम् । आराद्-उपेत्य विनयेन मुहुः श्वसन्तीं सव्रीड-नम्र-वदनः स्वयं-इत्युवाच ॥ ८॥

एकोनविंशाष्टपदी ।

Ashtapadi 19 मुखारिरागेण गीयते । झम्पातालः । प्रिये मीननयने विसृज मयि रोषं-अविचारम् । रहसि कृत-दूषणं रमणि मम भूषणं कलय परिरम्भं-उपहारम् ॥ध्रुवम् ॥ प्रसरतु तव प्रणय-सरसं-अवलोकनं भजतु जगद्-अमृतरस-सेकम् । वचनमपि सप्रेम यदि भवति तावकं वशयामि मदनं-अतिलोकम् ॥ १॥ तरुणि तव लोचनं न कलय रुषारुणं दलित-कोकनद-दल-समानम् । विविध-रति-साहसैर्-अधिरजनि जागराद्- अनुरागं-अनुवहतु नूनम् ॥ २॥ कलकण्ठि किमिति मयि दोष-परिगणनेन मुखरयसि मुख-कमल-नालम् । स्मर-समर-काहली-कलकल-विजृम्भितं मणितं-अनुनय मधुर-लीलम् ॥ ३॥ श्वसित-पवनेन परिशीलयसि वेपथुं विद्रुम-लताङ्गि किं-अधीरम् । विषम-रति-रभसेन कुच-लिकुच-ताण्डवं वियति कल्पय तरल-हारम् ॥ ४॥ प्रतिफलित-ताटङ्क-मणि-किरण-रञ्जितं न तिरय करेण सुकपोलम् । घनसार-वीटिका-कबलं-अतिसौरभं देहि मम जित-मधुर-जालम् ॥ ५॥ ललित-वलित-ग्रीवं-उन्नमित-वदनं-अयि मयि किं-अनुचिन्तनं-अपारम् । रदनदर-संसर्ग-निर्गलन्-मधुरसं वितर मधुराधरं-उदारम् ॥ ६॥ गजदनुज-कुम्भ-दृत-मुक्ताफलोज्ज्वलं मणिसरं गमय कुच-भारम् । अनुयातु शशिकला तारक-समाजमिव मम करज-रेखानुवारम् ॥ ७॥ हंसक-झलञ्झलित-मुखर-पद-पङ्कजं मम हृदि निधेहि सुकुमारम् । स्मर-ताप-शमनाय वर्षतु सुधारसं हालास्य-कृत-राज्य-भारम् ॥ ८॥ श्लोकानि यदि च कुपितं चेतो हेतुं विनैव तव प्रिये प्रहर परुषं वेण्या वाण्या विनिन्द रुषं त्वज । अहह दहति क्रूरो मारः प्रयुज्य शरान्-बहून्- व्यथित-वपुषं वामे भामे कथं समुपेक्षसे ॥ ९॥ दिशि मम दरस्मेरां दृष्टिं दिशेद्-अवलोक्य-मां त्रिचतुर-पदं प्रत्युद्गच्छेन्-नितम्ब-भरालसा । उपगतमपि प्रेमावेशान्-निगूहन-चुम्बन- प्रथम-वचनैर्-धन्यं कुर्यात्-प्रिये भवती कदा ॥ १०॥ अनुनय-विनयाभ्यां प्रापयित्वा प्रसादं गतवति मधुरेशे मञ्जु सङ्केत-कुङ्जम् । तदनु शबर-नेत्रां प्राप्य काचित्-प्रदोषे चतुरतरं-अवादीद्-रत्नपेटीं दधाना ॥ ११॥

विंशाष्टपदी

Ashtapadi 20 कल्याणीरागेण गीयते । मिश्रछाप् तालः । कान्ते शशिमकुतं-अभिसर । कातर-लोचने ॥ध्रुवम् ॥ तव हृदया-नुसरण-चतुरं रति-कौशल-गरिम-धुरीणम् । वेगवती-तट-कुसुमित-वञ्जुल-कुञ्जे कृत-मृदुगानम् ॥ १॥ नवमणि-काञ्ची-कलरव-बोधित-शुक-कोकिल-परिवारम् । प्रतिपदं-अनुनय जघन-स्तन-भर-विघ्नित-गमन-विचारम् ॥ २॥ अहमहमिकया नवनव-कुसुम-मधूलि-चलद्-अलिगुञ्जे । नटति विलोकय नव-पवनाहत-मञ्जरिका-नवकुञ्जे ॥ ३॥ कनक-दुकूल-चकच्चकित-स्तन-कलश-युगान्तर-लग्नम् । मृदु परिवेलय मणिसरं-उपकुरु करकमलेन वलग्नम् ॥ ४॥ शङ्कित-नवजलद्-आगम-तिमिर-विलोकन-नटित-मयूरम् । अयनं-उपाश्रय विविध-पराग-भरालस-मलय-समीरम् ॥ ५॥ नयन-विलास-विनिर्मित-कुवलय-मालिकयैव वनान्तम् । भूषय दरहसिताङ्कुर कुसुमैर्-उपसर सखि तव कान्तम् ॥ ६॥ अवगतमेव सखीभिर्-उदाहर तव पति-समरस-भावम् । स्फुरद्-अधरं मुहुर्-उपचित-पुलकं न तिरय भवद्-अनुभावम् ॥ ७॥ अनति-विभूषणं-अखिला-वयवं प्रिय-घटनाय तवाङ्गम् । कलय विलासिनि वशितानङ्गं हालास्याधिपसङ्गम् ॥ ८॥ इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे पञ्चमः सर्गः ॥

षष्ठः सर्गः

Sarga 6 श्लोकानि रन्तुः पुष्पवतीं दिवा दिनमणेर्-भूयः प्रदोषागमे तामिस्रालि-मिषाद्-अकीर्त्ति-पटली व्याप्नोति सर्वा दिशः । किं चेहाभिसरद्-वधूकचमरामोद-प्रिया षट्पद- श्रेणिर्-नील-सरोज-कानन-धिया व्यग्रा परिक्रामति ॥ १॥ तनु-प्रभा-कल्पित-चारु-चित्रकं सलील-संव्यानमिव स्तनान्तरे । निरन्तरायं परिरम्भ-सम्भ्रमं कलावतीनां तनुते चिरं तमः ॥ २॥

एकविंशाष्टपदी

Ashtapadi 21 घण्टारागेण गीयते । झम्पातालः । पश्य ललिते शङ्कर-विलासम् । पश्य ललिते ॥ध्रुवम् ॥ जलद-रुचि-वलभिद्-उपलाकर-घने । विलस सखि विद्युदिव मीननयने ॥ १॥ कनकमहि-परिलसित-धातु-निकरे । इह निवस मणिरिव सुगन्धि-चिकुरे ॥ २॥ शशि-किरण-विशद-तट-सौध-निकटे । इह भव चकोरीव चन्द्र-मकुटे ॥ ३॥ नलिनी-दला-रचित-मृदुल-शयने । इह चर मरालीव मन्द-गमने ॥ ४॥ वनपवन-दरदलित-सुमविताने । इह निनद रतिरिव सुललित-गाने ॥ ५॥ कोमल-तमालदल-कृत-कुटीरे । इह जय मयूरीव सुगुणहारे ॥ ६॥ अतिरुचिर-नवरत्न-कुट्टिमपदे । इह विहर मञ्जीर-शिञ्जित-पदे ॥ ७॥ अतिशयित-हालास्य-स्थल-सद्-उपवने । इह रमय शिवमवित-सकल-भुवने ॥ ८॥ श्लोकानि निसर्ग-कच-सौरभ-प्रतिपद-प्रतिष्ठापके तव प्रियतमे सखि प्रसव-चाप-तापाधिके । प्रमर्दित-घनस्तन-स्तबक-लिप्त-कस्तूरिका- करम्बित-कराम्बुजे न कलय प्रतीपं वृथा ॥ ४॥ आलीषु किल दाक्षिण्यात्-केलीशुक-सहायिनी । सानन्द-मदना प्राप मीनाक्षी सुन्दरेश्वरम् ॥ ५॥

द्वाविंशाष्टपदी

Ashtapadi 22 मध्यमावतीरागेण गीयते । आदितालः । मधुराधिपतिं परिचित-समरस-भावम् । सा ननन्द समवेक्ष्य समाहित-कुसुम-सरासन-भावम् ॥ध्रुवम् ॥ मीनाक्षी सविलास-समागम-समुदित-बहुविध-लीलम् । विमल-कलानिधिमिव शरद्-उज्ज्वल-राका-रञ्जन-शीलम् ॥ १॥ विशदं-उरःस्थलं-अधिगत-नवमणि-खचित-मनोहर-भूषम् । अमृत-पयोनिधि-मध्यभागमिव समणिद्वीप-विशेषम् ॥ २॥ गौरी-कुच-भरं-अनुकलयन्तं सरस-कटाक्ष-विहारम् । कनक-महीधर-शिखराञ्चितमिव पारिजात-सुमहारम् ॥ ३॥ कुङ्कुम-रजसा गलनील-रुचिं विदधतं-उपरि सुदूरम् । चलित-कदम्ब-पराग-विधूसरमिव मधुकरं-अनुवारम् ॥ ४॥ कलित-कपोल-विकास-दरस्मितं-अनुरत-मदकल-गीतम् । प्रेमपूरं-अतिलङ्घित-वेलं बहिरिव मुहुर्-अनुयातम् ॥ ५॥ सित-सुकुमार-शरीरं-उदञ्चित-विद्रुम-राग-दुकूलम् । राजहंसमिव नवयावक-रस-रञ्जित-पक्ष-विलोलम् ॥ ६॥ मरकत-वलय-विभूषित-पाटल-कोमल-करयुग-सीमम् । वर-तापिञ्छ-स्तबकालङ्कृत-पल्लव-शरमिव कामम् ॥ ७॥ निटिल-विराजित-काश्मीर-तिलकं-अमित-कुतूहल-सान्द्रम् । हालास्य-पुरी-सौध-श‍ृङ्ग-मणि-रुचि-रञ्जितमिव चन्द्रम् ॥ ८॥ श्लोकानि दरस्मेरापाङ्ग-स्फुरित-मृदु-शोणाधर-दलं चलत्-कर्णोत्तंसं कुसुम-शयनोपान्तगमने । तदानीं मीनाक्ष्याः पति-समरसा-लोक-कुतुकाद्- उदीतो रोमाञ्चः स्मर-समर-रक्षा-कवचितः ॥ ६॥ लीलाशुकं प्रियतमस्य करे विधातुं सव्रीड-सस्मित-ससाध्वसं-उद्यतायाः । तस्या मनोभव-विलास-वशंवदाया आलीजनैर्-उपगता बहिरेव वृत्तिः ॥ ७॥ तदनु विजने केली-कुञ्जे सपल्लव-मल्लिका- कुवलय-दलाकल्पे तल्पे तरङ्गित-वीक्षणाम् । सरस-ललित-प्रेम-स्थेम-प्रपञ्चन-कातरां- अनुकल-नवव्रीडां कान्तां जगाद जगत्पतिः ॥ ८॥

त्रयोविंशाष्टपदी

Ashtapadi 23 नादनामक्रियारागेण गीयते । आदितालः । ललिते सपदि सदाशिवम् । समरसं-अनुभव कातरम् ॥ध्रुवम् ॥ प्रविश यवनिकां निविश ममाङ्के रम्भोरु प्रियसारे । मामिव पाणि-स्पर्श-विलोलं तव शुकं-अनुवद धीरे ॥ १॥ विसृज विश‍ृङ्खल-रतिगत-वैभव-विरस-विलज्जित-भेदम् । विदलित-शेष-निचोलं-इवार्पित-गुरुकुच-सन्धि-विषादम् ॥ २॥ मर्दन-चञ्चल-नखकिरणैर्-अवलोकय कुच-तट-रागम् । मदन-मद-द्विपकुम्भ-विजृम्भितमिव सिन्दूर-परागम् ॥ ३॥ विनमित वेणिकं-उन्नमिता-ननं-अधरा-स्वाद-विशङ्कम् । न गमय नखमुख-घातं-इमं सखि पुनरिव विरहातङ्कम् ॥ ४॥ मृदुल-भुजान्तर-वलयित-कन्धर-बहुलित-रागं-अपारे । मां-आलिङ्ग्य सुमाशुग-तप्तं स्नपय सुखामृत-सारे ॥ ५॥ रूप-विलोकन-वचनाकर्णन-वदनास्वाद-सरूपम् । अनुरञ्जय मां-अतनु-पराजितं-अभिमुख-सरसालापम् ॥ ६॥ अकृत-श्रुति-पथ-लङ्घनमिव तव नयनाकर्ण-विलासम् । अमृत-विलङ्घन-भीरुमिवा-ञ्चसि मुहुर्-अधरावधि-हासम् ॥ ७॥ समरति-परवश-सञ्जीवनमिव मलय-समीर-कुमारम् । अनुरत-मणित-विलासैर्-अनुनय नवहालास्य-विहारम् ॥ ८॥ श्लोकानि आशास्यं मम पूरयेति सरसं सम्प्रार्थितायास्-तदा वक्तुं किञ्चिद्-उदञ्चितेऽधरदले मन्दाक्षमग्नं वचः । अंसावर्तितं-आननं पुलकितं ताटङ्क-रत्न-प्रभा- रम्यं गण्डतलं मुहुर्-विवलिता दृष्टिः प्रियस्याधरे ॥ ९॥ प्रेम-पूर-परीवाह-कटाक्ष्-आविष्कृत्-आशयः । शङ्करः प्राह मीनाक्षीं साकूतं रन्तुं-इच्छया ॥ १०॥

चतुर्विंशाष्टपदी

Ashtapadi 24 कलयाधुना मदनाहवं मीनाक्षि नयनोत्सवम् । (ध्रुवम् ॥ सरस-दृगञ्चलभल्ल-पुरस्कृत-नखार्ध-चन्द्र-प्रकरे । विलसति निष्क्रममाण-मनोभव-कुञ्जर-कुम्भ-कुचान्तरे ॥ १॥ शुक-पिक-कोकिल-चन्दिर-मारुत-मधुमाधव-परिवारे । दिशि दिशि सज्जित-मधुर-शरासन-सुमशर-विविध-विहारे ॥ २॥ मणित-विजृम्भित-काहलि-कलकल-रव-मुखरे रत्यगारे । मणि-रशनाकृत-जयघण्टाध्वनि-मिश्रित-हंसक-रणित-भरे ॥ ३॥ नवनव-विकसित-रोमाञ्च-कवचित-तदिद्-उपमान-शरीरे । वशयति मां-अवशं रति-साहस-तत्व-निरूपण-सुन्दरे ॥ ४॥ अविरल-सङ्गत-सून-शराञ्चित-सरस-रसाल-किसाले । विरहि-मनोगत-मर्म-निकृन्त-नक्रकच-धुरन्धर-शीले ॥ ५॥ दृढ-परिरम्भण-चुम्बन-ताडन-कारित-घर्मज-शीकरे । मधुरिम-भरित-शरास-विलास-कन्दलितास्य-निशाकरे ॥ ६॥ मलय-समीरण-चञ्चल-कुन्तल-मधुपावृत-मुख-पङ्कजे । त्रिजगद्-अहङ्कृति-जलनिधि-शोषण-मण्डन-मण्डित-कुम्भजे ॥ ७॥ विजयरमा-प्रथमागम-मङ्गल-वाद्यक-वादन-सम्भ्रमे । नवरस-भरित-विलास-समेधित-नवहालस्य-गृहोत्तमे ॥ ८॥ श्लोकानि प्रत्यङ्गं स्पृशतः करौ नियमितौ यद्-बाहुमूले तया स्थानाद्-उच्चलतो यद्-ऊरु-घटनं श्रोणी-तटेनाहतम् । वक्षोजात-वली-तरङ्ग-जघनाभोग-श्रियं पश्यतो दष्टोऽयं मधुराधरोऽस्य तदिदं श‍ृङ्गार-वीरायितम् ॥ ११॥ तत्तद्-भाव-कला-विलासकतया कामः कृतार्थस्-तयोर्- उन्मृष्ट-श्रमवारि-शीकरतया धन्योऽस्तु मन्दानिलः । दत्तान्योन्य-जयश्रियोः समरति-प्रोत्साहन-प्रौढयोर्- गौरीशङ्कर-मौलिचन्द्रकलयोर्-भाग्यं तदन्यादृशम् ॥ १२॥ इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे षष्ठः सर्गः ॥ ॥ समाप्तं गीतसुन्दरम् ॥ ॥ शिवार्पणमस्तु ॥ Composed by Sadashiva Dikshita Disciple of Sri Chokkanatha Dikshita Crest jewel of Asthana Vidvans of Chatrapati Sri Tulaja Maharaja of Thanjavur
% Text title            : Gitasundaram
% File name             : gItasundaram.itx
% itxtitle              : gItasundaram mInakShIsundareshvara aShTapadi (sadAshivadIkShitena virachitam)
% engtitle              : gItasundaram
% Category              : shiva, kRitI, gItam, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sadashiva Dikshita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Meaning)
% Latest update         : October 2, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org