गोकर्णमहालिङ्गे वसुमनोनृपानुष्ठित प्रदोषपूजाकैङ्कर्यवर्णनम्

गोकर्णमहालिङ्गे वसुमनोनृपानुष्ठित प्रदोषपूजाकैङ्कर्यवर्णनम्

(शिवगौरीसंवादे) ईश्वरः - पुरा वसुमना नाम राजासीदतिधार्मिकः ॥ ५८॥ विदर्भविषये देवि स कैङ्कर्यपरो मम । नानाप्रकारशोभाढ्यैर्भूधराकारगोपुरैः ॥ ५९॥ प्राकारराजद्वृषभैर्धूयमानपताककैः । नवरत्नचितानेकमण्डपैः शोभितं नृपः ॥ ६०॥ वाहनैश्चैव देवेशि रथैश्च शतचक्रकैः । मदागारपरो राजा मुक्त्यगाराधिनायकः ॥ ६१॥ छत्रचामरजालैश्च स्वर्णशय्यादिभाजनैः । क्षौमाम्बरैः स्वर्णक्लृप्तैः भूषणैर्मणिकल्पितैः ॥ ६२॥ कारयामास नृपतिर्गोलकं रत्ननिर्मितम् । धूपैर्दीपैश्च नैवेद्यैः स्नापनीयैरहर्निशम् ॥ ६३॥ सलक्षगोघृतापारदीपैर्दीपयदम्बिके । ताम्बूलपर्वतांश्चापि दत्तवान्मत्कृपाप्तये ॥ ६४॥ कर्पूरखण्डैः शतशो दीपयामास मां शिवे । छत्रचामरकोटीभिर्व्यजनादर्शकैरपि ॥ ६५॥ नानावाद्यरवैर्देवि पूरयामास मद्गृहम् । नाट्याङ्गनास्तदा तेन कल्पिताः सुमनोहराः ॥ ६६॥ सहस्रं कम्बुकण्ठ्यस्ताः पीनश्रोणिपयोधराः । शैवान्सम्भोजयामास शिवनैवेद्यराशिभिः ॥ ६७॥ प्रफुल्लपुष्पारामं च मत्पूजार्थं प्रकल्पयत् । सोमवारप्रदोषेषु चतुर्दश्यष्टमीषु च ॥ ६८॥ शिवरात्रिषु देवेशि पर्वस्वपि विशेषतः । पूजयत्येव भूपालो नित्याद्दशगुणं शिवे ॥ ६९॥ तत्प्रदोषे कृतां पूजां श्रृणु त्वमगजे शुभाम् । श्रुत्वाऽपि लभते गौरि मम लोकं न संशयः ॥ ७०॥ प्रदोषे पूजनं कुर्वन्नित्यमास्ते प्रहृष्टधीः । गोकर्णेशं महालिङ्गं पश्यन्नष्टोरुकिल्बिषः ॥ ७१॥ प्रदोषपूजारतचित्तवृत्तिः नृपस्तदा मत्पदपूजनोत्सवैः । समभ्यषिञ्चद्गिरिजे महेशं गोकर्णलिङ्गस्यमपारभाग्यैः ॥ ७२॥ क्षीराज्यादिघटैः सुतैलजघटैः सक्षौद्रसच्छर्कराभारैः खण्डदधिप्रसर्पितसुसर्प्युत्थाज्यमण्डादिभिः । रम्भाम्रादिफलैस्तथेक्षुजरसैर्जम्बीरनी रैः शिवैः सन्नारिकेलोद्भवद्रवत्सुक्षौद्रमहोरुकोशैः ॥ ७३॥ आसिच्य गन्धोदकरत्रपुष्पसौवर्णनीरैश्च सुगन्धपूरैः । पाटीरसारैर्मृगनाभिपूरैः कर्पूरसारैश्च सुशोधितैर्जलैः ॥ ७४॥ आलिम्प्य गन्धैश्च तदोरुलिङ्गं संवेष्ट्य शुभ्रोत्तमधौतवस्त्रैः । दत्वोपवीतान्युपवीतिने मे अखण्डशाल्युद्भवतण्डुलाक्षतैः ॥ ७५॥ अनर्घ्यरत्नोत्तम भूषणैर्मामभूषयद्देवि तदा नृपाग्रणीः । बिल्वैश्च पद्मैः करवीरमल्लिकाजातीफलैः गन्धफलीसरैश्च ॥ ७६॥ उत्फुल्लनीलोत्पलपुण्डरीकैः कल्हारजालैररविन्दपुष्पैः । समर्चयन्नामसहस्रतो नृपस्तदा मुदा मां शशिशेखरं शिवम् ॥ ७७॥ बिल्वत्वक्परिकल्पितागरुरसैर्धूपस्तदा दीयते दीपैर्गोघृतपूरितैरतिसितैर्वर्तीभिरत्युज्ज्वलैः । नैवेद्यैर्द्दधिखण्डसारसुभगैः सत्सोपदंशान्वितैः सूपापूपादिराशिप्रभवपरिमलामोदिस्वाद्वन्नजालैः ॥ ७८॥ शुभ्रद्रोणसुमप्रभान्नजमहाराशीभिरीशं शिवे सूपापूपमरन्दसुनदरमहाहैयङ्गवीनोत्थितैः । आज्यैः प्राज्यैः सुतप्तप्रभवपरिमलैः कालकाले निवेद्य हृष्टोऽभूत् प्रार्थिवेन्द्रो जनिशतविततानन्दपुण्यैकमूर्तिः ॥ ७९॥ सन्नागवल्लीदलभारकल्पितैः निष्टप्तहेमादिविशालपात्रैः । ताम्बूलैः कतकैर्लवङ्गमुखरैः पूगीफलैश्चूर्णकैः ॥ ८०॥ उडुगणपतिमौलिं धेनुकर्णेशलिङ्गं तुरगणगणकृष्टैः वाद्यजालोत्थशब्दैः । गणपतिकरशुण्डालग्नकञ्जोत्थनादैः दशशतवरदीपैर्दीपयामास भूपः ॥ ८१॥ सुधारसारगण्होत्थितापारदीपैरस्रण्डैश्च बिल्वैस्तदाऽऽखण्डलाद्याः । सुधाधामखण्डोज्वलन्मौलिलिङ्गमखण्डेकबोधाय नीराजयन्ति ॥ ८२॥ हर हर शिव शङ्कर प्रसीद दुरितोत्थिततापहरास्तदोषे । इति सुरवरकिन्नरोक्तिशब्दैः करबद्धाञ्जलिभिस्तदा प्रदोषे ॥ ८३॥ छत्रैश्चामरकोटिभिश्च गिरिजे मां वीजयन्त्यादरा - न्मायूरैर्व्यजनैस्तथैव विमलादर्शैश्च नाट्यैरपि । देवि प्रस्तवनप्रदक्षिणनमस्कारैः शिवं तोषय - द्भेरीशङ्खमृदङ्गकाहलरवैर्नाट्याङ्गनाकल्पितैः ॥ ८४॥ नाट्यैस्तालमृदङ्गनूपुरझणत्कारारवैः शङ्करं सन्तोष्य प्रमथेश्वरं स मुमुदे धन्यः स भूपाग्रणीः ॥ ८५॥ राजा - श्रीमद्गोकर्ण शम्भो भवशतजनितापारतापैकभङ्गं त्वल्लिङ्गं दृष्टिसङ्गं यदि भवति महाभाग्यपूर्णे जनेऽस्मिन् । काले वीतभये प्रदोषसमये सर्वैः सुरैः सेविते त्वत्पादाम्बुरुहं प्रकृष्टभवजापारव्यथां संहरेत् ॥ ८६॥ शिवः - इत्थं मामम्बिकेशं सुरवरनिकरैः शाङ्करैर्देवि पुण्यैः काले तस्मिन्प्रदोषे गिरिवरतनये सर्वसौख्येऽस्तदोषे । भूपस्तापैर्विहीनो मुदितवसुमनाः सन्मानास्तत्पदाब्जं सम्पूज्यालोक्य पूतो मम गणवरभाग्भाग्यवर्यः कृतो मे ॥ ८७॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे गोकर्णमहालिङ्गे वसुमनोनृपानुष्ठित प्रदोषपूजाकैङ्कर्यवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २३। ५८ब-८७॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 23. 58ba-87.. Notes: Shiva describes to Devi, the Pradosha Puja conducted by King Vasumana at Gokaraneshwara MahaLinga; especially on Mondays (Somavara), (Krishna) Chaturdashi and (Krishna) Ashtami tithi-s, and Shivaratri-s. The shlokas are maintained per the source text. Proofread by Ruma Dewan
% Text title            : Gokarnamahalinge Vasumanonripanushthita Pradoshapujakainkarya Varnanam
% File name             : gokarNamahAlingevasumanonRRipAnuShThitapradoShapUjAkainkaryavarNanam.itx
% itxtitle              : gokarNamahAliNgeva pradoShapUjAkaiNkaryavarNanam (shivarahasyAntargatA)
% engtitle              : gokarNamahAlingeva pradoShapUjAkainkaryavarNanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 23| 58ba-87||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org